पूर्वम्: १।१।२४
अनन्तरम्: १।१।२६
 
प्रथमावृत्तिः

सूत्रम्॥ क्तक्तवतू निष्ठा॥ १।१।२५

पदच्छेदः॥ क्त-क्तवतू १।२ निष्ठा १।१

समासः॥

क्तश्च क्तवतुश्च क्त-क्तवतू, इतरेतरद्वन्द्वः

अर्थः॥

क्त-क्तवतू प्रत्ययौ निष्ठासंज्ञकौ भवतः

उदाहरणम्॥

पठितः, पठितवान्। चितः चितवान्। स्तुतः, स्तुतवान्। भिन्नः, भिन्नवान्। पक्वः, पक्ववान्॥
काशिका-वृत्तिः
क्तक्तवतू निष्ठा १।१।२६

क्तश्च क्तवतुश्च क्तक्तवतू प्रत्ययौ निश्ठासंज्ञौ भवतः। कृतः। कृतवान्। भुक्तः। भुक्तवान्। ककारः कित्कार्यार्थः। उकारः उगित्कार्यार्थः। निष्ठाप्रदेशाः श्वीदितो निष्ठायाम् ७।२।१४ इत्येवमादयः।
लघु-सिद्धान्त-कौमुदी
क्तक्तवतू निष्ठा ८१७, १।१।२५

एतौ निष्ठासंज्ञौ स्तः॥
न्यासः
क्वक्तवतू निष्ठा। , १।१।२५

"भुक्तवान्" इति। "चोः कुः" ८।२।३० इत कुत्वम्। "अत्वसन्तस् चाधातोः" ६।४।१४ इति दीर्घः। अथ केन विहितयोः क्तक्तवत्वोरेषा संज्ञा विधीयते? अनयैव संज्ञया। वक्ष्यति तृतीये "निष्ठा" ३।२।१०२ इति। यद्येवम्, निष्ठासंज्ञया क्तक्तवतू भाव्येते, तावेवाश्रित्य निष्ठासंज्ञेति; इतरेतराश्रयो दोषो भवति, "इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते, (व्या।२८) नैष दोषः; भाविनी हि संज्ञा विज्ञास्यते, यथा- "अस्य सूत्रस्य शटकं वय" इति। तौ भूते काले भवतः, ययोर्विहित- र्निष्ठेत्येषा संज्ञा भवतीति।
बाल-मनोरमा
क्तक्तवतू निष्ठा ८२२, १।१।२५

क्तक्तवतू निष्ठा। क्त, क्तवतु अनयोद्र्वन्द्वः। निष्ठेति प्रत्येकाभिप्रायमेकवचनम्।