पूर्वम्: ३।१।१२
अनन्तरम्: ३।१।१४
 
सूत्रम्
लोहितादिडाज्भ्यः क्यष्॥ ३।१।१३
काशिका-वृत्तिः
लोहितादिडाज्भ्यः क्यष् ३।१।१३

लोहितादिभ्यो डाजन्तेभ्यश्च भवत्यर्थे क्यष् प्रत्ययो भवति। लोहितायति, लोहितयते। डाजन्तेभ्यः पटपटायति, पटपटायते। लोहितडाज्भ्यः क्यष् वचनम्, भृशादिष्वितराणि। यानि लोहितादिषु पठ्यन्ते तेभ्यः क्यङेव, अपरिपठितेभ्यस् तु क्यषेव भवति। वर्मायति, वर्मायते। निद्रयति, निद्रायते। करुणायति, करुणायते। कृपायति, कृपायते। आकृतिगणो ऽयम्। यथा च ककारः सामान्यग्रहणार्थो ऽनुबध्यते नः क्ये १।४।१५ इति। न हि पठितानां मध्ये नकारान्तः शब्दो ऽस्ति। कृभ्वस्तिभिरिव क्यषा ऽपि योगे डाज् भवति इत्येतदेव वचनम् ज्ञापकम्। अच्वेः इत्यनुवृत्तेरभूततद्भावे क्यष् विज्ञायते। लोहित। नील। हरित। पीत। मद्र। फेन। मन्द। लोहितादिः।
न्यासः
लोहितादिडाज्भ्यः क्यष्। , ३।१।१३

"लोहितयाते" इति। "वा क्यषः" १।३।९० इत्यात्मनेपदम्। "पटपटायते" इति। पटच्छब्दात् "अव्यक्तानुकरणात्" ५।४।५७ इति डाच्। "डाचि बहुलं द्वे" (वा।८८८) इति द्विर्वचनं डाचः प्रागेव भवति; डाचीत्यस्य हि विषयसप्तमीत्वात्। डाचि कृते टिलोपः। द्विर्वचने योऽच्छब्दस्तदवयवस्य तकारस्य "नित्यमाम्रेडिते डाचि" ६।१।९६ इति पररूपम्-- पकारः। "लोहितडाज्भ्यः क्यष्वचनम्" इत्यादि। लोहितादिसूत्रेण यदेतत् क्यषो विधानं तल्लोहितात्, डाजन्तेभ्यश्चेत्यर्थः। ननु चान्यान्यपि नीलादिशब्दरूपाणि लोहितादिषु पठ()न्ते, अतस्तेभ्योऽपि क्यषा भवितव्यमित्याह-- "भृषादिषु" इत्यादि। लोहितशब्दादितराणि यानि तानि भृशादिषु द्रष्टव्यानि। यस्त्विह तेषां पाठः, स प्रमादतः। अर्वाक्कालभावित्वादनार्ष इत्यभिप्रायः। यदि तर्हि भृशादिष्वितराणि पठ()न्ते, एवमादिशब्दस्यानर्थक्यम्, न हि किञ्चिदस्ति यत् तेनोपादीयेत? अत आह-- "यानि" इत्यादि। यानि प्रामादाल्लोहितादिषु पठ()न्ते तेषां भृशादिषु पाठो वेदितव्यः। न त्वपरिपठितानां वर्मादीनाम्। अतस्तेषामादिग्रहणेन ग्रहणे सति क्यषेव भवति। "वर्मायते" इति। "नलोपः प्रातिपदिकान्तस्य" ८।२।७ इति नलोपः, "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घः। निद्रादयोऽत्र शब्दाः पठ()न्ते, ते यद्यपि धरममात्रवचनास्तथापि क्यष्()वृत्तिविषये तद्वपि द्रव्ये वत्र्तन्ते; शब्दशक्तिस्वाभाव्यात्। "निद्रायते" इति। अनिद्रावान् निद्रावान् भवतीत्यर्थः। कथं पुनरपरिपठितानां लोहितादित्वं भवतीत्याह-- "आकृतिगणश्चायम्" इति। कथमेतज्ज्ञायत इत्याह-- "तथा च" इत्यादि। केयति सामान्यग्रहणार्थमित्याह-- "नः क्ये" इति। तत्रैतत् स्यात्। परिपठितानां मध्ये यो नकारान्तस्तस्य पदसंज्ञार्थः ककारोऽनुबध्यत इत्याह-- "न हि" इत्यादि। कथं पुनः क्यषा योगे डाज्भवति, यावता "कृभ्वस्तियोगे" इत्यनुवृत्तेः करोत्यादियोगे डाज् विधीयते, न क्यषा? इत्याह--- "{कृभ्वस्तिभिरेव" इति मुद्रितः पाठः}कृभ्वस्तिभिरिव" इत्यादि। यदेतत् डाजन्तेभ्यः क्यषो विधानमेतदेव ज्ञापयति-- यथा कृभ्वस्तिभिर्योगे डाज्भवति तथा क्यषापीति। अन्यथा डज्ग्रहणमनर्थकं यदि क्यषा योगे डाज् न स्यात्। ननु च यदा भवतियोगे डाज्भवति तदा तदन्तात् क्यष् भविष्यति, त्तकुत आनर्थक्यम्? नैतत्; न हीदानां क्यष् भवितुमर्हति, भुवो भवतिनैवोक्तार्थत्वात्। "अच्वेरित्यनुवृत्तेरभूततद्भावे क्यष्विज्ञायते" इति। मञिवयुक्तन्यायेनेति भावः। यथैव हि पूर्वसूत्रेऽच्वेरिति प्रतिषेधादमुना न्यायेनाभूततद्भावविषये क्यङ विधीयते, तथेहापि क्यषिति॥
बाल-मनोरमा
लोहितादिडाज्भ्यः क्यष् ४९३, ३।१।१३

लोहितादि। भवत्यर्थे इति। "भृशादिभ्यो भुवी"त्यतो भुवीत्यनुवृत्तेरिति भावः।