पूर्वम्: २।३।१७
अनन्तरम्: २।३।१९
 
प्रथमावृत्तिः

सूत्रम्॥ कर्तृकरणयोस्तृतीया॥ २।३।१८

पदच्छेदः॥ कर्तृकरणयोः ७।२ तृतीया १।१ २३ अनभिहिते ७।१

काशिका-वृत्तिः
कर्तृकरणयोस् तृतीया २।३।१८

कर्तरि करणे च कारके तृतीया विभक्तिर् भवति। देवदत्तेन कृतम्। यज्ञदत्तेन भुक्तम्। करणे दात्रेण लुनाति। परशुना छिनत्ति। तृतीयाविधाने प्रकृत्यादीनाम् उपसङ्ख्यानम्। प्रकृत्या ऽभिरूपः। प्रकृत्या दर्शनीयः। प्रायेण याज्ञिकः। प्रायेण वैयाकरणः। गार्ग्यो ऽस्मि गोत्रेण। समेन धावति। विषमेण धावति। द्विद्रोणेन धान्यं क्रीणाति। पञ्चकेन पशून् क्रीणाति। साहस्रेण अश्वान् क्रीणाति।
न्यासः
कर्त्तृकरणयोस्तृतीया। , २।३।१८

"तृतीयाविधाने {प्रकृतयादीनाम्ितिवृत्तौ पाठः} प्रकृत्यादिभ्य उपसंख्यानम्" इति। किं पुनः कारणम्? न सिद्ध्यति, कर्त्तृकरणयोरभावात्। तयोस्त्वभावः प्रकृत्याऽभिरूप इत्यादौ क्रियाया अविद्यमानत्वादित्यभिप्रायः। प्रातिपदिकेनात्र सम्बन्दमात्रं प्रतीयते, न तु काचन क्रिया। न च तया विना कर्त्तृकरणे सम्भवतः; तयोः क्रियापेक्षत्वात्। ततश्च सम्बन्धलक्षणा षष्ठी स्यात्-- प्रकृतेरभिरूपः, प्रायस्य याज्ञिकः, गोत्रस्य गाग्र्य इति। "समेन धावति, विषमेण धावति" इति। यद्यप्यत्र क्रियाऽप्यस्ति, तथाऽपि नात्र समविषमशब्दौ करणत्वेन विवक्षितौ, किं तर्हि? कर्मत्वेन, ततश्च द्वितीया स्यात्। "द्विद्रोणेन धान्यं क्रीणाति" इत्यादावपि द्विद्रोणात्येषोऽर्थो विवक्षितः। "पञ्चकेन पशून् क्रीणाति" इति। पञ्च परिमाणमस्य पशुसंघस्य पञ्चकः सङ्घः। पञ्चकं सङ्घं कृत्वा पशून् क्रीणातीत्यर्थः। एवं "साहरुओणा()आआन् क्रीणाति"इति साहरुआं सङ्घं कृत्वा। सहरुआं सहरुआं कृत्वेत्यर्थः। उपसंख्यानशब्दस्य प्रतिपादनार्थः। तत्रेदं प्रतिपादनम्-- प्रतीयमानाऽपि क्रिया कारकाणां निमित्तं भवत्येव। इह च प्रकृत्याऽभिरूप इत्यत्रापि करोत्यर्थो भवत्यर्थो वा गम्यते। गाग्र्योऽस्मि गोत्रेणेत्यत्रापि ज्ञाने भवने वा गम्यमाने गोत्रस्य करणत्वं प्रतीयते। समेन धावतीत्यदौ समेन विषमेण वा पथा करणेनेति गम्यते। द्विद्रोणेनेत्यत्रापि तृतीया न कर्मत्वं बोधयति। किं तर्हि? करणत्वम्। अत्र हि द्विद्रोणाद्यर्थं हिरण्यादिकं मूल्यभूतं तादथ्र्याद्द्विद्रोणादिशब्देनोक्तम्। तस्यापि करणत्वमस्त्येवेति करण इत्येवं सर्वत्र तृतीया सिद्ध्यति॥
बाल-मनोरमा
कर्तृकरणयोस्तृतीया ५५३, २।३।१८

कर्तृकरणयोस्तृतीया। "अनभिहिते" इत्यदिकारादाह-अनभिहित इति। रामेणेति। रामकर्तृकबाणकरणकहिंसाक्रियाविषयो वालीत्यर्थः।

