पूर्वम्: १।३।८०
अनन्तरम्: १।३।८२
 
प्रथमावृत्तिः

सूत्रम्॥ प्राद्वहः॥ १।३।८१

पदच्छेदः॥ प्रात् ५।१ वहः ५।१ परस्मैपदम् १।१ ७८

काशिका-वृत्तिः
प्राद्वहः १।३।८१

वह प्राप्ने स्वरितेत्। तत्र कर्त्रभिप्रायक्रियाफलविवक्षायाम् आत्मनेपदे प्राप्ते परस्मैपदं विधीयते। प्रपूर्वाद् वहतेः प्रस्मैपदम् भवति। प्रवहति, प्रवहतः, प्रवहन्ति। प्रातिति किम्? आवहते।
लघु-सिद्धान्त-कौमुदी
प्राद्वहः ७५०, १।३।८१

प्रवहति॥
न्यासः
प्राद्वहः। , १।३।८१

बाल-मनोरमा
प्राद्वहः ५७२, १।३।८१

प्रद्वहः। प्रपूर्वाद्वहेः परस्मैपदमित्यर्थः। वहेः स्वरितेत्त्वात्कर्तृगामिन्यात्मनेपदे प्राप्ते तत्राप्यनेन परस्मैपदम्।