पूर्वम्: १।४।८३
अनन्तरम्: १।४।८५
 
प्रथमावृत्तिः

सूत्रम्॥ तृतीयाऽर्थे॥ १।४।८४

पदच्छेदः॥ तृतीयार्थे ७।१ अनुः १।१ ८३ कर्मप्रवचनीयाः १।३ ८२ निपाताः १।३ ४६

काशिका-वृत्तिः
तृतीयाऽर्थे १।४।८५

अनुशब्दस् तृतीयार्थे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति। नदीम् अन्ववसिता सेना। पर्वतम् अन्ववसिता सेना। पर्वतेन सम्बद्धा इत्यर्थः।
न्यासः
तृतीयार्थे , १।४।८४

"नदीमन्ववसिता" इति। सहार्थोऽत्र तृतीयार्थः। "सहयुक्तेऽप्रधाने" २।३।१९ इति सहार्थयोगे तृतीयाविधानात्। "अन्ववसिता" इति। "षिञ् बन्धने" (धा।पा।१४७७) इत्यस्य निष्ठायां रूपम्॥
बाल-मनोरमा
तृतीयार्थे ५४१, १।४।८४

तृतीयार्थे। अनुरित्यनुवर्तते। "कर्मप्रवचनीयाः" इत्यधिकृतम्। अस्मिन्द्योत्ये इति। "सहयुक्तेऽप्रधाने" इति तृतीयार्थे साहित्ये द्योत्ये इत्यर्थः। अत्र "तृतीयार्थे" इत्यनेन कर्तृकरणे न गृह्रेते, "रामेण शरेणानुहतो वाली"त्यत्र "उपपदविभक्तेः कारकविभक्तिर्बलीयसी" इति न्यायेन तृतीयाया एव प्रवृत्त्या अस्याः संज्ञायाः फलाऽभावात्। नापि "येनाङ्गविकारः" इति तृतीयार्थोऽत्र विवक्षितः, "अनन्तरस्ये"ति न्यायेन "कर्मप्रवचनीययुक्ते द्वितीया" इत्यस्य "सहयुक्तेऽप्रधाने" इत्यस्यैव बाधकत्वात्। तदाह-नद्या सह संबद्धेति। साहित्यं द्वितीयार्थः, अनुस्तद्ध्योतक इति भावः। नन्ववसितशब्दस्य अवपूर्वात् "षो अन्तकर्मणि" इति धातोरुत्पन्नत्वात्कथमुक्तार्थलाभ इत्यत आह-षिञ्बन्धने क्त इति। उपसर्गबलेन संबन्धवृत्तेरस्मात्क्तप्रत्यय इत्यर्थः। अत्र यदवश्यं पुनः पुनर्लक्ष्यस्य ज्ञापकं तदेव न लक्षणम्, किंतु सकृज्ज्ञापकमपि। यथा यं कमण्डलुना भवानद्राक्षीत्, स छात्र इति। सकृदेव हि कमण्डलुपाणिर्दृष्टः, तस्य कमण्डलुर्लक्षणमिति "अनुर्लक्षणे" इत्यत्र भाष्ये स्पष्ठम्। तेन व्याप्यात्मकलिङ्गमेवात्र लक्षममिति न भ्रमितव्यम्।