पूर्वम्: १।२।५५
अनन्तरम्: १।२।५७
 
प्रथमावृत्तिः

सूत्रम्॥ प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्॥ १।२।५६

पदच्छेदः॥ प्रधानप्रत्ययार्थवचनम् १।१ अर्थस्य ६।१ अन्यप्रमाणत्वात् ५।१ अशिष्यम् १।१ ५३

समासः॥

प्रधानं च प्रत्ययः च प्रधानप्रत्ययौ, इतरेतरद्वन्द्वः। अर्थस्य वचनम् अर्थवचनं, षष्ठीतत्पुरुषः। प्रधानप्रत्यययोः अर्थवचनं, प्रधानप्रत्ययार्थवचनं, षष्ठीतत्पुरुषः॥ अन्यस्य प्रमाणम्, अन्यप्रमाणं, षष्ठीतत्पुरुषः। अन्यप्रमाणस्य भावः, अन्यप्रमाणत्वं, तस्मात् अन्यप्रमाणत्वात्॥

अर्थः॥

प्रधानार्थवचनं प्रत्ययार्थवचनम् अपि अशिष्यं शासितुम् अशक्यं, कुतः? अर्थस्य अन्यप्रमाणत्वात् = लोकप्रमाणत्वात्। शास्त्रापेक्षया अन्यशब्दः। केषाञ्चित् आचार्याणाम् इदं मतम् अभूत् -- प्रधानोपसर्जने प्रधानार्थं सह ब्रूतः, प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः -- तदेतत् पाणिन्याचार्यः प्रत्याचष्टे। अर्थात् ये व्याकरणं न जानन्ति तेऽपि प्रधानार्थं प्रत्ययार्थम् एव प्रयुञ्जते, तस्मात् लोकाधीनम् एव एतत्, अस्य लक्षणं कर्त्तुम् अशक्यम्॥
काशिका-वृत्तिः
प्रधानप्रत्ययार्थवचनम् अर्थस्य अन्यप्रमाणात्वात् १।२।५६

अशिष्यम् इति वर्तते। प्रधानं समासे किंचित् पदं, प्रत्ययस्तव्यदादिः। ताभ्याम् अर्थवचनम् अर्थाभिधानम् अनेन प्रकारेण भवति इति पूर्वाऽचार्यैः परिभाषितम्। प्रधानौपसर्जने च प्रधानार्थं सह ब्रूतः, प्रक्र्तिप्रत्ययौ सहार्थं ब्रूतः इति। तत् पाणिनिराचर्यः प्रत्याचष्टे, अशिष्यम् एततर्थस्य अन्यप्रमाणत्वातिति। अन्यः इति शास्त्रापेक्षया लोको व्यपदिश्यते। शब्दैरर्थाभिधानम् स्वाभाविकं न पारिभषाकम् अशक्यत्वात्। लोकत एव अर्थावगतेः। यैरपि व्याकरणं न श्रुतं ते ऽपि राजपुरुषम् आनय इत्युक्ते राजविशिष्टं पुरुषम् आनयन्ति न राजनम् न अपि पुरुषमात्रम्। औपगवम् आनय इत्युक्ते उपगुविशिष्टम् अपत्यम् आनयन्ति, न उपगुं न अप्यपत्यमात्रं, न उभौ। यश्च लोकतो ऽर्थः सिद्धः किं तत्र यत्नेन।
न्यासः
प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्। , १।२।५६

