पूर्वम्: २।३।२५
अनन्तरम्: २।३।२७
 
प्रथमावृत्तिः

सूत्रम्॥ षष्ठी हेतुप्रयोगे॥ २।३।२६

पदच्छेदः॥ षष्ठी १।१ २७ हेतुप्रयोगे ७।१ २७ हेतौ ७।१ २३

काशिका-वृत्तिः
षष्ठी हेतुप्रयोगे २।३।२६

हेतोः प्रयोगः हेतुप्रयोगः। हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी विभक्तिर् भवति। अन्नस्य हेतोर् वसति।
न्यासः
षष्ठी हेतुप्रयोगे। , २।३।२६

प्रयोगस्य शब्दधर्मत्वात् हेतुरित्यनेन हेतुशब्द एव विज्ञायत इत्यत आह--"{हेतुशब्दस्य प्रयोगे--काशिका} हेतुशब्दप्रयोगे" इति। एवञ्च हेतुशब्दस्य स्वरूपग्रहणे सति तत्पर्याणां निमित्तकारणादीनां प्रयोगे षष्ठी न भवतीति किमर्थं पुनरिदमुच्यते, यावता शेषविवक्षयैवात्राध्ययनादिभ्यः षष्ठी भविष्यति, तत्समानाधिकरण्याच्च हेतुशब्दादपि? एवं तर्हि सैव शेषविवक्षाऽस्मिन् विषये वचनेनाख्यायते मन्दधियामनुग्रहाय॥
बाल-मनोरमा
षष्ठी हेतुप्रयोगे ५९९, २।३।२६

षष्ठीहेतुप्रयोगे। हेतावित्यनुवर्तते। तदाह--हेतौ द्योत्ये इति। हेतुत्वे द्योत्ये इत्यर्थः। हेतुवाचकात्षष्ठीति फलितम्। "हेतौ" इति तृतीयां बाधित्वा षष्ठी। हेतुप्रयोगे किम्?। अन्नेन वसति। हेतौ द्योत्ये इति किम्?। अन्नस्य ह्तोस्तुभ्यं नमः। अत्र युष्मच्छब्दान्न भवति।

तत्त्व-बोधिनी
षष्ठी हेतुप्रयोगे ५३७, २।३।२६

षष्ठी हेतु। अत्र "हेतौ" इत्यनुवर्तते, तदाह---हेतौ द्योत्य इति। अन्नस्येति। "हेतौ" इति तृतीयायां प्राप्तायामनेन षष्ठी। हेतुप्रयोगे किम्()। अन्ने वसति। हेतौ द्येत्ये किम्। अन्नशब्दात्षष्ठी यथा स्यादित्येके। "अन्नस्य हेतोस्तुभ्यं नम" इत्यत्र युष्मच्छब्दान्मा भूदित्यन्ये।