पूर्वम्: १।४।८०
अनन्तरम्: १।४।८२
 
प्रथमावृत्तिः

सूत्रम्॥ व्यवहिताश्च॥ १।४।८१

पदच्छेदः॥ व्यवहिताः १।३ छन्दसि ७।१ ८० ते १।३ ७९ धातोः ५।१ ७९

काशिका-वृत्तिः
व्यवहिताश् च १।४।८२

व्यवहिताश्च गत्युपसर्गसंज्ञकाः छन्दसि दृश्यन्ते आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः। आ याहि।
न्यासः
व्यवहिताश्च। , १।४।८१

छन्दसि व्यवहितानां प्रयोगवचनात् भाषयां व्यवहितानां प्रयोगो न भवतीत्युक्तं भवति। यद्येवम्, गतिव्यवधानेऽपि प्राक्प्रयोगो न प्राप्नोति-- समाहरतीत्यादौ नैष दोषः; न हि तुल्यजातीयको व्यवधायको भवति। गत्युपसर्गजातेराश्रयणान्नास्ति व्यवधानम्। "आ मन्द्रैः" इत्यादि। अत्राङो मन्द्रैरित्यादिभिः पदैव्र्यधानेऽपि यातेर्धातोः प्राक्प्रयोगः। "आयाहि" इति। एतेनाङो याहीत्यनेन सम्बन्धं दर्शयति॥