पूर्वम्: २।४।४७
अनन्तरम्: २।४।४९
 
सूत्रम्
इङश्च॥ २।४।४८
काशिका-वृत्तिः
इङश् च २।४।४८

इङश्च सनि परतो गमिरादेशो भवति। अधिजिगांसते, अधिजिगांसेते, अधिजिगांसन्ते।
न्यासः
इङश्च। , २।४।४८

"अधिजिगांसते" इति। "पूर्ववत् सनः" १।३।६२ इत्यात्मनेपदम्। "अज्झनगमां सनि" ६।४।१६ इति दीर्घः॥
बाल-मनोरमा
इङश्च ४४३, २।४।४८

इङश्च। गमिः स्यात्सनीति। "णौ गमि"रित्यतः, "सनि चे"त्यतश्च तदनुवृत्तेरिति भावः। इङो ङित्त्वात् "पूर्वक्त्सनः" इति तङ्। परस्मैपदेष्वित्युक्तेर्नेट्। "अज्झने"ति दीर्घ इति भावः।