पूर्वम्: २।४।६८
अनन्तरम्: २।४।७०
 
सूत्रम्
उपकादिभ्योऽन्यतरस्यामद्वंद्वे॥ २।४।६९
काशिका-वृत्तिः
उपकाऽदिभ्यो ऽन्यतरस्याम् अद्वन्द्वे २।४।६९

उपक इत्येवम् आदिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग् भवति अन्यतरस्यां द्वन्द्वे च अद्वन्द्वे च। अद्वन्द्वग्रहनं द्वन्द्वाधिकारनिवृत्त्यर्थम्। एतेषं च मद्ये त्रयो द्वन्द्वास्तिककितवादिषु पठ्यन्ते उपकलमकाः, भ्रष्टकक्पिष्ठलः, कृष्णाजिनकृष्णसुन्दराः इति। तेषां पूर्वेण एव नित्यम् एव लुग् भवति। अद्वन्द्वे त्वनेन विकल्पः उपकाः, औपकायनाः। लमका, लामकायनाः। भ्रष्टकाः, भ्राष्टकयः। कपिष्ठलाः, कापिष्ठलयः। कृष्णाजिनाः, कार्ष्णाजिनयः। कृष्णसुन्दराः, कार्ष्णसुन्दरयः इति। परिशिष्टानां च द्वन्द्वे ऽद्वन्द्वे च विकल्पः इति। पण्डारक। अण्डारक। गडुक। सुपर्यक। सुपिष्ठ। मयूरकर्ण। खारीजङ्घ। शलावल। पतञ्जल। कण्ठेरणि। कुषीतक। काशकृत्स्न। निदाघ। कलशीकण्ठ। दामकण्ठ। कृष्णपिङ्गल। कर्णक। पर्णक। जटिलक। बधिरक। जन्तुक। अनुलोम। अर्धपिङ्गलक। प्रतिलोम। प्रतान। अनभिहित।
बाल-मनोरमा
उपकादिब्योऽन्यतरस्यामद्वन्द्वे ११३५, २।४।६९

उपकादिभ्यो। चकारमध्याह्मत्याह--द्वन्द्वे चेति। एवं च अस्वरितत्वादेव पूर्वसूत्राद्द्वन्द्वग्रहणाननुवृत्त्यैव सिद्धे अद्वन्द्वग्रहणं स्पष्टार्थमेव। नच "द्वन्द्वे ने"ति निषेध एव किं न स्यादिति वाच्यं, द्वन्द्वानामपि गणे पाठात्। तदेतत्सूचयन्द्वन्द्वमुदाहरति--भ्राष्ट्रककपिष्ठला इति। इञो वा लुक्। अद्वन्द्वे उदाहरति-लमकाः लामकायना इति। अ()आआदि()ओ लुग्विकल्पः। "उपका" "औपकायना" इत्याद्यप्युदाहार्यम्।

तत्त्व-बोधिनी
उपकादिभ्योऽन्यतरस्याम द्वन्द्वे ९४६, २।४।६९

उपकादिभ्यो। अद्वन्द्वग्रहणं "द्वन्द्वे"इत्येतन्नाधिक्रियत इति स्फुटिकरणार्थम्। [उपकादीनां मध्ये त्रयो द्वन्द्वास्तिककितवादिषु पठ()न्ते "उपकलमकाः"इत्यादयस्येषां पूर्वेण नित्यमेव लुक्, अद्वन्द्वे त्वनेन विकल्प इति ज्ञेयम्]। भाष्ये "भ्राष्ट्रकिकापिष्ठलयः"इत्युदाहरणात्तिककितवादिष्वस्य पाठोऽनार्ष इति कैयटः। तेनात्र द्वन्द्वेऽपि विकल्प एवोचित इत्याशयेनोदाहरति--भ्राष्ट्रककपिष्ठला इत्यादि। तिककितवादिषु पठितानामनेनाऽद्वन्द्व एव विकल्प एवोचित इत्याशयेनोदाहरति---भ्रा,()ट्रककपिष्ठला इत्यादि। तिककितवादिषु पठितानामनेनाऽद्वन्द्व एव विकल्प इत्याशयेनोदाहरति----लमकाः। लामकायना इति। एवमन्येऽप्युदाहर्तव्याः। उपकाः औपकायनाः, भ्राष्ट्रकाः भ्राष्ट्रकायना इत्यादि।