पूर्वम्: २।४।७
अनन्तरम्: २।४।९
 
सूत्रम्
क्षुद्रजन्तवः॥ २।४।८
काशिका-वृत्तिः
क्षुद्रजन्तवः २।४।८

अपचितपरिमाणः क्षुद्रः। क्ष्रुद्र जन्तुवाचिनां द्वन्द्वः एकवद् भवति। दंशमशकम्। यूकालिक्षम्। क्षुद्रजन्तवः इति किम्? ब्राह्मणक्षत्रियौ। क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः। शतं वा प्रसुऋतौ येषां केचिदा नकुलादपि। आ नकुलादपि इति इयम् एव स्मृतिः प्रमाणम्, इतरासां तद्विरोधात्।
न्यासः
क्षुद्रजन्तवः। , २।४।८

क्षुद्रशब्दोऽयमस्त्येव यः कार्पण्यवति पुरुषे वत्र्तते; यथा-- क्षुद्रो देवदत्त इति, कृपण इति गम्यते। अस्ति च शीलहीनेऽङ्गहीने च, यथा --क्षुद्राभ्यो वेति। अत्र ह्रनियतपुंस्का विकलाङ्गाश्च स्त्रियः क्षुद्राग्रहणेन गृह्रन्ते। अस्ति च परिमाणापचये, यथा-- क्षुद्रास्तण्डुला इति। इह तु जन्तुशब्दसन्निधानात् प्राणिशरीरस्याल्पतामाचष्टे। तेन परिमाणापचये वत्र्तमानस्य क्षुद्रशब्दस्य ग्रहणं विज्ञायत इत्याह-- "अपचितपरिमाणः क्षुद्रः" इति। अल्पशरीर इत्यर्थः। अपचितपरिमाणता चापेक्षाभेदादनवस्थितेति। अस्थिरेत्यर्थः। क्षुद्रजन्तुशब्दस्याभिधेयं प्रति स्म-तीरुपन्यस्यति-- "क्षुद्रजन्तुरनस्थिः स्यात्" इति। "क्षुदिर् सम्पेवणे" (धा।पा।१४४३) क्षुद्यत इति क्षुद्रः। औणादिकः "स्फायीतञ्चि" (द।उ।८।३१) इत्यादिना रक्। क्षुद्रश्चासौ जन्तुश्चेति क्षुद्रजन्तुः। "अनस्थिः" इति। यस्यास्थीनि न विद्यन्ते। कवलं यस्य चर्मशोणितमांसमस्ति स क्षुद्रश्चासौ जन्तुश्चेति क्षुद्रजन्तुः। "अथ वा क्षुद्र एव यः" इति स्मृत्यन्तरमाह। क्षोदयितुं यः शक्यते स क्षुद्रजन्तुः। शब्दार्थवशात् प्रसिद्ध एव लोके क्षुद्रजन्तुग्र्राह्रः। स पुनर्मशकादिरङ्गे यस्यात्मीयं शोणितं नास्ति। येषां वा गोचर्ममात्रं राशिहत्वापि नरः पतितो न भवति ते प्रसिद्धाः क्षुद्रजन्तव उच्यन्ते। "शतं वा प्रसृतौ येषाम्" अपरा स्मृतिः। प्सृतौ अञ्जलौ बद्धं येषां प्राणिनां शतं प्रसृतिर्भवति शतेन वा प्रसृतिः पूर्यते ते क्षुद्रजन्तवः। "केचिदानकुलादपि" इति। ककेचिद्वर्णयन्ति-- नकुलपर्यन्ताः क्षुद्रजन्तव इति। "इयमेव स्मृतिः प्रमाणम्" इति। अस्याः सर्वस्मृत्यनुग्राहिणीत्वात्। तथा ह्रेतदुपलक्षितेषु क्षुद्रजन्तुषु स्मृत्यन्तरदर्शिता अपि क्षुद्रजन्तवोऽन्तर्भवति। इतरा अपि स्मृतयः प्रमाणं कस्मान्न भवन्तीत्याह-- "इतरासाम्" इत्यादि। अनस्थ्यादीनां स्मृतीनामा नकुलादपीति स्मृत्या विरोधः। तस्मान्नैताः प्रामाण्येनाभ्युपगम्यन्ते, तेन सर्वत्रेदं सिद्धं भवति। "क्षुद्रजन्तवः" इति बहुवचननिर्देशात् बहुवचननिर्देशात् बहुप्रकृतेरेवैकवद्भावो यथा स्यात्। तनेह न भवति-- यूकालिक्षे, दंशमशकाविति। अयञ्च प्राणिजात्यर्थ आरम्भः। "क्षुद्रजन्तव इति किम्" इति? ननु च सूत्रास्याभावे किं प्रत्युदाहरणं स्यात्? एवं मन्यते-- अन्यथा हि जन्तव इति सूत्रं कत्र्तव्यम्, ततश्चातिप्रसङ्ग स्यादिति॥
बाल-मनोरमा
क्षुद्रजन्तवः ९०२, २।४।८

क्षुद्रजन्तवः। एतेषां द्वन्द्व एकबदित्यर्थः। फलितमाह--एषां समाहारे [एव ]द्वन्द्व इति। यूकालिक्षमिति। यूकाश्च लिक्षाश्चेति विग्रहः। केशबहुले शिरःप्रदेसे स्वेदजा जन्तविशेषा यूकाः। लिक्षाश्च प्रसिद्धाः। एकवत्त्वं, नपुंसकह्यस्वत्वं च। आ नकुलादिति। "नकुलपर्यन्ताः क्षुद्रजन्तवः" इति भाष्यादिति भावः।

तत्त्व-बोधिनी
क्षुद्रजन्तवः ७७८, २।४।८

क्षुद्र। अपचितपरिमाणत्वं क्षुद्रत्वम्। तच्चापेक्षिकत्वादनवस्थितम्। यच्च स्मर्यते---"क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः। शतं वा प्रसृतौ येषां, केचिदानकुलादपि"इति। तत्र सर्वपक्षसाधारण्येनोदाहरति--यूकालिक्षमिति। आ नकुलादिति। नकुलपर्यन्ता इत्यर्थः।