पूर्वम्: १।१।७२
अनन्तरम्: १।१।७४
 
प्रथमावृत्तिः

सूत्रम्॥ त्यदादीनि च॥ १।१।७३

पदच्छेदः॥ त्यदादीनि १।१ वृद्धम् १।१ ७२

समासः॥

त्यद् आदिः येषाम्, तानि इमानि त्यदादीनि, बहुव्रीहिः।

अर्थः॥

त्यदादीनि शब्दरूपाणि वृद्धसंज्ञकानि भवन्ति।

उदाहरणम्॥

त्यदीयम्। तदीयम्। एतदीयम्।
काशिका-वृत्तिः
त्यदादीनि च १।१।७४

यस्य अचाम् आदिग्रहणम् उत्तरार्थम् अनुवर्तते। इह तु न सम्बध्यते। त्यदादीनि शब्दरूपाणि वृद्धसंज्ञानि भवन्ति। त्यदीयम्। तदीयम्। एतदीयम्। इदमीयम्। अदसीयम्। त्वदीयम्। त्वादायनिः। मदीयम्। मादायनिः। भवतीयम्। किमीयम्।
लघु-सिद्धान्त-कौमुदी
त्यदादीनि च १०७९, १।१।७३

वृद्धसंज्ञानि स्युः॥
न्यासः
त्यदादीनि च। , १।१।७३

"उत्तरार्थम्" इति। उत्तरसूत्रेऽस्य प्रयोजनवत्त्वात् यद्यनुवत्र्तते,एतद-र्थमपि कस्मान्न भवतीत्याह-- "इह न सम्बध्यते" इति। यदीहापि सम्बध्येत तदायमर्थः स्यात्--- "त्यदादीनि यस्याचामादिभूतानि तद्()वद्धम्" इति। ततश्च त्वत्पुत्र इत्यादावेव स्यात्, केवालानां च त्यदादीनां न स्यादित्यभिप्रायः। ननु च त्वत्पुत्रो मत्पुत्र इत्यादावुपसर्जनानि त्यदादीनि, उपसर्जनानां च तेषां त्यदादित्वं निवर्तितम्, तत् कुतोऽयं प्रसङ्गः? यदि यस्याचामादेरित्येतदिह सम्बध्यते तदा सत्युपसर्जनत्वे वचनात् त्यदादावेव संज्ञा स्यात्, न केवलानामिति मन्यते; कथं पुनरिहानुवर्तमानं शक्यमसम्बन्धुम्? स्वसम्ब्नधानुवृत्तेः। "वृद्धिर्यस्याचामादिस्तद्()वृद्धम्" १।१।७२ इति त्यदादीनि च वृद्धिसंज्ञकानि भवन्ति। "वृद्धिर्यस्याचामादिस्तद्()वृद्धम्" इति तद्()वृद्धम्, "एङ प्राचां देशे" १।१।७४ यस्याचामादिग्रहणमनुवत्र्तते। वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिशब्देन सम्बन्धमनुवत्र्तमानं न शक्यते त्यदादिभिः सम्बन्धुम्। "त्वादायनिः, मादायनिः" इति। "उदीचां वृद्धादगोत्रात्" ४।१।१५७ इति फिञ्(), "प्रत्ययोत्तरपदयोश्च" ७।२।९७ इति युष्मदस्मदोस्त्वामादेशौ। चकारोऽनुक्तसमुच्चयार्थः। तेन "वा नामधेयस्य" (वा।१५) इत्यादि वक्तव्यं न भवति
बाल-मनोरमा
त्यदादीनि च १३१७, १।१।७३

त्यदादीनि च। शेष पूरणेन सूत्रं व्याचष्टे--वृद्धसंज्ञानि स्युरिति। आदेरचो वृद्धिसंज्ञकत्वाऽभावादारम्भः।