प्रकृत्यादिभ्य उपसंख्यानमिति। "तृतीयाया" इति शेषः। उपपदविभक्तिरियम्। यथायोगं सर्वविभक्त्यपवादः। प्रकृत्या चारुरिति। संबन्धस्तृतीयार्थः। प्रकृतिः=स्वभावः, तत्संबन्धिचारुत्ववानित्यर्थः। यदा तु स्वभावेनैवाऽयमभिरूपो न त्वलङ्कारादिनेति करणान्तरव्युदासाय प्रकृतेः करणत्वं विवक्ष्यते तदा "कर्तृकरणयो"रित्येव सिद्धमिति भाष्यम्। प्रायेण याज्ञिक इति। प्रायशब्दो बहुलवाची। बहुलाचारसंबन्धियाज्ञिकत्ववानित्यर्थः। संबन्धश्च ज्ञाप्यज्ञापकभावः। बहुलेन आचारेण हेतुना ज्ञाप्ययाज्ञिकत्ववानित्यर्थे तु इत्थंभूतलक्षणे" इत्येव सिद्धम्। बहुलेन आचारेम संपन्नयाज्ञिकत्ववानित्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम्। गोत्रेण गाग्र्य इति। गोत्रमस्य गाग्र्य इत्यर्थः। अत्र प्रथमा प्राप्ता। गोत्रेण हेतुना ज्ञाप्यगाग्र्यत्ववानित्यर्थे तु इत्थभूतलक्षणे" इत्येव सिद्धमिति भाष्यम्। समेनैति विषमेणैतीति। क्रियाविशेषणमेतत्। समं विषमं च गमनं करोतीत्यर्थः। कर्मणि द्वितीया प्राप्ता। समेन विषमेण वा पथा एतीत्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम्। द्विद्रोणेनेति। द्वयोद्र्रोणयोः समाहारो द्विद्रोणम्। पात्रादित्वान्न स्त्रीत्वम्। द्विद्रोणसंबन्धि धान्यमित्यर्थः। षष्ठी प्राप्ता। द्विद्रोणपरिमितधान्यमूल्यं हिरण्यं द्विद्रोणं, तेन क्रीणातीत्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम्। सुखेनेति। सुखजनकं यानं करोतीत्यर्थः। क्रियाविशेषणम्। द्वितीया प्राप्ता। इत्यादीति। "नाम्नासुदीक्ष्णः"। नामसंबन्धिसुतीक्ष्णत्ववानित्यर्थः। नामज्ञाप्यसुतीक्ष्णत्ववानित्यर्थे तु "इत्थंभूतलक्षणे" इत्येव सिद्धम्। "धान्येन धनवा"नित्यत्र तु अभेदस्तृतीयार्थः। नामज्ञाप्यसुतीक्ष्णत्ववानित्यर्थे तु "इत्थंभूतलक्षमे" इत्येव सिद्धम्। "धान्येन धनवा"नित्यत्र तु अबेदस्तृतीयार्थः। धान्याऽभिन्नधनवानित्यर्थः। "बह्नित्वेन व()ह्न जानामी"त्यत्र तु प्रकारत्वं तृतीयार्थः। बह्नित्वप्रकारकबह्निज्ञानवानस्मीत्यर्थ इत्याद्यूह्रम्।

