पूर्वम्: १।४।१९
अनन्तरम्: १।४।२१
 
प्रथमावृत्तिः

सूत्रम्॥ अयस्मयादीनिच्छन्दसि॥ १।४।२०

पदच्छेदः॥ अयस्मादीनि १।३ छन्दसि ७।१ भम् १।१ १८

काशिका-वृत्तिः
अयस्मयाऽदीनि छन्दसि १।४।२०

अयस्मयाऽदीनि शब्दरूपाणि छन्दसि विशये साधूनि भवन्ति। भपदसंज्ञाधिकारे विधनात् तेन सुखेन सधुत्वम् अयस्मयाऽदीनां विधीयते। अयस्मयं वर्म। अयस्मयानि पात्राणि। क्वचिदुभयम् अपि भवति। स सुष्टुभा स ऋक्वता गणेन। पदत्वात् कुत्वं, भत्वाज् जश्त्वं न भवति। छन्दसि इति किम्? अयोमयं वर्म। आकृतिगणो ऽयम्।
न्यासः
अयस्मयादीनि च्छन्दसि। , १।४।२०

यद्यत्र भसंज्ञा विधीयेत तदा पदसंज्ञा न स्यात्, अथ यदि पदसंज्ञा विधीयेत तदाऽत्र भसंज्ञा न स्यात्, तदा भपदसंज्ञयोः समावेशो न स्यात्; एकसंज्ञाधिकारात्। साधुत्वविधाने त्वेष दोषो न भवति, तद्धि केषाञ्चिद्भसंज्ञा विधीयते पदसंज्ञकानाम्, केषाञ्चिदुभयसंज्ञाकानाम्; तस्मात् साधुत्वमेव विधातुं युक्तमित्यत आह-- "अयस्मयादीनि" इत्यादि। कथं पुनरेषां साधुत्वं विधीयत इत्याह-- "भपदसंज्ञाधिकारे" इत्यादि। द्वारम्, मुखम्, उपाय तत्र भाषाग्रहणमस्ति, तथाप्ययस्मयशब्दस्यास्मादेव साधुत्वविधानाच्छन्दस्यपि मयड् भवतीति भत्वाद्रुत्वं न भवति। "सऋक्वता" इति। ऋचोऽस्य सन्तीति मतुप्। पदत्वात् "चोः कुः" ८।३।३०) इति कुत्वम्। भत्वात् "झलां जशोऽन्ते" ८।२।३९ इति जश्त्वं न भवति। "आकृतिगणोऽयम्" इति। आदिशब्दस्य प्रकारवाचित्वात्॥