पूर्वम्: १।४।७
अनन्तरम्: १।४।९
 
प्रथमावृत्तिः

सूत्रम्॥ पतिः समास एव॥ १।४।८

पदच्छेदः॥ पतिः १।१ समासे ७।१ एव घि १।१

काशिका-वृत्तिः
पतिः समास एव १।४।८

पतिशब्दस्य घिसंज्ञायां सिद्धायाम् अयं नियमः क्रियते, पतिशब्दः समासे एव घिसंज्ञओ भवति। प्रजापतिना। प्रजापतये। समासे इति किम्? पत्या। पत्ये। एवकार इश्टतो ऽवधारणार्थः। दृढमुष्टिना। दृढमुष्टये।
लघु-सिद्धान्त-कौमुदी
पतिः समास एव १८५, १।४।८

घिसंज्ञः। पत्युः २। पत्यौ। शेषं हरिवत्। समासे तु भूपतये। कतिशब्दो नित्यं बहुवचनान्तः॥
न्यासः
पतिः समसा एव। , १।४।८

"पतिशब्दस्य सिद्धायां घिसंज्ञायाम्" इति। अनन्तरसूत्रेणैवेति शेषः। "प्रजापतिना" इति षष्ठीसमासः। यदि सिद्धायां घिसंज्ञायामिदमारभ्यते तदा "सिद्धे सत्यारम्भो नियमार्थः" (दु।सि।का।सू।वृ।५९) इति विनाप्येवकारेण लभ्यत एव नियमः, तत् किमर्थमेवकारकरणमित्यत आह-- "एवकारकरणम्" इत्यादि। विना ह्रेवकारेण विपरीतमप्याशङ्क्येत-- पतिरेव समसा इति। ततश्च दृढमुष्टिनेत्यादौ न स्यात्, एवकारे तु सति भवतीति। तथा ह्रतर् समासशब्दादनन्तरं प्रयुज्यमानं यत एवकारकरणं ततोऽन्यत्रावधारणमिति पतिशब्द एव नियम्यते, न समासः॥
बाल-मनोरमा
पतिः समास एव २५५, १।४।८

अथ पतिशब्दे विशेषं दर्शयति--पतिः समास एव। "शेषो घ्यसखी"त्यतो "घी"त्यनुवर्तते। तदाह पतिशब्द इति। पत्या। पत्ये इति। घित्वाऽभावान्नात्वगुणाऽभावे यणि रूपम्। पत्युरिति। "ख्यत्या"दित्युत्त्वम्। पत्याविति। घित्वाऽभावात् "अच्च घेः" इत्यस्य प्रवृत्तेरभावे "औत्" इति ङेरौत्त्वे यणि रूपम्। आरम्भसामथ्र्यादेव नियमार्थत्वे सिद्धे एवकारस्तु "पतिरेव समासे घि"रिति विपरीतनियमव्यावृत्त्यर्थः। तेन सुहरिणेत्यादि सिध्यति। समासे तु भूपतये इति। "भूपतिने"त्याद्युपलक्षणम्। "सीतायाः पतये नमः" इत्यादि त्वार्षम्।

अथ कतिशब्दे विशेषं दर्शयति-कतिशब्दे नित्यं बहुवचनान्त इति। "किमः सङ्ख्यापरिमाणे" इत्यनेन किंशब्दाद्बहुत्वसङ्ख्यावच्छिन्नसङ्ख्येयविषयप्रश्न एव डतिरिति भाष्ये स्पष्टत्वादिति भावः।

तत्त्व-बोधिनी
पतिः समास एव २१६, १।४।८

पतिः समास एव। एवकार इष्टतोऽवधारणार्थः। अन्यथा हि "समासे पतिरेवे"ति नियमः संभाव्येत्, ततश्च "महाकविने"त्यादिप्रयोगो न सिध्यते। "अनल्विधौ", "धात्वादे"रित्यादिज्ञापकानुसरणे तु प्रतिपत्तिगौरवं स्यादिति भावः। पत्येत्यादि। नन्वेवं "शेषो ध्यसखिपती"इत्येवोच्यतां, किमनेन "पतिः समास एवे"ति सूत्रेणेति चेन्न; समुदायस्य पतिरूपत्वाऽभावने बहुच्पूर्वकपतिशब्दस्यापि घिसंज्ञा स्यात्। ततश्च "सुसखिने"त्यादिवद्बहुपतिनेत्यादिवब्दहुपतिनेत्यादि प्रसज्येत, इष्यते तु "वहुपत्ये"त्यादि। नापि "सखिपती समास एवे" त्येवसूत्र्यतामिति शङ्क्यम्, "बहुपत्ये"त्यादिवद्बहुसख्येत्याद्यापत्तेः, इष्यते तु "बहुसखिने"त्यादि। अथ कथं "सीतायाःपतये नमः"इति, "नष्टे मृते प्रव्रजिते क्लीबे इः" इत्यौणादिक इप्रत्यये "णेरनिटी"ति णिलोपे च निष्पन्नोऽयं पतिशब्दः "पतिः समास एव" इत्यत्र न गृह्रते, लाक्षणिकत्वादिति। एतेन "कृष्णस्य सखिर्जुनः"इति भारतम्, "सखिना वानरेन्द्रेणे"ति रामायणं च व्याख्यातम्। कति शब्द इति। का सङ्ख्या येषां ते कति। "किमः सङ्ख्यापरिमाणे डति च" इति डतौ डित्त्वाट्टिलोपः।