पूर्वम्: २।४।२४
अनन्तरम्: २।४।२६
 
सूत्रम्
विभाषा सेनासुराछायाशालानिशानाम्॥ २।४।२५
काशिका-वृत्तिः
विभाषा सेनासुराच्छायाशालानिशानाम् २।४।२५

सेना सुरा छाया शाला निशा इत्येवम् अन्तस् तत्पुरुषो नपुंसकलिङ्गो भवति विभाषा। ब्राह्मणसेनम्, ब्राहमणसेना। यवसुरम्, यवसुरा। कुङ्यच्छायम्, कुड्यच्छाया। गोशालम्, गोशाला। श्वनिशम्। श्वनिशा।
न्यासः
विभाषा सेनासुराच्छायाशालानिशानाम्। , २।४।२५

"()आनिशम्" इति। यस्यां निशायां ()आआनो मत्ता विहरन्ति सा ()आनिशम्; ()आनिशेति चोच्यत इति॥
बाल-मनोरमा
विभाषा सेनासुराच्छायाशालानिशानाम् १५२६, २।४।२५

विभाषा सेना। प्रथमार्ते षष्ठी। "तत्पुरुष" इत्यनुवृत्तं सेनादिभिर्विशेष्यते। तदन्तविधिः। तदाह--एतदन्त इति। प्रत्येकाभिप्रायमेकवचनम्। ()आनिशमिति। शुनो निशेति विग्रहः। कृष्णचतुर्दशीत्याहुः। "शुनश्चतुर्दश्यामुपवसतः पश्यामः" इति तिर्यगधिकरणे शाबरभाष्ये स्थितम्। दृढसेन इति। दृढा सेना यस्येति बहुव्रीहिः। तत्पुरुषत्वाऽभावान्न क्लीबत्वविकल्पः। असेनेति। तत्पुरुषत्वेऽपि नञ्समासत्वान्न क्लीबत्वविकल्पः। परमसेनेति। कर्मधारयत्वान्न कील्बत्वम्। "तत्पुरुषोऽनञ्कर्मधारयः" इत्यदिकारस्याऽत्रैव प्रयोजनमिति कैयटे प्रपञ्चितम्।

*****इति तत्पुरुषसमासः*****

टित्ले :वैयाकरण-सिद्धान्त-कौमुदी,

श्रीमज्ज्ञानेन्द्रभिक्षुविरचितया तत्त्वबोधिनीटीकया, श्रीवासुदेवभट्टदीक्षितविरचितया बालोपकारिण्या बालमनोरमाख्यया व्याख्यया, (तत्पुरुषादारभ्य) महामहोपाध्याय-श्रीनागेशभट्टविरचितया लघुशब्देन्दुशेखरटीकया च समन्विता।

टीकत्रयोपेता

आउथोर्: महामहोपाध्यायश्रीभट्टोजिदीक्षित

फुब्लिचतिओन्: भ्हरथिय भोओक् चर्पोरतिओन्,

१,ऊ।भ्।झवहेर् णगर्, भन्ग्लो Rओअद्,

डेल्हि-११०००७।

आच्चेस्सिओन् णो : ५१४७१

येअर् ओf Eदितिओन् : १९९७ (Fइर्स्त्)

फगेस् : ७६८प्।

शिऽए : २४च्म्।

ईश्भ्ण् : ८१-८५१२२-२२-७

ळन्गुअगे : शन्स्क्रित्

श्च्रिप्त् : डेवनगरि

शुब्जेच्त् ःएअदिन्ग्स् : शन्स्क्रित्_घ्रम्मर्

Cलस्सिfइचतिओन् णो : फ्१५, Cक्ष्१,१,६,५

भोओक् णो : ण् ९७

फ्रिचे : ५००।०० Rस्/-

अथ ठगधिकार प्रकरणम्।

-------------------

तत्त्व-बोधिनी
विभाषा सेनासुराच्छायाशालानिशानाम् ११८७, २।४।२५

विभाषा सेना। प्राथमार्थे षष्ठीति सेनादिभिस्तत्पुरुषो विशेष्यते। विशेषणेन तदन्तविधिस्तदाह--एतदन्त इति। ()आनिशमिति। कृष्णचतुर्दशी। तस्यां किल केचिच्छ्वान उपवसन्ति। एतच्च शावरभाष्ये तिर्यगधिकरणे स्पष्टम्। "तत्पुरुष"इत्याद्यधिकारसूत्रस्यात्रैव प्रयोजनं, न तु "संज्ञायां कन्थोशीनरेषु"इत्यादिपञ्चसूत्र्याम्। अतत्पुरुषस्यच नञ्समासस्या कर्मधारयस्य च तत्राऽसम्भवादित्याकरे स्थितम्। तथैव प्रत्()युदाहरति----दृढसेन इत्यादि। ननु बहुव्रीहौ विशेष्यनिन्घता न्याय्यैवेति किमनेन तत्पुरुषग्रहणेन()। मैवम्। न्यायापेक्षया वचनस्य बलीयस्त्वात्। किं चाऽसति तद्ग्रहणे द्वन्द्वे नपुंसकता स्यात्परवल्लिङ्गापवादत्वादस्य प्रकरणवादत्वादस्य प्रकरणस्येति दिक्। इति तत्पुरुषः॥