पूर्वम्: १।४।१६
अनन्तरम्: १।४।१८
 
प्रथमावृत्तिः

सूत्रम्॥ स्वादिष्वसर्वनामस्थाने॥ १।४।१७

पदच्छेदः॥ स्वादिषु ७।३ १८ असर्वनामस्थाने ७।१ १८ पदम् १।१ १४

समासः॥

सु आदिः येषां ते स्वादयः, तेषु॰ बहुव्रीहिः। असर्वनामस्थाने इत्यत्र नञ्तत्पुरुषः॥

अर्थः॥

सर्वनामस्थान-भिन्नेषु स्वादिषु (प्रत्ययेषु) परतः पूर्वं पदसंज्ञं भवति।

उदाहरणम्॥

राजभ्याम्, राजभिः, राजत्वम्, राजता, राजतरः, राजतमः। वाग्भिः।
काशिका-वृत्तिः
स्वादिष्वसर्वनमस्थाने १।४।१७

लघु-सिद्धान्त-कौमुदी
स्वादिष्वसर्वनामस्थाने १६४, १।४।१७

कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्॥
न्यासः
स्वादिष्वसर्वनामस्थाने। , १।४।१७

अत्र यदि सप्तमीबहुवचनादारभ्य आ कपः प्रत्यया गृह्रेरन्, तदा "असर्वनामस्थाने" इति प्रतिषेदं न कुर्यात्; प्राप्त्यभावात्। कृतश्चासावतोऽवसीयते प्रथमैकवचनादारभ्या कपः प्रत्ययाः स्वादयो गृह्रन्त इत्यत आह-- "स्वादिष्विति सुशब्दादेकवचनादारभ्य" इति। "राजत्वम्, राजता" इति। "तस्य भावस्त्वतलौ" ५।१।११८। "राजतरः" इति। "द्विवचनविभज्योपपदे तरबीयसुनौ" ५।३।५७ इति तरप्। "राजतमः" इति। "अतिशायने" ५।३।५५ इत्यादिना तमप्। "राजानौ,राजानः" इति। अत्र पदसंज्ञाया अभावान्नलोपो न भवति। यद्येवम्, राजत्यत्रापि न स्यात्, प्रत्ययलक्षणेनासर्वनामस्थान इति पदसंज्ञाया अभावात्,नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति-- भवति सौ परतः पदसंज्ञेति, यदयम् "नङिसम्बुद्धयोः" ८।२।८ इति प्रतिषेधं शास्ति। अत्र सम्बुद्धिशब्दोऽनर्थकः स्यात्, पदत्वाभावादेव नलोपस्याप्राप्तेः। अथ वा -- "असर्वनामस्थाने" इति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः,तेन सर्वनामस्थानादन्यत्र पदसंज्ञा विधीयते; न तु सर्वनामस्थानं प्रतिषिध्यते। तेन तत्र पूर्वसूत्रेण सौ परे पदसंज्ञा भविष्यति। अथ वा- प्रसज्यप्रतिषेधेऽपि न दोषः, यस्मात् "अनन्तरस्य विधिर्वा प्रतिषेधो वा"(व्या।प।१२) इत्यनन्तरा या प्राप्तिः सा प्रतिषिध्यते; न व्यवहिता। तेन "सुप्तिङन्तं पदम्" १।४।१४ इत्यकारलोपः॥
बाल-मनोरमा
स्वादिष्वसर्वनामस्थाने २२८, १।४।१७

तदेतदाह--स्वादिपञ्चेति। स्वादिष्वस। "असर्वनामस्थाने"इति बहुत्वेऽप्येकवचनमार्षम्। कप्प्रत्ययावधिष्विति। पञ्चमाध्यायान्ते विधीयमानकप्प्रत्ययोत्तरावधिकेष्वित्यर्थः। तत्र च व्याख्यानमेव शरणम्। एवं च दत्-असित्यत्र दत्शब्दस्य सुबन्तत्वाऽभावेन पदत्वाऽभावेऽप्यनेन सूत्रेण पदत्वात् "झलां जशोऽन्ते" इति तकारस्य जश्त्वं स्यादित्याक्षेपः सूचितः।

तत्त्व-बोधिनी
स्वादिष्वसर्वनामस्थाने १९३, १।४।१७

स्वादिष्वसर्वनाम। "सु"रत्र सप्तमीबहुवचनमिति न शङ्क्यम् , किंतु "असर्वनामस्थाने" इति पर्युदासात्प्रथमैकवचनमेव। "सुपी"त्येव सिद्धे आदिग्रहणमधिकपरिग्रहार्थमित्याशयेनाह -कप्प्रत्ययावधिष्विति। नन्वेवं-राजे"त्यत्र नलोपो न स्यात्प्रत्ययलक्षणेन सर्वनामस्थानपरतया पदत्वाऽभावात्। नैष दोषः। सौ परतः "स्वादिषु" इत्यनेन पदत्वाऽसंभवेऽपि सुब्विशिष्टस्य "सुप्तिङ्न्त"मितित पदसंज्ञायां हल्ङ्यादिना सुलोपे एकदेशविकृतन्यायेन नकारान्तस्य पदत्वात्। यदि तु "स्वादिषु" इतियोगेन स्वादिषु परेषु पूर्वं पदं भवतीति पूर्वस्य पदसंज्ञां विधाय "यचि भ"मित्यत्र "यची"ति च्छित्त्वायजादौ सर्वनामस्थाने परतः पूर्वं पदं नेति निषिध्यते, तदा औजसादिषुपदसंज्ञाऽभावेऽपि सौ परतः पदत्वसंभवात् "राजे"त्यादौ नलोपे कार्ये न काप्यनुपपत्तिः।