पूर्वम्: ३।१।१३४
अनन्तरम्: ३।१।१३६
 
सूत्रम्
इगुपधज्ञाप्रीकिरः कः॥ ३।१।१३५
काशिका-वृत्तिः
इगुपधज्ञाप्रीकिरः कः ३।१।१३५

इगुपधेभ्यः जानातेः प्रीणातेः किरतेश्च कप्रत्ययः भवति। विक्षिपः। विलिखः। बुधः। कृशः। जानाति इति ज्ञः। प्रीणाति इति प्रियः। किरति इति किरः। देवसेवमेषादयः पचादौ पठितव्याः।
लघु-सिद्धान्त-कौमुदी
इगुपधज्ञाप्रीकिरः कः ७९०, ३।१।१३५

एभ्यः कः स्यात्। बुधः। कृशः। ज्ञः। प्रियः। किरः॥
न्यासः
इगुपधज्ञाप्रीकिरः कः। , ३।१।१३५

"विक्षिपः" इति। कित्त्वाद्गुणाभावः। "ज्ञः" इति। "आतो लोप इटि च" ६।४।६४ इत्याकारलोपः। "प्रियः" इति। "प्रीञ् तर्पणे" (धा।पा।१८३६), इयङ। "किरः" इति। "कृ? विक्षेपे" (धा।पा।१४०९), "ऋत इद्धातोः" ७।१।१०० इतीत्त्वम्, रपरत्वम्। अथ कथं देवादयः सिध्यन्ति, यावता दिवादीनामिगुपधत्वात् के कृते दिवः, सिव इत्येवमादिना रूपेण भवितव्यम्?? अत आह-- "देवसेव" इत्यादि। आदिशब्दः प्रकारे॥
बाल-मनोरमा
ओरावश्यके ७०३, ३।१।१३५

ओरावश्यके। लाव्यं पाव्यमिति। "अचो ञ्णिती"ति वृद्धौ "वान्तो यी" त्यवादेशः।

बाल-मनोरमा
इगुपधज्ञाप्रीकिरः कः ७१४, ३।१।१३५

इगुपधज्ञा। "कृ? विक्षेपे" इत्यस्य इत्त्वे रपरत्वे च किरिति रेफान्तम्। इगुपध, ज्ञा, प्री, किर् एषां द्वन्द्वात्पञ्चमी। कित्त्वं गुणनिषेधार्थम्। ज्ञ इति। आतो लोपः। प्रिय इति। प्रीञ् के इयङ्। किर इति। कृ()धातोः कप्रत्यये इत्त्वे रपरत्वम्।

तत्त्व-बोधिनी
इगुपधज्ञाप्रीकिरः कः ५९५, ३।१।१३५

इगुपध। इक् उपधा यस्य सः। ज्ञा अवबोधने, प्रीञ् तर्पणे, कृ? विक्षेपे। एषामितरेतरयोगद्वन्द्वे व्यत्ययेन पञ्चम्येकवचने कशब्दस्य धात्वनुकरणत्वेन "प्रकृतिवदनुकरण"मित्यतिदेशात् "ॠत इद्धातो"रिति इत्वम्। समाहारद्वन्द्वे तु नपुंसकह्यस्वत्वे सति इत्वं न स्यात्। ज्ञ इति। जानातीति ज्ञः। "आतो लोप इटि चे"त्यालोपः।