पूर्वम्: २।४।१
अनन्तरम्: २।४।३
 
सूत्रम्
द्वंद्वश्च प्राणितूर्यसेनाङ्गानाम्॥ २।४।२
काशिका-वृत्तिः
द्वन्द्वश् च प्राणितूर्यसेनाऽङ्गानाम् २।४।२

एकवचनम् इति वर्तते। अङ्गशब्दस्य प्रत्येकं वाक्यपरिसमाप्त्या त्रीणि वाक्यानि सम्पद्यन्ते। प्राण्यङ्गानां द्वन्द्व एकवद् भवति, तथा तूर्याङ्गानां सेनाऽङ्गानां च। प्राण्यङ्गानां तावत् पाणिपादम्। शिरोग्रीवम्। तूर्याङ्गानाम् मार्दङ्गिकपाणविकम्। वीणावदकपरिवादकम्। सेनाऽङ्गानाम् रथिकाश्वारोहम्। रथिकपादातम्। हस्त्यश्वाऽदिषु परत्वात् पशुद्वन्द्वे विभाषया एअक्वद् भवति। इतरेतरयोगे समहारे च द्वन्द्वो विहितः। तत्र समाहारस्य एकत्वात् सिद्धम् एव एकवचनम्। इदं तु प्रकरणं विषयविभागार्थम्, प्राण्यङ्गाऽदीनां समाहार एव द्वन्द्वः, दधिपयाऽदीनाम् इतरेतरयोग एव, वृक्षमृगाऽदीनाम् उभयत्र इति।
लघु-सिद्धान्त-कौमुदी
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ९९४, २।४।२

एषां द्वन्द्व एकवत्। पाणिपादम्। मार्दङ्गिकवैणविकम्। रथिकाश्वारोहम्॥
न्यासः
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्। , २।४।२

अत्राङ्गशब्दः समुदाये परिसमाप्यते? प्रत्येकं परिसमाप्यते वा? तत्र यदि समुदाये परिसमाप्येत तदैकमेवेदं वाक्यं स्यात्, तथा च व्यतिकरः प्रसज्येत। प्राणितूर्यसेनाङ्गानां परस्परसहितानां यो द्वन्द्वो व्यतिकीर्णावयवस्तस्यैकवद्भावः स्यात्। प्रत्येकं परिसमाप्तौ त्वेष दोषो न भवति। तत्र हि प्राण्यङ्गानां द्वन्द्व एकवद्भवतीत्येवमादीनि त्रीणि वाक्यानि सम्पद्यन्ते। स्वविषये यत्र बहुवचनान्तं वाक्यं क्रियते तत्र प्रथमेन वाक्येन प्राण्यङ्गानां प्राण्यङ्गैरेव यः समासस्तस्यैकवद्भावो विधीयते। द्वितीयेन वाक्येन तूर्याङ्गानां तूर्याङ्गैः। तृतीयेन सेनाङ्गानां सेनाङ्गैरिति न भवति सङ्करप्रसङ्गः। न हि चतुर्थ वाक्यमस्ति येन व्यतिकीर्णावयवस्य द्वन्द्वस्यैकार्थता स्यादिति मन्यमानः प्रत्येकं वाक्यपरिसमाप्तिपक्षमाश्रित्याह-- "अङ्गशब्दस्य" इत्यादि। तथा तूर्याङ्गानामिति द्वन्द्व एकवद्भवतीत्येपेक्षते। एवं सेनाङागनाञ्चेत्यत्रापि। "पाणिपादम्" इति। अत्र यदि प्राण्यङ्गमपि प्राणिग्रहणेन गृह्रते तदा "जातिरप्राणिनाम्" २।४।६ इत्येवं सिद्धम्। यथा-- पणवमृदङ्गमिति। "रथिका()आआरोहम्" इति। रथिकाश्चा()आआरोहाश्चेति वृत्तिपदार्थस्य बहुत्वं दर्शयितव्यम्। यस्माद्बहुत्वमेव सेनाङ्गत्वे कारणम्। बहुत्वाभावे सेनाङ्गत्वन्नास्तीति रथिका()आआरोहाविति भवितव्यम्। "हस्त्य()आआदिषु परत्वात् पशुद्वन्द्वविभाषयैव भवितव्यम्" इति। "विभाषा वृक्षमृग" २।४।१२ इत्यादिना। "इतरेतरयोगे" इत्यादिना द्वन्द्वप्रकरणस्य प्रयोजनं दर्शयति। "प्राण्यङ्गादीनां समाहार एव" इत्यादिना विषयविभाषागार्थतां स्पष्टीकरोति॥
बाल-मनोरमा
द्वन्द्वश्च प्राणितूर्यसेनाऽङ्गानाम् ८९६, २।४।२

