प्रथमावृत्तिः
सूत्रम्॥
लुटि च कॢपः॥ १।३।९३
पदच्छेदः॥
लुटि ७।१ च ० कॢपः ५।१ स्यसनोः ७।२ ९२ वा ० ९० परस्मैपदम् १।१ ७८
काशिका-वृत्तिः
लुटि च क्लुपः १।३।९३
वृतादित्वादेव स्यसनोर् विकल्पः सिद्धो लुटि विधीयते। चकारस् तर्हि स्यसनोरनुकर्षणार्थो न वक्तव्यः, एवं तर्हि इयं प्राप्तिः पूर्वां प्राप्तिं बाधेत, तस्माच् चकरः स्यसनोरनुकर्षणार्थः क्रियते। लुटि च स्यसनोश्च क्लृपेः परस्मैपदं वा भवति। कल्प्ता, कल्प्तारौ, कल्प्तारः। कल्प्स्यति। अकल्प्स्यत्। चिक्ल्̥प्सति। कल्पिता। कल्पिश्यते। अकल्पिश्यत। चिकल्पिशते। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य तृतीयः पादः।
न्यासः
लुटि च क्लृपः। , १।३।९३
"चकारस्तर्हि" इत्यादि। स्यसनोर्वृतादित्वादेव सिद्धे विकल्प इत्यभिप्रायः। "एवं तर्हि"इत्यादिना विशेषविधानं सामान्यविधानस्य बाधकं भवतीति विज्ञायते। ननु च
यदीयं प्राप्तिः कृपेः प्रा()प्त बाधते,
द्युतादिषु पाठस्य तस्यानर्थक्यं प्रसज्येत? नैतदस्ति; अङर्थत्वात्। ननु च स्यसनोरिति स्वरितत्वमिष्यते, तेन तस्य बाधा न भविष्यतीति, सत्यमेतत्; सूत्रकारस्तु चकारं वैचित्र्यार्थं चकार, न स्वरितत्वार्थम्। "कल्प्ता" इति। पूर्ववदधिकारद्वयानुवृत्तौ सत्यां "तासि च क्लृपः"
७।२।६० इतीट्प्रतिषेधः। "लुटः प्रथमस्य डारौरसः"
२।४।८५ इति डादेशः। "कृपो रो लः"
८।२।१८ इति लत्वम् "चिक्लृप्सति" इति। पूर्ववत् कित्वाद्()गुणाभावः॥
इति श्रोबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
प्रथमाध्यायस्य
तृतीयः पादः
-----------------
अथ प्रथमाध्यायस्य
चतुर्थः पादः
बाल-मनोरमा
लुटि च क्लृपः १९०, १।३।९३
लुटि च क्लृपः। चकारात् "वृद्भ्यः सस्यनो"रित्यतः स्यसनोरित्यनुकृष्यते, "शेषात्कर्तरी"त्यतः परस्मैपदमिति, "वा क्यषः" इत्यतो वेति च। तदाह-- लुटि स्यसनोरित्यादिना।