पूर्वम्: १।३।७९
अनन्तरम्: १।३।८१
 
प्रथमावृत्तिः

सूत्रम्॥ अभिप्रत्यतिभ्यः क्षिपः॥ १।३।८०

पदच्छेदः॥ अभिप्रत्यतिभ्यः ५।३ क्षिपः ५।१ परस्मैपदम् १।१ ७८

काशिका-वृत्तिः
अभिप्रत्यतिभ्यः क्षिपः १।३।८०

क्षिप प्रेरणे स्वरितेत्। ततः कर्त्रभिप्रायक्रियाफलविवक्षायाम् आत्मनेपदे प्राप्ते परस्मैपदं विधीयते। अभि प्रति अति इत्येवं पूर्वात् क्षिपः परस्मैपदं भवति। अभिक्षिपति। प्रतिक्षिपति। अतिक्षिपति। अभिप्रत्यतिभ्यः इति किम्? आक्षिपते। द्वितीयम् अपि कर्तृग्रहणम् अनुवर्तते, तेन इह न भवति, अभिक्षिप्यते स्वयम् एव।
लघु-सिद्धान्त-कौमुदी
अभिप्रत्यतिभ्यः क्षिपः ७४९, १।३।८०

क्षिप प्रेरणे स्वरितेत्। अभिक्षिपति॥
न्यासः
अभिप्रत्यतिभ्य क्षिपः। , १।३।८०

"अभिक्षिपति" इति। तुदादित्वाच्छःष।
बाल-मनोरमा
अभिप्रत्यतिभ्यः क्षिपः ५७१, १।३।८०

अभिप्रति। "परस्मैपद"मिति शेषः। स्वरितेदिति। ततश्च कर्तृगामिनि फले आत्मनेपदे प्राप्ते अनेन तत्रापि परस्मैपदमिति भावः। अभिक्षिपतीति। प्रतिक्षपति अतिक्,िपतीत्यप्युदाहार्यम्।