द्वन्द्वश्च प्राणि। "प्राणितूर्यसेनाङ्गानी"ति द्वन्द्वगर्भषष्ठीसमासः। द्वन्द्वान्ते श्रूयमाणोऽङ्गशब्दः प्रत्येकं संबध्यते, इत्यभिप्रेत्याह--एषामिति। प्राण्याङ्गानां तूर्याङ्गानां सेनाङ्गानां चेत्यर्थः। द्वन्द्व इति। समाहारद्वन्द्व इत्यर्थः। "द्विगुरेकवचन"मिति पूर्वसूत्रे "समाहारग्रहणं कर्तव्य"मिति वार्तिकस्यात्राप्यनुवृत्तेः। एकवदिति। "एकवचन"मित्यनुवर्तते। एकं वक्तीत्येकवचनम्। ल्युट्। सामान्याभिप्रायं नपुंसकम्। पाणिपादमिति। पाण्योः पादयोश्च समाहार इति विग्रहः। अत्र समाहारे एकवत्त्वं, "स नपुंसक"मिति नपुंसकत्वं च। पाण्योः पादयोश्च प्राण्यवयवत्प्राण्यङ्गोदाहरणमिदम्।

अत तूर्याङ्गद्वन्द्वे उदाहरति--मार्दङ्गिकपाणविकमिति। मृगङ्गपणवशब्दौ वाद्यविशेषपरौ। इह तु तद्वादनेऽपि वर्तेते। मृदङ्गवादनं शिल्पमस्येत्यर्थे "शिल्प"मिति ठक्। मार्दङ्गिकपाणविकयोः समाहार इति विग्रहः। तूर्याङ्गत्वादेकवचनम्। तूर्याङ्गत्वं च तद्वादकतया बोध्यम्। "स नपुंसक"मिति नपुंसकत्वम्।

सेनाङ्गद्वन्द्वे उदाहरति--रतिका()आआरोहमिति। रथेन चरन्तीति रथिकाः। "पर्पादिभ्यः ष्ठन्"। रथिकानाम()आआरोहाणा च समाहार इति विग्रहः। सेनावयवत्वादेकवत्त्वम्। पूर्ववन्नपुंसकत्वम्। ननु समाहारद्वन्द्वे समाहारस्य इति विग्रहः। सेनावयवत्वादेकवत्त्वम्। पूर्ववन्नपुंसकत्वम्। ननु समाहारद्वन्द्वे समाहरस्य विशेष्यत्वात्तस्य चैकत्वादिदं सूत्रं व्यर्थमित्यत आह--समाहारस्यैकत्वादिति। समाहार एवेति। न त्वितरेतरयोगः। एषां द्वन्द्वे नियमार्थं सूत्रमित्यर्थः। एवमुत्तरसूत्राण्यपि समाहर एवेति नियमार्थानि। नचेतरेतरयोगद्वन्द्वे एषामेकवत्त्वविधानार्थमिदं सूत्रमस्तु। तथा च "पाणिपाद" इति पुंलिङ्गमेकवचनान्तं रूपं फलमिति वाच्यं, "समाहारग्रहणं कर्तव्य"मिति पूर्वसूत्रस्थवार्तिकस्यात्रानुवृत्तेः, एकवद्भावप्रकरणेऽस्मिन् सर्वत्र समाहारद्वन्द्वानामेव भाष्ये उदाह्मतत्वाच्चा। नच रथिकमार्दङ्गिकावित्यादावतिप्रसङ्गः शङ्क्यः, प्राण्यङ्गानां परस्परद्वन्द्व एकवत्, तूर्याङ्गानां परस्परद्वन्द्व एकवत्, सेनाह्गानां परस्परद्वन्द्व एकवदित्यभ्युपगमादिति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
द्वन्द्वश्च प्राणिसूर्यसेनाऽङ्गानाम् ७७३, २।४।२