तत्त्व-बोधिनी
कर्तृकरणयोस्तृतीया ४९६, २।३।१८

रमेणेति। यद्यपि विभक्त्युपस्थितानां कारकाणां क्रियां प्रति विशेषणतैव, तथापि कृदुपस्थितानां विशेष्यतैव, "सत्त्वप्रधानानि नामानी"त्युक्तेः। धातूपस्थाप्ययोः फलव्यापारयोर्हन्यत इत्यादिकर्माख्यातसमभिव्याहारे विशेषणविशेष्यभावव्यत्यासाऽभावेऽपि "हत" इत्यादिकर्मकृत्समभिव्याहारे व्यत्यासोऽस्त्येव। तथा च रामनिष्ठो यो व्यापारो धनुराकर्षणादिस्तद्विषयीभूतो यो बाणव्यापारः शरीरभेदनादिस्तत्साध्यप्राणवियोगाश्रायो वालीति वाक्यार्थः। "वालिनं हन्ति" "वाली हन्यते"इत्यादौ तु वालिनिष्ठप्राणवियोगानुकूलो यः शरीरभेदनादिर्बाणव्यापारस्तद्विषयको रामनिष्ठधनुराकर्षणादिव्यापार इत्यर्थो बोध्यः। अत्रेदमवधेयं---"फलव्यापारयोर्धातुराश्रये तु तिङः स्मृतः। फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्"। इह "धातुः स्मृत"इत्यन्वयः। "वाचकेत्वेने"ति शेषः। "आश्रये तु तिङः"इत्यत्र विभक्तिविपरिणामेन "स्मृता"इति सम्बन्धते। वाचकत्वेनेति पूर्ववत्। तिङ इत्युपलक्षणं, द्वितीयातृतीयादीनामपि केषाञ्चिदाश्रयमात्रार्थकत्वात्। नन्वेवमाधारार्थकत्वे द्वितीयातृतीयासप्तमीनां साङ्कर्यं स्यात्। मैवम्। निरूपपकभेदेनादारभेदात्। फलनिरूपित आधारो द्वितीय#आर्थः। व्यापारनिरूपितस्तु तृतीयार्थः। स्वाश्रयद्वारा व्यापारनिरूपितः फलनिरूपितः फलनिरूपितश्च सप्तम्यर्थ इति ह्रभ्युहगम्यते। "फले प्रधान"मिति। एतच्च प्रायिकम्। कर्मकृत्समभिव्याहारे तु व्यत्यासोऽस्त्येवेत्युक्तत्वात्। "हरिं भजति देवदत्तः"इत्यादौ तु व्यापारस्य प्राधान्यमस्त्येव। प्रकृतिप्रत्ययार्थयोर्हर्याधारयोर्देवदत्ततिङ्वाच्याधारयोश्चाऽभेद इहं संसर्गः। तथा च हर्याधारिका या प्रीतिस्तदनुकूल एकदेवदत्ताधारको वर्तमानो यो व्यापार इति वाक्यार्थः। न चाऽ‌ऽधारतैव वाच्येति मन्तव्यं, तन्निष्ठधर्मस्याधारत्वस्य वाच्यतावच्छेदकत्वापत्त्याऽतिगौरवात्। "कर्मणि द्वितीये"त्यादिसूत्रस्वरसभङ्गापत्तेश्च। अतएव भाष्यकारोऽप्याह--"सुपां कर्मादयोऽप्यर्थाः सङ्ख्या चैव तथास तिङा"मिति। अनभिहिते किम्? हरिः करोति। पाचकः। कर्तरि ण्वुल्। शाब्दिकः। "शब्ददर्दुरं करोति"इति ठक्। कृतं वि()आं येन कृतवि()आः, वि()आकर्मककृत्याश्रय इत्यर्थः। जीवन्त्येन जीवनः। करणे ल्युट्।

प्रकृत्यादिभ्य उपसङ्ख्यानम्। प्रकृत्यादिभ्य इति। आकृतिगणोऽयम्। तेन "नाम्ना सुतीक्ष्णश्चरितेन दान्तः"इत्यादि सिद्धम्। चारिरिति। अभिरूप इत्यर्थः। क्रियाया अश्रवणात् कर्तृकरणयोरभावात् षष्ठीह प्राप्ता। एतच्च गम्यमानकरोतिक्रियाकरणत्वासिद्धं, करणान्तरव्युदासाय हि प्रकृतेरेव करणत्वं विवक्षितम्। स्वभावेनायमभिरूपः कृतो, न त्वलङ्कारादिनेत्यर्थात्। प्रायेण याज्ञिक इति। एतदपि गम्यमानज्ञानक्रियां प्रति करणत्वात्सिद्धिम्, आचारादिबाहुल्येन याज्ञिकोऽयमिति जनैज्र्ञायत इत्यर्थात्। गौत्रेण गाग्र्य इति। गार्ग्यौऽस्य गोत्रमित्यर्थः। प्रथमाऽत्र प्राप्ता। गोत्रेणाहं गग्र्यं इतिल ज्ञाये इत्यर्थादिहापि तृतीया सिद्धा। समेनैतीत्यादि। सममेतीत्याद्यर्थे समविषमाभ्यां कर्मणि द्वितीया प्राप्ता। इहापि तृतीया सिद्धा, पथोऽपि गमने करणत्वाब्युपगमात्।