पूर्वम्: २।३।५
अनन्तरम्: २।३।७
 
प्रथमावृत्तिः

सूत्रम्॥ अपवर्गे तृतीया॥ २।३।६

पदच्छेदः॥ अपवर्गे ७।१ तृतीया १।१ कालाध्वनोः ७।२ अत्यन्तसंयोगे ७।१

अर्थः॥

अपवर्गे अर्थे कालाध्वनोः अत्यन्तसंयोगे तृतीया विभक्तिः भवति।

उदाहरणम्॥

मासेन अनुवाकः अधीतः, संवत्सरेण अनुवाकः अधीतः। अध्वनः - क्रोशः अनुवाकः अधीतः। योजनेन अनुवाकः अधीतः।
व्याख्या (काशिका)
काल-अध्वनोर् अत्यन्तसंयोगे इति वर्तते / अपवर्गः फल-प्राप्तौ सत्यां क्रियापरिसमाप्तिः / अपवर्गे गम्यमाने काल-अध्वनोर् अत्यन्तसंयोगे तृतीया विभक्तिर् भवति / मासेन अनुवाको ऽधीतः / संवत्सरेण अनुवाको ऽधीतः / अध्वनः - क्रोशेन अनुवाको ऽधीतः / योजनेन अनुवाको ऽधीतः / अपवर्गे इति किम् ? क्रोशम् अधीतो ऽनुवाकः / मासम् अधीतः / कर्तव्यादृत्तौ फल-सिद्धेर् अभावात् तृतीया न भवति / मासम् अधीतो ऽनुवाकः, न च अनेन गृहीतः //
काशिका-वृत्तिः
अपवर्गे तृतीया २।३।६

कालाध्वनोरत्यन्तसंयोगे इति वर्तते। अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिः। अपवर्गे गम्यमाने कालाध्वनोरत्यन्तसंयोगे तृतीया विभक्तिर् भवति। मसेन अनुवाको ऽधीतः। संवत्सरेण अनुवाको ऽधीतः। अध्वनः क्रोशेन अनुवाको ऽधीतः। योजनेन अनुवाको ऽधीतः। अपवर्गे इति किम्? क्रोशम् अधीतो ऽनुवाकः। मासम् अधीतः। कर्तव्यादृत्तौ फलसिद्धेरभावात् तृतीया न भवति। मासम् अधीतो ऽनुवाकः, न च अनेन गृहीतः।
न्यासः
अपवर्गे तृतीया। , २।३।६

"अपवर्गः"इति। अत्यन्तसंयोगस्य फलरूपमेतद्विशेषणमुपात्तम्। तच्च क्रियात्यन्तसंयोगस्यैव सम्भवति, नान्यस्यति सामथ्र्यादत्र क्रियात्यन्तसंयोग एव गृह्रते। सर्वस्याश्च क्रियायाः परिसमाप्तिरस्ति; तस्माद्विशेषणोपादानसामथ्र्यात् फलप्राप्तौ सत्यां क्रियायाः परिसमाप्तिरिहापवर्गो विज्ञायत इत्यत आह-- "फलप्राप्तौ" इत्यादि। "कर्त्तृव्यावृतौ" इति। न हि मासमधीतोऽनुवाको न चानेन गृहीत इत्युक्तेऽपवर्गो गम्यते, किं तर्हि? कर्त्तुरशक्तिमात्रम्। न च तत्रापवर्गव्यपदेशः॥
बाल-मनोरमा
अपवर्गे तृतीया ५५५, २।३।६

अपवर्गे तृतीया। अपवर्द समाप्तिः, "कर्मापवर्गे लौकिका अग्नयः" इत्यादौ दर्शनात्। इह तु फलप्राप्तिपर्यन्तत्वात् प्रायेण क्रियायाः। तदाह-अपवर्गः फलप्राप्तिरिति। कालाध्वनोरिति। अनेन "कालाध्वनोः" इति द्वितीयाय अयमपवाद इति सूचितम्। अह्नेति। अह्नि कोशे वा निरन्तरमनुवाकोऽध्ययनेन गृहीत इत्यर्थः। नायात #इति। न गृहीत इत्यर्थः।