पूर्वम्: २।३।९
अनन्तरम्: २।३।११
 
प्रथमावृत्तिः

सूत्रम्॥ पञ्चमी अपाङ्परिभिः॥ २।३।१०

पदच्छेदः॥ पञ्चमी १।१ ११ अपाङ्परिभिः ३।३ कर्मप्रवचनीययुक्ते ७।१

काशिका-वृत्तिः
पञ्चम्यपाऽङ्परिभिः २।३।१०

अप आङ् परि इत्येतैः कर्मप्रवचनीयैर् योगे पज्चमी विभक्तिर् भवति। अप त्रिगर्तेभ्यो वृष्टो देवः। आ पाटलिपुत्राद् वृष्टो देवः। परि त्रिगर्तेभ्यो वृष्तो देवः। अपेन साहचर्यात् परेर्वर्जनार्थस्य ग्रहणम्, तेन इह न भवति, वृक्षं परि विद्योतते विद्युत्।
न्यासः
पञ्चम्यापाङपिरभिः। , २।३।१०

अपपरिशब्दयोः "अपपरी वर्जने" १।४।८७ इत्यनेन कर्मप्रवचनीयसंज्ञा विहिता, आङश्च "आङमर्यादावचने" १।४।८८ इत्यनेन। "वृक्षं परि विद्योतते" इति। परिः "लक्षणेत्यम्भूतख्यान"१।४।८९ इत्यादिना॥
बाल-मनोरमा
पञ्चम्यपाङ्परिभिः ५९०, २।३।१०

पञ्चम्यपाङ्परिभिः। एतैरिति। अप आङ् परि-इत्येतैरित्यर्थः। कर्मप्रवचनीयैरिति। "कर्मप्रवचनीययुक्ते" इत्यतस्तदनुवृत्तेरिति भावः। अप हरेः परि हरेः संसार इति। अपहरेः संसारः, परिहरेः संसार इत्यन्वयः। हरिं वर्जयित्वा जनिमृतिचक्रात्मकं संसरणमित्यर्थः। ननु "वृक्षं प्रति विद्योतते", "भक्तो हरिं प्रति" इत्यादौ "लक्षणेत्थंभूते"ति कर्मप्रवचनीयत्वात् "कर्मप्रवचनीययुक्ते द्वितीया" इति द्वितीयां परत्वादपवादत्वाच्च बाधित्वा "पञ्चम्यपाङ्परिभि"रिति पञ्चमी स्यादित्यत आह--परिरत्रेति "पञ्चम्यपाङ्परिभिः" इत्यत्र वर्जनार्थकेनाऽपेन साहचर्यात् परिरपि वर्जनार्थकं एव गृह्रत इत्यर्थः। आ मुक्तेरिति। मुक्तेः प्रागिति यावत्। आ सकलादिति। ब्राहृ सकलमभिव्याप्य वर्तत इत्यर्थः।

तत्त्व-बोधिनी
पञ्चम्यापाङ्परिभिः ५२९, २।३।१०

परिहरेरिति। हरिं वर्जयित्वेत्यर्थः। "परेर्वर्जने वा वचनम्" इति वार्तिकात्पक्षे द्विर्वचनाऽभावः। परिरत्रेति। अत्र=पञ्चमीविधौ। वर्जनार्थेनाऽपेन साहचर्यादिति भावः। आ मुक्तेरिति। मुकिं()त मर्यादीकृत्येत्यर्थः। आ सकलादिति। सकलमभिव्याप्येत्यर्थः।