पूर्वम्: ३।१।१११
अनन्तरम्: ३।१।११३
 
सूत्रम्
भृञोऽसंज्ञायाम्॥ ३।१।११२
काशिका-वृत्तिः
भृञो ऽसंज्ञायाम् ३।१।११२

भृञो धतोः असंज्ञायां विषये क्यप् प्रययो भवति। भृत्याः कर्मकराः। भर्तव्याः इत्यर्थः। असंज्ञायाम् इति किम्? भार्यो नाम क्षत्रियः। सम्पूर्वाद् विभाषा। सम्भृत्याः, सम्भार्याः। संज्ञायां पुंसि दृष्टत्वान् न ते भार्या प्रसिध्यति। स्त्रियां भावाधिकारो ऽस्ति तेन भार्य प्रसिध्यति।
लघु-सिद्धान्त-कौमुदी
अभिज्ञावचने ऌट् ७६४, ३।१।११२

स्मृतिबोधिन्युपपदे भूतानद्यतने धातोरॢट्। लङोऽपवादः॥ वस निवासे॥ स्मरसि कृष्ण गोकुले वत्स्यामः। एवं बुध्यसे, चेतयसे, इत्यादिप्रयोगेऽपि॥
न्यासः
भृञोऽसंज्ञायाम्। , ३।१।११२

"भर्तव्या इत्यर्थः" इति। एतेन क्रियाशब्दत्वं भृत्यशब्दस्य दर्शयन् संज्ञाशब्दत्वमपाकरोति। "संपूर्वाद्विभाषा" इति। असंज्ञायामेवायं क्योप नित्यं प्रसक्तस्य क्यपो नित्यं प्रसक्तस्य विकल्पः। एतद्वक्ष्यमाणस्य विभाषाग्रहणस्योभयोरपि योगयोः शेषभूतत्वादव्यवस्थितविभाषाविज्ञानाच्च लभ्यते। "संज्ञायां पुंसि" इत्यादि। असंज्ञायामित्यस्य प्रतिषेधस्येति शेषः। एतेन पुंसि प्रतिषेधस्य चरितार्थतामाह-- यत एवं पुंसि चरितार्थः प्रतिषेधस्ततो न ते भार्या प्रसिध्यति। भार्याशब्दस्तव सूत्रकारस्य मते न प्रसिध्यतीत्यर्थः। पुंसि प्रतिषेधे हि चरितार्थे स्त्रियां क्यपा भवितव्यम्। ननु चासंज्ञायामित्युच्यते, संज्ञाशब्दश्च भार्याशब्दः, तथा हि अबिभ्रत्यपि देवदत्ते तस्य पत्नी भार्येत्युच्यते, तत्कुतः क्यप्प्रसङ्गः? न ब्राऊमः-- अनेन सूत्रेण क्यपा भवितव्यमिति किं तर्हि? "संज्ञायां समजनिषद" ३।३।९९ इत्यनेन, तत्र उत्तरमाह-- "स्त्रियां भावाधिकारोऽस्ति" इति। भावाधिकारशब्देनात्र भावस्याभिधेयभावोपगमलक्षणो व्यापारो विवक्षितः, न तु शास्त्रीयोऽधिकारः। स्त्रियाम् = स्त्रीप्रकरणे, "संज्ञायां समजनिषद" ३।३।९९ इत्यादिना क्यपि विधीयमाने भावस्याधिकारः, शब्दशक्तिस्वाभाव्यात्। तत्र क्यब्()विधीयमानो भाव एव भवति, न कर्मणि। "तेन भार्या सिध्यति" इति। कर्मणीत्यभिप्रायः। यस्मात् स्त्रियां भावाधिकारोऽस्ति। भाव एव वाच्यत्वेन व्याप्रियते, न कर्म,तेन कर्मणि भार्याशब्दः प्रसिध्यति। स्त्रियां भावाधिकारे हि भाव एव क्यपा भवितव्यम्। कर्मणि तु ण्यतैव॥
बाल-मनोरमा
भृञोऽसंज्ञायाम् ६८२, ३।१।११२

भृञोऽसंज्ञायाम्। "क्य"बिति शेषः। भृत्याः कर्मकुर्वाणा इत्यर्थः। "कर्मणि भृतौ" इति कृञष्टः। भर्तव्या इति। वेतनदानेन परार्थे कर्मणि प्रेषयितव्या इत्यर्थः। ननु भृत्यशब्दस्य कर्मकरेषु रूञत्वात्संज्ञाशब्दत्वमेवेत्यत आह-- क्रियाशब्दिति। भार्या नाम क्षत्रिया इति। क्षत्रियविशेषेषु रूढः संज्ञाशब्दोऽयमिति भावः। अथ कथं भार्येति। क्यपा भवितव्यमित्याक्षेपः। ननु बध्वां भार्याशब्दस्य संज्ञाशब्दत्वात् "भृञोऽसंज्ञाया"मित्यत्र असंज्ञायामिति व्यर्थमित्यत आह-- संज्ञापर्यादुसत्विति। समाधत्ते-- सत्यमिति। "डु भृञ् धारणपोषणयोः" इति जुहोत्यादौ ह्यस्वान्तो ड्वित्, ञिच्च। "भृ? भत्र्सने, भरणेऽपी"ति क्र्यादौ दीर्घान्तः। आभ्यामृहलोण्र्यदिति ण्यदेवेत्यर्थः। क्यप्तु भरतेरेवेति। "भृञ् भरणे" इति भ्वादौ ह्यस्वान्तो ञित्। अस्यैव "संज्ञायां समजनिषदे"त्त्र, "भृञोऽसंज्ञाया"मित्यत्र च भृञ्ग्रहणेन ग्रहणम्, नतु डुभृञौ जौहोत्यादिकस्य। न च क्रैयादिकस्य निरनुबन्धकस्य दीर्घान्तस्येति भावः। कुत इत्यत आह-- तदनुबन्धकेति। "तदनुबन्धकग्रहणे नातदनुबन्धकस्ये"ति परिभाषयेत्यर्थः। बिभर्तेः क्यबभावे बीजमिदम्। क्रैयादिकस्य दीर्घान्तत्वान्न क्यबिति बोध्यम्।