पूर्वम्: २।४।५६
अनन्तरम्: २।४।५८
 
सूत्रम्
वा यौ॥ २।४।५७
काशिका-वृत्तिः
वा यौ २।४।५७

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। यु इति ल्युटो ग्रहणम्। यौ प्रभूते अजे र्वा वी इत्ययम् आदेशो भवति। प्रवयणो दण्डः, प्राजनो दण्डः। प्रवयणमानय, प्राजनमानय।
न्यासः
वा यौ। , २।४।५७

"यु" इति ल्युटो ग्रहणम्" इति। अन्यस्यासम्भवात्। "प्रवयणो दण्डः" इति। प्राज्यतेऽनेनेति करणे ल्युट्। पूर्ववण्णत्वम्॥