पूर्वम्: १।४।१००
अनन्तरम्: १।४।१०२
 
प्रथमावृत्तिः

सूत्रम्॥ तान्येकवचनद्विवचनबहुवचनान्येकशः॥ १।४।१०१

पदच्छेदः॥ तानि १।३ एकवचन-द्विवचन-बहुवचनानि १।३ १०२ एकशः १०२ तिङः ६।१ १०० त्रीणि १।३ १०० त्रीणि १।३ १००

समासः॥

एकवचनं च, द्विवचनं च, बहुवचनं चेति एकवचन-द्विवचन-बहुवचनानि, इतरेतरद्वन्द्वः

अर्थः॥

तानि तिङः त्रीणि, त्रिणि, एकशः=एकैकं पदं (क्रमेण) एकवचन-द्विवचन-बहुवचन-संज्ञाकि भवन्ति

उदाहरणम्॥

तिप् (एकवचनं) तस् (द्विवचनम्) झि (बहुवचनम्) एवमग्रेऽपि
काशिका-वृत्तिः
तान्येकवचनाद् विवचनबहुवचनान्येकशः १।४।१०२

लघु-सिद्धान्त-कौमुदी
तान्येकवचनद्विवचनबहुवचनान्येकशः ३८४, १।४।१०१

लब्ध प्रथमादि संज्ञानि तिङस्त्रीणि त्रीणि प्रत्येकमेकवचनादि संज्ञानि स्युः॥
बाल-मनोरमा
तान्येकवचनद्विवचनबहुवचनान्येकशः ११, १।४।१०१

अथ प्रथमादिपुरुषेषु एकैकस्मिन्पुरुषे प्रत्ययत्रिकात्मके युगपत्पर्यायेण वा एकैकप्रत्यये प्राप्ते "द्व्येकयोर्दविवचनैकवचने" "बहुषु बहुवचन"मिति व्यवस्तार्थमेकवचनादिसंज्ञामाह--तान्येक। तच्छब्देन पूर्वसूत्रोपात्तानि प्रथममध्यमोत्तमाख्यानि तिङस्त्रीणि त्रीणि परामृश्यन्ते। तदाह-- लब्धप्रथमादिसंज्ञानीति। "एकश"इत्यस्य विवरणं--प्रत्येकमिति। "सङ्ख्यैकवचनाच्च वीप्साया"मिति शसिति भावः।

तत्त्व-बोधिनी
तान्येकवचनद्विवचनबहुवचनान्येकशः १०, १।४।१०१

"तानी"त्यस्य व्याख्यानं-- लब्धेत्यादि। अन्यथैकसंज्ञाधिकारात्प्रथमादिसंज्ञानामेकवचनादिसंज्ञानां च पर्यायः स्यात्। इष्टापत्तौ तु अत्तेर्लोटो "मेर्नि" रिति कृते एकत्वविवक्षायामुत्तमसंज्ञाऽभावात् "आडुत्तमस्ये"त्यस्याऽप्रवृत्त्या अन्नीत्यादिप्रयोगोऽपि साधुः स्यादिति भावः। प्रत्येकमिति। यत्तु प्राचा " एकैकश" इत्युक्तं,तदयुक्तम्। शसैव वीप्साया उक्तत्वेन द्विर्वचनाऽयोगात्, "येन नाप्राप्तिन्यायेन द्विर्वचनापवादः श" सिति सिद्धान्तात्। तथा "सुपःर" इति सूत्रेऽप्येककैकश इति प्राचोक्तमयुक्तमेव। एतच्च मनोरमाग्रन्थानुरोधेनोक्तम्॥ अन्ये तु एकैकमेवैकैकशः, स्वार्थे शस्, न त्वत्र वीप्सायाम्। न च स्वार्थे यः शस् स आकरग्रन्थान्नावगम्यत इति वाच्यम्, "एकां कपिलामेकैकशः सहरुआकृत्वो दत्त्वे"ति भाष्यात्, शसन्तस्य प्रत्येकमित्यर्थकत्वेन कैयटेन व्याख्यानाच्च स्वार्थिकस्यापि शसोऽवगम्यमानत्वात्। ततश्चैकैकश इति प्राचोक्तमयुक्तमिति यदुक्तं तदेवाऽयुक्तमित्याहुः।