पूर्वम्: २।४।१२
अनन्तरम्: २।४।१४
 
सूत्रम्
विप्रतिषिद्धं चानधिकरणवाचि॥ २।४।१३
काशिका-वृत्तिः
विप्रतिषिद्धं च अनधिकरणवाचि २।४।१३

परस्परविरुद्धं विप्रतिषिद्धम्। विप्रतिषिद्धार्थानां शब्दानाम् अनधिकरणवाचिनाम् अद्रव्यवाचिनां द्वन्द्व एकवद् भवति। विभाषानुकर्षणार्थश्चकारः। शीतोष्णम्, शीतोष्णे। सुखदुःखम्, सुखदुःखे। जीवितमरणम्, जीवितमरणे। विप्रतिषिद्धम् इति किम्? कामक्रोधौ। अनधिकरणवाचि इति किम्? शीतोष्णे उदके।
न्यासः
विप्रतिषिद्धं चानधिकरणवाचि। , २।४।१३

"अद्रव्यवाचिनाम्" इति। एतेनाधिकरणशब्दोऽत्र द्रव्ये वत्र्तते नाधार इति दर्शयति। न हि विप्रतिषिद्धवाचिनां शब्दानामाधारे वृत्तिरस्तिः; विभक्त्यर्थत्वादाधारशक्तेः। "शीतोष्णे" इति। शीतोष्णयोः सहानवस्थानलक्षणेनैव विरोधेन विरुद्धत्वाद्विप्रतिषिद्धवाचित्वम्। तथा सुखदुःखयोरपि॥ "कामक्रोधौ" इति। क्रुद्धोऽपि काममाचरतीति नानयोर्विप्रतिषिद्धत्वम्॥
बाल-मनोरमा
विप्रतिषिद्धं चानधिकरणवाचि ९०७, २।४।१३

विप्रतिषिद्धं च। "विभाषे"त्यनुवर्तते। विप्रतिषेधो विरोधः, सहानवस्थानलक्षणः। अधिकरणं-द्रव्यम्। अद्रव्यवाचि विरुद्धार्थकं च यदनेकं सुबन्तं तदवयवको द्वन्द्वो विभाषैकवद्भावक इत्यर्थः। फलितमाह--विरुद्धार्थानामिति। गोत्वा()आत्वम्। गोत्वा()आत्वे। सुखदुःखं सुखदुःखे इत्याद्युदाहरणम्। ननु "चार्थे" इति इतरेतरयोगसमाहाराभ्यामेवात्र एकवत्त्वविकल्पसिद्धेरिदं व्यर्थम्। नच "जातिरप्राणिना"मिति नित्यं प्राप्तं विकल्पार्थमिति वाच्यं, जातिप्रवृत्तिनिमित्तकद्रव्यवाचिनां द्वन्द्व एव तत्प्रवृत्तेरित्यत आह--वकल्पिक इत्यादि, नियमार्थमिदमित्यन्तम्। तेनेति। उक्तनियमेनेत्यर्थः। शीतोष्णे उदके स्त इति। अत्र विरुद्धार्थकत्वेऽपि द्रव्यवाचित्वान्न समाहारद्वन्द्व इति भावः। नन्दकपाञ्चजन्यमिति। विष्णोः कङ्गो नन्दकः, शङ्खस्तु पाञ्चजन्यः, तयोरेकत्र विष्णौसहावस्थानान् विरुद्धत्वमिति स्थितिः। इह विप्रतिषिद्धग्रहणाऽभावे "चार्थे" इति समाहारद्वन्द्वोऽद्रव्यवाचिनामेवेति नियमो लभ्येत। एवं सति नन्दकपाञ्चजन्यमिति पाक्षिकसमाहारद्वन्द्वो न स्यात्, समाहारद्वन्द्वस्य सर्वस्यापि अद्रव्यवाचिनामेवे"ति नियमो लभ्यते। एवं सति नन्दकपाञ्चजन्यमिति पाक्षिकसमाहारद्वन्द्वो न स्यात्, समाहारद्वन्द्वस्य सर्वस्यापि अद्रव्यवाचिष्वेव नियमितत्वात्। "विप्रतिषिद्ध"मित्युक्तौ तु "विरुद्धार्थानां समाहारद्वन्द्वश्चेत्तर्हि अद्रव्यवाचिनामेवे"ति नियमो लभ्यते। नन्दकपाञ्चजन्ययोश्चाऽविरुद्धत्वादयं नियमो न प्रवर्तते। ततश्च द्रव्यवाचित्वेऽपि "चार्थे" इति रदाचित्समाहारद्वन्द्वः, कदाचिदितरयोगद्वन्द्वश्च भवत्येव। तदाह--इह पाक्षिकः समाहारद्वन्द्वो भवत्येवेति।

तत्त्व-बोधिनी
विप्रतिषिद्धं चानधिकरणवाचि ७८३, २।४।१३

विप्रतिषिद्धम्। अधिकरणमिह द्रव्यम्। चकारो विभाषानुकर्षणार्थः। तदेतव्द्याचष्टे विरुद्धार्थानामित्यादि। उदजाहरणं तु---शीताष्णं, शीतोष्णे, सुखदुःखं, सुखदुःखे इत्यादि। विरोधोऽत्र सहानवस्थानलक्षणः। भवत्येवेति। विप्रतिषिद्धग्रहण #आऽभावे तु स न स्यात्, "अद्रव्यवाचिनामेवे"ति नियमादिति भावः। अनधिकरणवाचीति किम्()। शीतोष्णे उदके स्तः। इह पाक्षिकः समाहारद्वन्द्वोऽपि स्यादिति दिक्।