द्वन्द्वश्चप्राणि। प्राणितूर्यसेनानामङ्गानीति बहुवचनान्तेनाऽङ्गशब्देन षष्ठीसमासः। अङ्गशब्दश्च प्रत्येकमन्वेति। तेन प्राण्यङ्गानां प्राण्यह्गैरेव, तूर्याङ्गेरैव, सेनाङ्गैरेव यो द्वन्द्वः स एकवद्भवति न तु व्यतिरेकेण। तेनेह न--मार्दङ्गिका()आआरोहौ। अत्र प्राणिसेनयोरङ्गं नामाऽवयवः। तूर्यस्य त्वङ्गं नामोपकारकं बोध्यम्। एषां द्वन्द्व इति। प्राण्यङ्गानां द्वन्द्वः, तूर्याङ्गानां द्वन्द्वः, सेनाङ्गानां द्वन्द्व इत्यर्थधः। "द्विगुरेकवचन"मित्यत एकवचनं वर्तते। तत्रैकं वक्तीति व्युत्पत्त्या एकत्वविशिष्टः समाहाररूपो योऽर्थस्तत्प्रतिपादकः स्यादित्यर्थं मन्वानः फलितमाह--एकवत्स्यादिति। पाणिपादमिति। यद्यप्यत्र "जातिरप्राणिना"मित्येव सिद्धं, तथापि द्रव्यप्राधान्येऽपि भवत्विति प्राणिग्रहणमित्येके। प्राणिपणवाविति व्यतिकरे मा भूदिति नियमार्थं वचनमित्यन्ये। मार्दङ्गिकेति। मृदङ्गवादनं शिल्पमस्येत्यर्थे "तदस्य शिल्प"मिति ठक्। एवं "पाणविक"इत्यपि। रथिका()आआरोहमिति। रथेन चरन्तीति रथिकाः। "पर्पादिभ्यः ष्ठ"न्निति ष्ठ्न्। ते चा()आरोहाश्चा तेषां समाहारः। ननु "चार्थे द्वन्द्वः"इत्यनेन समाहारद्वन्द्वः सिद्धः तस्य चैकत्वादेकवचनमपि सिद्धमिति किमनेनेत्याशङ्क्याह--नियमार्तमिति। समाहार एवेति। "समाहारे प्राण्यङ्गादीनामेवे"ति विपरीतनियमोऽत्र न भवति, "तिष्यपुनर्वस्वो"रिति सूत्रे बहुवचनग्रहणात्। तद्धि समाहारे एकवचनस्य द्विवचनं मा भूदिति कृतम्। अन्यथा "तिष्यपुनर्वस्वि"ति न स्यादिति। एवं च "द्वन्द्वश्च प्राणिसूत्रेय"ति प्रकरणबहुर्भूतानामपि लसमाहारद्वन्द्वो भवत्येव, तेन "सर्वो द्वन्द्वो विभाषैकवद्भवती"ति पठ()मानं नाऽपूर्वं वचनमिति ज्ञेयम्।