पूर्वम्: १।३।९०
अनन्तरम्: १।३।९२
 
प्रथमावृत्तिः

सूत्रम्॥ द्युद्भ्यो लुङि॥ १।३।९१

पदच्छेदः॥ द्युद्भ्यः ५।३ लुङि ७।१ वा ९० परस्मैपदम् १।१ ७८

काशिका-वृत्तिः
ध्य्द्भ्यो लुङि १।३।९१

वा इत्येव। द्युत दीप्तौ। तत्साहचर्याद् लुठादयो ऽपि कृपू पर्यन्तास् तथा एव व्यपदिश्यन्ते। बहुवचननिर्देशादाद्यर्थो भवति। अनुदात्तेत्त्वान् नित्यम् एव आत्मनेपदे प्राप्ते द्युतादिभ्यो लुङि वा परस्मैपदं भवति। व्यद्युतत्, व्यद्योतिष्ट। अलुठत्, अलोठिष्ट। लुङि इति किम्? द्योतते।
लघु-सिद्धान्त-कौमुदी
द्युद्भ्यो लुङि ५४०, १।३।९१

द्युतादिभ्यो लुङः परस्मैपदं वा स्यात्। पुषादीत्यङ्। अद्युतत्, अद्योतिष्ट। अद्योतिष्यत॥ एवं श्विता वर्णे॥ ५॥ ञिमिदा स्नेहने॥ ६॥ ञिष्विदा स्नेहनमोचनयोः॥ ७॥ मोहनयोरित्येके। ञिक्ष्विदा चेत्येके॥ रुच दीप्तावभिप्रीतौ च॥ ८॥ घुट परिवर्तने॥ ९॥ शुभ दीप्तौ॥ १०॥ क्षुभ संचलने॥ ११॥ णभ तुभ हिंसायाम्॥ १२-१३॥ स्रंसु भ्रंसु ध्वंसु अवस्रंसने॥ १४-१५-१६॥ ध्वंसु गतौ च॥ स्रम्भु विश्वासे॥ १७॥ वृतु वर्तने॥ १८॥ वर्तते। ववृते। वर्तिता॥
न्यासः
द्युद्भ्यो लुङि। , १।३।९१

ननु च द्युतेरेकत्वाद्बहुवचननिर्देशो नोपपद्यत इत्याह-- "तत्साहचर्यात्" इत्यादि। यथैकेन छत्त्रिणा साहचर्यादन्येऽपि तत्सहचारिणश्छत्रिण इत्युच्यन्ते-- छत्रिणो गच्छन्तीति, तथेहापि द्युतिना साहचर्यात् ()इआतादयोऽपि "द्युत" इति व्यपदिश्यन्ते। कथं पुनरेकस्य व्यपदेशे सत्ययमभिप्रेतोऽर्थः सम्पद्यत इत्याह-- "बहुवचननिर्देशात्" इत्यादि। एं हि विनाऽप्यादिशब्देन तदर्थो लभ्यत इत्येषोऽर्थः सम्पद्यत इति दर्शयति। "कृपूपर्यन्ताः"इति। अनेन कृपेः परे ये पठ()न्ते ते द्युतादयो न भवन्तीत्याचष्टे। एतच्च तदनन्तरं वृत्करणाद्गणपरिसमाप्तेर्लिङ्गाद्विज्ञायते। "व्यद्युतत्" इति। पुषादित्वादङ। यद्येवम्, तत एवाङविधानात् परस्मैपदं तेभ्यो भविष्यति, किमनेन योगेन? नैतदस्ति; ज्ञापकाद्धि नित्यं लुङि परस्मैपदं विज्ञायते। किञ्च लुङोऽन्यत्रात्मनेपदं न भवतीति सम्भाव्येत। ननु चानुदात्तेत्करणसामथ्र्यादन्यत्र न भविष्यति, नैतत्; अनुदात्तेत्करणम् "अनुदात्तेतश्च हलादेः" ३।२।१४९ इति युजर्थं स्यात्। तस्मात् कत्र्तव्योऽयं योगः। अलुठत्। "रुठ लुठ प्रतीघाते" (धा।पा।७४७, ७४९)॥
बाल-मनोरमा
द्युद्भ्यो लुङि १८४, १।३।९१

द्युद्भ्यो लुङि। बहुवचनात् द्युतादिभ्य इति गम्यते। दिग्योगे पञ्चमी। "तस्मादित्त्युत्तरस्ये"ति परिभाषया परस्येति लभ्यते। "शेषात्कर्तरी"त्यतः परस्मैपदमित्यनुवर्तते। तदाह-- द्युतादिभ्य इति। परस्मैपदे अङिति। आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः। तदाह-- द्युतादिभ्य इति। परस्मैपदे अङिति। आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः। तदाह--अद्योतिष्टेति। ()इआता वर्णे इति। आत्मनेपदपक्षे रूपम्। एवमग्रेऽपि द्युतादौ लुङि रूपभेदो ज्ञेयः। ञि मिदा स्नेहने इति। ञिरित् "ञीतः क्तः" इत्येतदर्थः।

तत्त्व-बोधिनी
द्युद्भ्यो लुङिः १५७, १।३।९१

द्युद्भ्यो लुङि। बहुवचननिर्देशाच्छौण्डैरित्यत्रेव तदादिग्रहणम्। तदाह -- द्युतादिभ्य इति। द्युतादयो "घट चेष्टाया"मित्यवधिकाः। "डः सी"त्यत्रेव लुङीति सप्तम्याः षष्ठ()र्थतेत्यभिप्रेत्याह--- लुङः परस्मपैदमिति। ञिमिदा।