"अन्यप्रमाणत्वात्" इति। अन्यत् प्रमाणम् अवगतिहेतुर्यस्यार्थाभिधानलक्षणस्य तदन्यप्रमाणम्, तस्य भावोऽन्यप्रमाणत्वम्। "प्रधानं समासे किञ्चित् पदम्" इति। यथा राजपुरुषशब्दे पुरुष इत्येतत्। "प्रधानोपसर्जने" इत्यादि। राजपुरुष इत्यत्र पूर्ववदुपसर्जनम्, इतरत् प्रधानम्। ते च प्रधानार्थ सह ब्राऊतः। "प्रकृतिप्रत्ययौ" इत्यादि। अशक्यत्वं त्वनन्तप्रकारत्वात्। तथा हि-- चित्रगुरिति बहुव्रीहौ कृते गुणगुणिभ्यामन्यपदार्थ उच्यते। अत्र गुणपदं चित्रशब्दोऽप्रधानम्, विशेषणत्वात्; गुणिपदं गोशब्दः प्रधानम्, विशेष्यत्वात्। क्वचिदुपसर्जनाभ्यामन्योऽर्थोऽभिधीते-- प्लक्षन्यग्राधाविति। तथा हि, न केवलं प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्राऊतः अपि तु, क्वचित् प्रकृत्यर्थमपि, यथा-- स्वार्थिकेषु शुक्लतरम्, शुक्लतममिति। तथा केचिदाख्यातेषु स्वभावात् प्रधानमाहुः प्रकृत्यर्थम्-- "क्रियाप्रधानमाख्यातम्" इति। अन्ये तु मन्यन्ते- आख्यातेषु प्रधानभूतः प्रत्ययार्थ एव शक्तिरूपेणोच्यते, यथा विभक्तिभिः क्वचित् प्रत्यये; न तु शक्तिमान् पदार्थो द्रव्यभावमापन्न उच्यते। अतः क्रियान्तरेण च सम्बन्धे शक्त्यन्तरमाविर्भवति कत्र्तारं पश्येति। एवमाद्यनन्तप्रकारमर्थाभिधानशक्यं सर्वमुपदेष्टुम्, तस्माल्लोकत एवार्थावगतिः। कथं पुनरेतद्विज्ञायत इत्यत आह-- "यैरपि" इत्यादि। सुगमम्॥
बाल-मनोरमा
विभाषोपयमने ५५४, १।२।५६

विभाषोपयमने। "यमो गन्धने" इत्तो यम इति, "हनः सिच्" इत्यतः सिजिति, "असंयोगा"दित्यतः किदिति चानुवर्तते। तदाह-- यमः सिच्किद्वा स्याद्विवाहे इति। उपयमशब्दो विवाहे वर्तते इति भावः। रामः सीतामुपायतेति। भार्यात्वेन स्वीकृतवानित्यर्थः। सिचः कित्त्वपक्षे "अनुदात्तोपदेशे"ति मकारलोपे "ह्यस्वादङ्गा"दिति सिचो लोपः। उदवोढेति। भार्यात्वेन स्वीकृतवानित्यर्थः। सिचः कित्त्वपक्षे "अनुदात्तोपदेशे"ति मकारलोपे "ह्यस्वादङ्गा"दित सिचो लोपः। उदवोढेति। भार्यात्वेन परिग्रहः-- उद्वाहः। गन्धनाङ्गे उपयमे त्विति। हिंसापूर्वके विवाहे त्वित्यर्थः। राक्षसविवाहे त्विति यावत्। "हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदतो हरेत्। स राक्षसो विवाहः-" इति स्मृतेः। नित्यं कित्त्वमिति। "यमो गन्धने" इति पूर्वसूत्रेणे"ति शेषः। यदि गन्धनाङ्गकेऽप्युपयमने परत्वादियं विभाषा स्यात्तर्ह एषा प्राप्तविभाषा स्यात्। ततश्च "न वेति विभाषे"त्यत्र भाष्येऽप्राप्तविभाषास्वस्याः परिगणनं विरुध्येत। अतः पूर्वविप्रतिषेध आश्रयणीय इति भावः।

बाल-मनोरमा
प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् १२७९, १।२।५६

अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे--प्रधानप्रत्ययार्थ। प्रत्ययार्थ इति। "प्रकृत्यर्थं प्रति प्रत्ययार्थः प्रधानं=विशेष्यम्, प्रकृत्यर्थस्तु तद्विशेषण"मित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः।

तत्त्व-बोधिनी
विभाषोपयमने ४६१, १।२।५६

गन्धनाङ्गे इति। पूर्वविप्रतिषेधश्च "नवेति विभाषा" सूत्रे भाष्ये उक्तः। नित्यं कित्त्वमिति। "यमो गन्धने" इति पूर्वसूत्रेणेत्यर्थः।