पूर्वम्: १।४।९०
अनन्तरम्: १।४।९२
 
प्रथमावृत्तिः

सूत्रम्॥ प्रतिः प्रतिनिधिप्रतिदानयोः॥ १।४।९१

पदच्छेदः॥ प्रतिः १।१ प्रतिनिधिप्रतिदानयोः ७।२ कर्मप्रवचनीयाः १।३ ८२ निपाताः १।३ ४६

काशिका-वृत्तिः
प्रतिः प्रतिनिधिप्रतिदानयोः १।४।९२

मुख्यसदृशः प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। प्रतिनिधिविषये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसंज्ञो भवति। अभिमन्युरर्जुनतः प्रति। माषानस्मै तिलेभ्यः प्रति यच्छति।
लघु-सिद्धान्त-कौमुदी
वृद्भ्यः स्यसनोः ५४१, १।४।९१

वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च॥
न्यासः
प्रतिः प्रतिनिधिप्रतिदानयोः , १।४।९१

"अभिमन्युरर्जुनतः प्रति" इति। अर्जनो मुख्यः। तत्सदृशोऽभिमन्युः। सोऽर्जुमनुकरोतीत्यत्रानुकरणक्रियाजनितः सम्बन्धविशेषोऽनुकार्यानुकरणभावः प्रतिना द्योत्यते। "प्रतिनिधिप्रतिदाने च यस्मात्" २।३।११ इति पञ्चमी। "प्रतियोगे पञ्चम्यास्तसिः" ५।४।४४। "माषानस्मै तिलेभ्यः" इति। तिलानां पूर्वदत्तानां माणाणां प्रतिदानमिह निर्यातनम्। तिलान् गृहीत्वा माषान् ददातीत्यर्थः। दानग्रहणक्रियाजनितोऽत्र सम्बन्ध उत्तमर्णाधमर्णभावलक्षणः॥
बाल-मनोरमा
प्रतिः प्रतिनिधिप्रतिदानयोः ५९१, १।४।९१

प्रतिः प्रतिनिधि। सदृशः प्रतिनिधिः, दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। उक्तसंज्ञ इति। कर्मप्रवचनीयसंज्ञक इत्यर्थः।

बाल-मनोरमा
प्रतिः प्रतिनिधिप्रतिदानयोः ५९२, १।४।९१

प्रतिनिधि। अत्रेति सूत्रोक्तविषये इत्यर्थः। सूत्रे यस्मादिति षष्ठ()र्थे पञ्चमी, अस्मादेव निर्देशात्। "कृष्णस्य प्रतिनिधिः" इति तु "ज्ञापकसिद्धं न सर्वत्रे"ति समाधेयम्। तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने, तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमित्यर्थः फलति। प्रद्युम्नः कृष्णात्प्रतीति। युद्धादौ प्रद्युम्नः कृष्णनिरूपितसादृश्यवानित्यर्थः। पञ्चम्यर्थः सादृश्यम्। प्रतिस्तु तद्द्योतकः। तिलेभ्य इति। ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याद्यात्मना वा प्रत्यर्पयतीत्यर्थः। कर्मणि पञ्चमी।