पूर्वम्: २।४।२६
अनन्तरम्: २।४।२८
 
सूत्रम्
पूर्ववदश्ववडवौ॥ २।४।२७
काशिका-वृत्तिः
पूर्ववदश्ववडवौ २।४।२७

अश्ववडवयोर् विभाषएकवद्भावः उक्तः। तत्र एकवद्भावादन्यत्र परविल्लिङ्गतायां प्राप्तायाम् इदम् आरभ्यते। अश्ववडवयोः पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा च अश्ववडवौ। अर्थातिदेशश्च अयम्, न निपातनम्। तत्र द्विवचनमतन्त्रम्। वचनान्तरे ऽपि पूर्ववल्लिङ्गता भवति, अश्ववडवान्, अश्ववडवैः इति।
न्यासः
पूर्ववद�आवडवौ। , २।४।२७

"अ()आवडवयोर्विभाषैकवद्भावो विहितः"इति। "विभाषा वृक्षमृग" २।४।१२ इत्यादिना। "अर्थातिदेशश्चायम्, न निपातनम्" इति। निपातने हि पूर्ववदिति वचनमर्थकं स्यात्, अ()आवडवावित्येवं ब्राऊयात्। तेन "द्विवचनमतन्त्रम्" इत्यादिनाऽर्थातिदेशस्य फलं दर्शयति। निपातने हि वचनान्तरे पूर्ववल्लिङ्गता न स्यात्॥
बाल-मनोरमा
पूर्वपद�आवडवौ ८०३, २।४।२७

पूर्वपद()आवडवौ। "अ()आश्च बहवा चे"ति द्वन्द्वे परवल्लिङ्गं बाधित्वा पूर्ववल्लिङ्गार्थमिदम्। "अ()आवडवाविति द्वन्द्वः पूर्वपदस्य लिङ्गं लभते" #इत्यर्थे बहुवचने विभक्त्यन्तरे च न स्यादित्यत आह--द्विवचनमतन्त्रमिति। उपलक्षममिदम् द्विवचनं विभक्तिश्चेति द्वयमपि अविवक्षितमित्यर्थः। "पूर्वव"द्ग्रहणमत्र लिङ्गम् अन्यथा निपातनादेव सिद्धे किं तेनेति भावः।