पूर्वम्: २।४।६९
अनन्तरम्: २।४।७१
 
सूत्रम्
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्॥ २।४।७०
काशिका-वृत्तिः
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् २।४।७०

आगस्त्यकौण्डिन्ययोर् गोत्रप्रत्यययोः अणो यञश्च बहुषु लुग् भवति, परिशिष्टस्य च प्रकृतिभागस्य यथासङ्ख्यम् अगस्ति, कुण्डिनचित्येतावादेशौ भवतः। अगस्तयः। कुण्डिनाः। चकारः स्वरार्थः। मद्योदात्तो हि कुण्डिनीशब्दस् तदादेशो ऽपि तथा स्यात्। अगस्त्यशब्दादृष्यण्, कुण्डिनीशब्दाद् गर्गादित्वाद् यञ्। तयोः गोत्रे ऽलुगचि ४।१।८९ इति लुकि प्रतिषिद्धे आगस्तीयाः छत्राः इति वृद्धलक्षणश्छो भवति। कौण्डिन्ये त्वणैव भवितव्यम्, कण्वादिभ्यो गोत्रे ४।२।११० इति। तत्र विशेषो न अस्ति। कौण्डिनाश्छात्राः।
न्यासः
आगस्त्यगौण्डिन्ययोरगस्तिगुण्डिनच्। , २।४।७०

यद्यपि प्रत्ययान्तात् षष्ठ्युच्चारिता, तथापि प्रत्ययस्यैव लुग्विज्ञायते, न तदन्तस्य; यस्मात् प्रत्ययादर्शनस्य लुगित्येषा संज्ञा विहिता, न तदन्तस्येत्यालोच्याह-- "आगस्त्यकौण्डिन्ययोर्गोत्रप्रत्यययोः" इति। व्यधिकरणे षष्ठ्यौ। आगस्त्यकौण्डिन्ययोर्याववयवौ गोत्रप्रत्ययौ तयोरित्यर्थः। तावेव प्रत्ययौ स्वरूपेण दर्शयन्नाह-- "अणो यञश्च" इति। यञो यद्यपि लुक् सिद्धस्तथापि पुनर्विधीयते कुण्डिनजादेशेन तस्य बाधा मा विज्ञायीति। "मध्योदात्तो हि कुण्डिनीशब्दः" इति। कुण्डमस्यास्तीति "अत इनिठनौ" ५।२।११४ इतीनिप्रत्यये कृते प्रत्ययस्वरेण। "तदादेशोऽपि तथा स्यात्" इति। स्थानिवद्भावेन मध्योदात्तः स्यात्। चित्करणान्मध्योदात्तत्वं न बवति। किमर्थं पुनः प्रत्ययान्तरयोरेवायमादेशो न क्रियत इत्याह--- "तयोः" इत्यादि। यदि प्रत्ययान्तयोरेवायमादेशः स्यात "गोत्रेऽलुगचि" ४।१।८९ इति प्रतिषधो न स्यात्। यस्माल्लुकोऽसौ प्रतिषेधो नादेशस्येति स्यादेवात्रादेशः, ततश्चावृद्धादणेव स्यात्; एवं चागस्ता इत्यनिष्टं रूपं स्यात्। यद्यपि वृद्ध्सयादेशः स्यानिवद्भावाद् वृद्धग्रहणेन गृह्रते तथाप्यगस्तीया इति स्यात्, आगस्तीया इति न सिध्यति। न च स्थानिवद्भावो लभ्यते; वृद्धसंज्ञाया अल्विधित्वात्। इह प्रत्ययस्य तु लुकि परिशिष्टस्यादेशे विहिते "गोत्रेऽलुगचि" ४।१।८९ इति लुकि च प्रतिषिद्धे "वृद्धाच्छः" ४।२।११३ सिद्धो भवति। "तत्र विशेषो नास्ति" इति। सत्यामपि वृद्धसंज्ञायां "कण्वादिभ्यो गोत्रे" ४।२।११० इति च्छापवदेनाणैव भवितव्यमिति नास्ति कौण्डिन्ये विशेषः॥