प्रथमावृत्तिः
सूत्रम्॥
उपोऽधिके च॥ १।४।८६
पदच्छेदः॥
उपः १।१ अधिके ७।१ च ० हीने ७।१ ८५ कर्मप्रवचनीयाः १।३ ८२ निपाताः १।३ ४६
काशिका-वृत्तिः
उपो ऽधिके च १।४।८७
उपशब्दः अधिके हीने च द्योत्ये कर्मप्रवचनीयसंज्ञो भवति। उप खार्यं द्रोणः। उप निष्के कार्षापणम्। हीने उप शाकटायनं वैयाकरणाः।
न्यासः
उपोऽधिके च। , १।४।८६
अधिकध्यारूढमुच्यते। न चानधिकेन विनाधिकं सम्भवति। तेनाधिके सम्बन्धेऽध्यारूढक्रियाजनिते संज्ञेयं विज्ञायते। चकारद्धीने च। "उपखार्यां द्रोणः" इति। खार्या द्रोणोऽधिक इत्यर्थः। "यस्मादधिकम्"
२।३।९ इत्यादिना सप्तमी। तयैव सम्बन्धस्याभिहितत्वात् द्रोणशब्दात् "कर्मप्रवचनीययुक्ते द्वितीया"
२।३।८ इति द्वितीया न भवति॥
बाल-मनोरमा
उपोऽधिके च ५४३, १।४।८६
उपोऽधिके च। चकारात् "हीने" इति समुच्चीयते। तदाह-अधिके हीने चेति। आधिक्ये निकर्षे चेत्यर्थः। प्राक्संज्ञमिति। प्रागुक्तकर्मप्रवचनीयसंज्ञकमित्यर्थः। अधिके संज्ञाविधानं न द्वितीयार्थमित्याह-अधिके सप्तमी वक्ष्यत इति "यस्मादधिक"मित्यनेन कर्मप्रवचनीयसंज्ञाकार्यं सप्तमी वक्ष्यते इत्यर्थः। हीने इति। "उदाहरणं वक्ष्यते" इति शेषः। उप हरिं सुरा इति। हरेर्हीना इत्यर्थः।
तत्त्व-बोधिनी
उपोऽधिके च ४८७, १।४।८६
उपहरिमिति। पूर्ववदुत्कष्टादेव द्वितीया।