पूर्वम्: २।४।५४
अनन्तरम्: २।४।५६
 
सूत्रम्
वा लिटि॥ २।४।५५
काशिका-वृत्तिः
वा लिटि २।४।५५

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। लिटि परतश्चक्षिङः ख्याञादेशः वा भवति। आचख्यौ, आचख्यतुः, आचख्युः। न च भवति। आचचक्षे, आचचक्षाते, आचचक्षिरे।
न्यासः
वा लिटि। , २।४।५५

बाल-मनोरमा
वा लिटि २६८, २।४।५५

वा लिटि। चक्षिङः ख्याञ् वा स्याल्लिटीत्यर्थः। अत्रेति। "चक्षिङः ख्या"ञिति सूत्रभाष्ये "ख्शादिरयमादेश" इति, "पूर्वत्रासिद्ध"मित्यधिकारे "ख्शाञः शस्य यो वा वक्तव्यः इति च सित्थमित्यर्थः। तेन "पुंख्यान"मित्यत्र यत्वस्याऽसिद्धत्वात् "पुनः खय्यम्परे" इति रुत्वं नेति हल्सन्धिनिरुपणे प्रपञ्चितम्। ञित्त्यात्पदद्वयमिति। परस्मपैदमात्मनेपदं चेत्यर्थः। चख्यौ इति। ख्शादेशस्य शस्य वत्वपक्षे "आत औ णलः" इति भावः। चख्यतुः चख्युः। भारद्वाजनियमात्थलि वेट्--चख्यिथ-चख्याथ, चख्यथुः चख्य। चख्यौ चख्यिव चख्यिमाक्रादिनियमादिट्। लिटि तङि ख्शाञादेशस्य शस्य वत्वपक्षे आह--- चख्ये इति। चख्याते चख्यिरे। चख्यिषे चख्याते [चख्यिढवे] चख्यिध्वे चख्ये। चख्यिवहे। चख्यिमहे। शस्य वत्वाऽभावपक्षे त्वाह--- चक्शौ चक्शे इति। खस्य चर्त्वेन क इति भावः। कृते चर्त्वे तस्य "चयो द्वितीयाः शरि" इति खकारमाशह्क्य निराकरोति-- खय इति। अथ ख्यानादेशाऽभावपक्षे आह--चचक्षे इति। चचक्षिषे चचक्षिध्वे। चचक्षिवहे। ख्यास्यतीति। चष्टाम् चक्षाताम् चक्षताम्। चक्ष्व चक्षाथाम् चड्ढ्वम्।चक्षै चक्षावहै चक्षामहै। लड()आह--अचष्टेति। अचक्षाताम् अचक्षत।अचष्ठ#आ#ः अचक्षाथाम् अचड्ढ्वम्। अचक्षि अचक्ष्वहि अचक्ष्महि। विधिलिड()आह-- चक्षीतेति। आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे आह--- ख्यायात् ख्येयादिति। "वाऽन्यस्ये"त्येत्वविकल्पः। शस्य यत्वाऽभावपक्षे आह-- क्शायात् क्शेषादिति। लुङि च्लेः सिचि प्राप्ते आह--

तत्त्व-बोधिनी
वा लिटि २३४, २।४।५५

असिद्धकाण्डे इति। "णत्वप्रकरणानन्तर"मिति शेषः। तेन "पर्याख्यान"मित्यत्र शकारेण व्यवधानात् "कृत्यचः इति णत्वं न। तथा सुप्रख्येन निर्वृत्तं सौप्रख्यं,तत्र भवः सौप्रख्यीयः। यत्वस्याऽसिद्धत्वात् "धन्वयोपधा"दिति वुञ् न, किं तु छ एवेति बोध्यम्। अचष्टेति। "स्को"रिति कलोपः। ष्टुत्वम्। "अस्यतिवक्तिख्याती"त्यत्र विधिसामथ्र्याद्यत्त्वं नाऽसिद्धम्। स्वतन्त्रस्य ख्याधातोः सार्वधातुकमात्रविषयतया वक्ष्यमाणत्वात्। अस्यतेः पुषादिपाठादङि सिद्धं तङर्थं ग्रहणमित्यादि पुषादिषु वक्ष्यति।