पूर्वम्: १।१।४१
अनन्तरम्: १।१।४३
 
प्रथमावृत्तिः

सूत्रम्॥ सुडनपुंसकस्य॥ १।१।४२

पदच्छेदः॥ सुट् १।१ अनपुंसकस्य ६।१ सर्वनामस्थानम् १।१ ४१

समासः॥

न नपुंसकम् अनपुंसकम्, तस्य अनपुंसकस्य, नञ्तत्पुरुषः

अर्थः॥

नपुंसकभिन्नः यः सुट् तस्य सर्वनामस्थान-संज्ञा भवति। सुट् इत्यनेन सु इत्यारभ्य औट्-पर्यन्तं प्रत्याहारः गृह्यते। तत्र च, सु औ जस् अम् औट् इति पञ्च प्रत्ययाः समाविष्टाः सन्ति।

उदाहरणम्॥

राजा राजानौ राजानः राजानम् राजानौ
काशिका-वृत्तिः
सुडनपुंसकस्य १।१।४३

सुटिति पञ्च वचनानि सर्वनामस्थानसंज्ञानि भवन्ति नपुंसकादन्यत्र। नपुंसके न विधिः, न प्रतिषेधः। तेन जसः शेः सर्वनामस्थानसंज्ञा पूर्वेण भवत्येव। राजा, राजानौ, राजानः। राजानम्, राजानौ। सुटिति किम्? राज्ञः पश्य। अनपुंसकस्य इति किम्? सामनी, वेमनी।
लघु-सिद्धान्त-कौमुदी
सुडनपुंसकस्य १६३, १।१।४२

स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥
न्यासः
सुजनपुंसकस्य। , १।१।४२

सु()इति प्रत्याहाररग्रहणम्- सुशब्दादारभ्य आ औटष्टकारात्। तत्र पञ्चैव वचनानयन्तर्भवन्तीत्याह -"सुडिति पञ्च वचनानि" इत्यादि। "नपुंसकादन्यत्र" इत्यादि। अनेनानपुंसकशब्दस्य पर्युदासतां दर्शयति। प्रसज्यप्रतिषेधे हि प्रतिषेधप्रधानमिदं वाक्यं स्यात् - नपुंसकस्य न भवतीति। ततश्च यावती काचित् सुटः सर्वनामस्थानसंज्ञा- प्राप्तिः, तस्याः सर्वस्याः प्रतिषेधः स्यात्। एवं हि "कुण्डानि तिष्ठन्ति" इत्यत्र पूर्वेणापि संज्ञा न स्यात्। तस्यास्तु शसः शिरादेशोऽवकाशः। यद्यपि "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या।प।त१९) इत्येतत्समाश्रयेण प्रसज्यप्रतिषेधे ऽप्येष दोष- शक्यते परिहर्तुम्, तथापि प्रतिपत्तिगौरवदोषः स्यात्। तथा हि- विधिप्रतिषेधयोर्विरोधादेकेन वाक्येन तावच्छक्यो न विधातुमिति वाक्यभेदः कत्र्तव्यः- "सुट् सर्वनामस्थानसंज्ञो भवति। नपुंसकस्य च न भवति" इति। ततश्चासम्बद्धं प्रतिषेधवचन- मिति पूर्वस्या अपि प्राप्तेरयं प्रतिषेधः सम्भाव्येत। ततस्तत्परिहारेणाभीष्टार्थ प्रतिपत्तौ साध्यायां नियतभावी गौरवदोषः प्रसज्येत। तस्मात् सुखावबोधार्थं - पर्युदास एवाश्रितः। नपुंसके न विधिः" इति। स्त्रीपुंसम्बन्धिनः सुट उपादानात्। "न प्रतिषेधः" इति। विधिप्रधानत्वात् प्रयुदासस्य। एतेन नपुंसकेऽस्य योगस्याव्यापारं दर्शयति- "तेन" इत्यादि। यत एव नुपंसके नास्य विधौ प्रतिषेधे वा व्यापारः, तेन जसो यः शिरादेशस्तस्य तेन पूर्वयोगेन संज्ञा भवत्येव; अप्रतिषिद्धत्वात्। "राजा" इति। पूर्वद्दीर्घः। हल्ङ्यादिलोपः। "सामनी,वमनी"इति। "नपुंसकाच्च" ७।१।१९ इति औङः शीभावः। तत्र संज्ञाया अभावाद्दीर्घत्वं न भवति।
बाल-मनोरमा
सुडनपुंसकस्य २२७, १।१।४२

तत्र किं सर्वनामस्थानमित्यत आह--सुडनपुंसकस्य। "शि सर्वनामस्थान"मित्यतः "सर्वानामस्थान"मित्यनुवर्तते। अक्लीबं=नपुंसकभिन्नप्रातिपदिकं, तस्य सुट् सर्वनामस्थानसंज्ञं स्यादित्यर्थः। तत्र सुट्शब्दमप्रसिद्धार्थत्वाद्व्याचष्टे--सुडिति प्रत्याहार इति। "सु"इत्यत्र औटष्टकारेणे"ति शेषः। नतु टाटकारेण, प्रथमातिक्रमणे कारणाऽभावात्।

तत्त्व-बोधिनी
सुडनपुंसकस्य १९२, १।१।४२

सुडनपुंसकस्य। "सुट् स्त्रीपुंसयो"रिति वक्तव्येऽनपुंसकस्येति वचनं ज्ञापकं "प्रसज्यप्रतिषेधेऽपि नञ्समासोऽस्ती"ति कैयटः। तेन "असूर्यंपश्यानि मुखानी"त्यादि सिद्धम्।