पूर्वम्: ३।१।११९
अनन्तरम्: ३।१।१२१
 
सूत्रम्
विभाषा कृवृषोः॥ ३।१।१२०
काशिका-वृत्तिः
विभाषा कृवृषोः ३।१।१२०

कृञो वृषश्च विभाषा क्यप् प्रत्ययो भवति। करोतेर् ण्यति प्राप्ते वर्षतेः ऋदुपधत्वात् नित्ये क्यपि प्राप्ते विभाषार्भ्यते। कृत्यम्, कार्यम्। वृष्यम्, वर्ष्यम्।
न्यासः
विभाषा कृवृषोः। , ३।१।१२०

"वृषेश्च" इति। वृषु {प्लुषु दाहे-धातु पाठः-७०३} प्लुषु मृषु मेचने" (धा।पा।७०६,७०७)॥
बाल-मनोरमा
विभाषा कृवृषोः ६९१, ३।१।१२०

विभाषा कृवृषोः। पञ्चम्यर्थे षष्ठी। कृञ ऋदन्तत्वान्नित्यं ण्यति प्राप्ते, वृषेरृदुपधत्वान्नित्यं क्यपि प्राप्ते च क्यब्विकल्पोऽयम्। पक्षे इति। क्यबभावपक्षे विशेषो वक्ष्यते इत्यर्थः।