पूर्वम्: १।४।९१
अनन्तरम्: १।४।९३
 
प्रथमावृत्तिः

सूत्रम्॥ अधिपरी अनर्थकौ॥ १।४।९२

पदच्छेदः॥ अधिपरी १।२ अनर्थकौ १।२ कर्मप्रवचनीयाः १।३ ८२ निपाताः १।३ ४६

काशिका-वृत्तिः
अधिपरी अनर्थकौ १।४।९३

अधिपरी शब्दौ अनर्थकौ अनर्थान्तरवाचिनौ कर्मप्रवचनीयसंज्ञौ भवतः। कुतो ऽध्यागच्छति। कुतः पर्यागच्छति। गत्युपसर्गसंज्ञावाधनार्था कर्मप्रवचनीयसंज्ञा विधीयते।
न्यासः
अधिपरी अनर्थकौ , १।४।९२

"अनर्थान्तरवाचिनौ" इति। #एतेनानर्थान्तरवाचित्वादनर्थकादवित्युक्तम्, न त्वर्थाभावादिति दर्शयति। यदि ह्रविद्यमानार्थत्वादनर्थकौ स्याताम्, निरर्थकमिदं सूत्रं स्यात्। तथा हि-- कर्मप्रवचनीयसंज्ञा गत्युपसर्गसंज्ञाबाधनार्थाऽनेन विधीयते। न चानर्थकयोरधिपर्योर्गत्युपसर्गसंज्ञाप्राप्तिरस्ति। यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा विधानात्। अनर्थकयोश्च क्रियायोगासम्भवात्। "कुतोऽध्यागसच्छति" इत्यादि। कुत इत्यापादाने पञ्चमी। कर्मप्रवचीयेति २।३।८ द्वितीया न भवति; "उपपदविभक्तेः कारकविभक्तिर्बलीयसी"(चां।प।६९) इति वचनात्। सूत्रारम्भस्य तु प्रयोजनमाख्यातमेव। कुत इति, किंशब्दात् "पञ्चम्यास्तसिल्" ५।३।७ इति तसिल्, "कु तिहोः" ७।२।१०४ इति कुभावः। कर्मप्रवचनीयसंज्ञया गत्युपसर्गसंज्ञोर्वाधितत्वात् "गतिर्गतौ" ८।१।७० इति निघातो न भवति। ननु चागच्छतीत्युक्त आगमनं विशिष्टं प्रतीयते, अध्यागच्छति, पर्यागच्छतीति-- अधिपरियोगे त्वागमनस्योपरिभावः सर्वतोभावश्चावगम्यत इत्यपरो विशेषः, तत्कथमनर्थान्तरवाचित्वमनयोः? नैतदस्ति; यदा तयोरप्यर्थयोः प्रकरणादेः कुतश्चिदवगतयोरधिपरी प्रयुज्येते तदा तयोरनर्थान्तरवाचित्वं वेदितव्यम्। कथं पुनरवगतार्थयोः? नैतदस्ति; यदा तयोरप्यर्थयोः प्रयोगः, "उक्तार्थानामप्रयोगः" (व्या।प।६०) इति वचनात्? सत्यम्, अवगतार्थस्यापि प्रयोगो दृश्यते, यथा-- "ब्राआहृणौ द्वौ" इति। लोकस्य प्रयोगे गुरुलाघवं प्रत्यनादरात्॥
बाल-मनोरमा
अधिपरी अनर्थकौ ५४६, १।४।९२

अधिपरी। उक्तसंज्ञो स्त इति। कर्मप्रवचनीयसंज्ञकावित्यर्थः। कुतोऽध्यागच्छति, कुतः पर्यागच्छतीति। अत्र "कुत" इत्यपादानपञ्चम्यास्तसिल्। कस्मात् प्रदेशादागच्छतीत्यर्थः। नन्वत्र अधिपर्योरनर्थकतया सम्बन्धस्य तद्द्योत्यत्वाऽभावेन द्योत्यसम्बन्धप्रतियोगित्वरूपकर्मप्रवचनीययुक्तत्वस्याऽभावान्न द्वितीयाप्रसक्तिरित्यत आह--गतिसंज्ञाबाधादिति। अत्र "गतिर्गतौ" इत्यत्र पदादित्यधिकारात् पदात्परत्वसम्पत्तये "कुत" इत्युपात्तमिति भावः। अत्र प्रभवति पराभवति अनुभवतीत्यादौ प्रादेरिवाऽर्थान्तरद्योतकत्वाऽभावेऽपि धात्वर्थद्योतकत्वमस्त्येव। अर्थान्तरद्योतकत्वाऽभावेनाऽनर्थकत्वव्यवहारः। उक्तं च भाष्ये--"अनर्थान्तरवाचिनौ धातुनोक्तक्रियामेवाहतुः" इति। एवंच क्रियायोगाऽभावाद्गतित्वस्यापि न प्रसक्तिरिति शङ्का निरस्ता।

तत्त्व-बोधिनी
अधिपरी अनर्थकौ ४९०, १।४।९२

कृतोऽध्यागच्छतीति। इह--प्रयती, पराभवति, वृक्षं प्रति विद्योतते इत्यत्र प्रादेर्विशेषद्योतकत्ववदधिपर्योरिह विशेषद्योतकत्वाऽभावादानार्थक्यं, धात्वर्थमात्रद्योतकत्वेन त्वर्थताऽस्त्येवेति बोध्यम्।"गतिर्गतौ"इत्यत्र पदादित्यधिक्रियत इति पदात्परत्वसंपत्तये "कुत"इत्युक्तम्।