पूर्वम्: १।१।६२
अनन्तरम्: १।१।६४
 
प्रथमावृत्तिः

सूत्रम्॥ अचोऽन्त्यादि टि॥ १।१।६३

पदच्छेदः॥ अचः ६।१ अन्त्यादि १।१ टि १।१

समासः॥

अन्त्यः आदिः यस्य तत् अन्त्यादि, बहुव्रीहिः

अर्थः॥

अचः इति निर्धारणे षष्ठी। अन्ते भवं अन्त्यम्, {दिगादिभ्यो यत् (५।३।५४)} इत्यनेन यत् प्रत्ययः। अचां मध्ये यः अन्त्यः अच्, सः आदिः यस्य समुदायस्य, सः टि-संज्ञकः भवति।

उदाहरणम्॥

अग्निचित्, सोमसुत्, इत्यत्र इत् उत् शब्दः। पचेते, पचेथे।
काशिका-वृत्तिः
अचो ऽन्त्याऽदि टि १।१।६४

अचः इति निर्धारणे षष्ठी। जातावेकवचनम्। अचां सन्निविष्टामां, यो ऽन्त्यो ऽच् तदादि शब्दरूपं टिसंज्ञं भवति। अग्निचितिच्छब्दः। सोमसुतुच्छब्दः। आताम्, आथामाम्शब्दः। पचेते, पचेथे। टिप्रदेशाःटित आत्मनेपदानं टेरे ३।४।७९ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
अचोऽन्त्यादि टि ३९, १।१।६३

अचां मध्ये योऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात्। (शकन्ध्वादिषु पररूपं वाच्यम्)। तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणोऽयम्। मार्त्तण्डः॥
न्यासः
अचोऽन्त्यादि टि। , १।१।६३

"अन्त्यादि"इति बहुव्रीहिः अचां मध्ये योऽन्त्योऽच्,स आदिर्यस्य शब्दरूप- स्य तत् तथोक्तम्। ननु चान्त्यशब्दोऽत्राचामित्येतदपेक्षत इत्यसामथ्र्यादादिशब्देन सह समासो न प्राप्नोति, नैष दोषः; अन्त्यशब्दो हि सम्बन्धिशब्दः, सम्ब्नधिशब्दानां नित्यसापेक्षत्वेन गमकत्वात् सापेक्षत्वेऽपि समासो भवति, यथा देवदत्तस्य गुरुकुल- मिति। "निर्धारणे षष्ठी" इति। "यतश्च निर्धारणम्" २।३।४१ इत्यनेन यदि निर्धारणे षष्ठीयम्, एवं हि सति निर्धारणमनेकसन्निपाते भवतीत्यच इत्येकवचनं न स्यात्। बहुत्वद्बहुवचनेन भवितव्यमित्यत आह -- "जातावेकवचनम्" इति। जातेरेकत्वादिति भावः। "अचां सन्निविष्टानां योऽन्त्योच्" इति। कथं पुनरजित्येष विशेषो लभ्यते, यावता नेह द्वितीयमज्ग्रहणम्, नापि प्रकृतम्? एवं मन्यते -- समानजातीयस्यैव लोके निर्धारणं प्रसिद्धम्। तथा हि, कृष्णा गवां सम्पन्नक्षीरतमेति द्वितीयं गोशब्दमन्तरेणापि गौरेव प्रतीयते। तस्मादिहापि यद्यपि द्वितीयमज्ग्रहणं नास्ति, तथापि समानजातीयोऽजेव निर्धार्यमाणोऽवसीयत इति। अन्ते भवोऽन्त्यः, दिगादित्वात् यत्। "तदादि" इति। स आदिर्यस्येति विग्रहः। "इच्छब्दः" इत्यादिनि रूपोदाहरणानि। कार्यं पुनरिच्छब्दस्य टिसंज्ञायामग्निचितमाचष्ट इति णिचि कृते "णाविष्टवत् प्रातिपदिकस्य" (वा।८१३) इति टिलोप अ()ग्न चयतीति। "आताम्, आथाम्" इति। अनयोस्तु टिसंज्ञाकार्यम्-- "टित आत्मनेपदानां टेरे"३।४।९७ टेरेत्वम्। "पचेते, पचेथे" इति कार्योदाहरणे। अथ वहिमहिङोरिकारस्य कथं टिसंज्ञा, यावता न सोऽस्ति यस्य सोऽन्त्यः, अजादिरिति व्यपदिश्यते? नैष दोषः; "आद्यन्तवदेकस्मिन्" १।१।२० इतिव्यपदेशिद्भावेनादिः, अन्त्य इति व्यपदेशो भविष्यति।