पूर्वम्: ३।१।११७
अनन्तरम्: ३।१।११९
 
सूत्रम्
प्रत्यपिभ्यां ग्रहेश्छन्दसि॥ ३।१।११८
काशिका-वृत्तिः
प्रत्यपिभ्यां ग्रहेश् छन्दसि ३।१।११८

प्रति अपि इत्येवं पूर्वाद् ग्रहेः क्यप् प्रत्ययो भवति छन्दसि विषये। मत्तस्य न प्रतिग्रृह्यम्। तस्मान् न अपिगृह्यम्। छन्दसि इति किम्? प्रतिग्राह्यम्। अपिग्राह्यम्।
न्यासः
प्रत्यपिभ्यां ग्रहेश्छन्दसि। , ३।१।११८

"प्रतिगृह्रम्" इति। "ग्रहिज्या" ६।१।१६ इत्यादिना संप्रसारणम्। "कुगतिप्रादयः" २।२।१८ इति समासः॥
बाल-मनोरमा
प्रत्यपिभ्यां ग्रहे ६८९, ३।१।११८

प्रत्यपिभ्यां ग्रहे। छन्दसीति। वार्तिकमिदम्। वृत्तिकृता तु सूत्रे प्रक्षिप्तम्। ननु छान्दसस्य किमर्थमिहोपन्यास इत्यत आह-- लोके त्विति।

तत्त्व-बोधिनी
प्रत्यपिभ्यां ग्रहेः ५७३, ३।१।११८

*छन्दसीति वक्तव्यम् वक्तव्यमिति। वृत्तिकृता तु सूत्रे प्रक्षिप्तम्। क्यप उदाहरणं तुछन्दस्येव। "मत्तस्य न प्रतिगृह्रं तस्मान्नाऽपिगृह्रम्"। लोके त्विति। ण्यदेवेति भावः।