पूर्वम्: ३।१।१४४
अनन्तरम्: ३।१।१४६
 
सूत्रम्
शिल्पिनि ष्वुन्॥ ३।१।१४५
काशिका-वृत्तिः
शिल्पिनि ष्वुन् ३।१।१४५

धातोः ष्वुन् प्रत्ययो भवति शिल्पिनि कर्तरि। नृतिखनिरञ्जिभ्यः परिगणनं कर्तव्यम्। नर्तकः। खनकः। रजकः। नर्तकी। खनकी। रजकी। रञ्जेरनुनासिकलोपश्च।
न्यासः
शिल्पिनि ष्वुन्। , ३।१।१४५

"शिल्पिनि कत्र्तरि" इति। पूर्ववदुपाधित्वं दर्शयन्नुपपदत्वमपाकरोति। एतच्च रजकस्य वस्त्रं ददातीति भाष्यकारप्रयोगाल्लभ्यते। "नृतिखनिरञ्जिभ्यः परिगणनम्" इति। एतच्च विभाषेत्यनुवृत्तेव्र्यवस्थितविभाषात्वाल्लभ्यते। "रञ्जेरनुनासिकलोपश्च" इति। एषोऽपि तत एव भाष्यकारप्रयोगाल्लभ्यते। किञ्च "जनीजृ()ष्()क्नसुरञ्जोऽमन्ताश्च" (धा।पा।८१९ तः पश्चात्) इति यद् रञ्जेर्मित्त्वं शास्ति, तज्ज्ञापयति-- अक्ङित्यपि रञ्जेरनुनासिकलोपो भवतीति। मित्त्वस्य ह्रेतदेव प्रयोजनम्- "मितां ह्यस्वः" ६।४।९२ इति ह्यस्वत्वं यथा स्यात्, न चासत्यस्मिन्ननुसाकिलोपे वृद्धिरस्ति। न चासत्यां वृद्धौ ह्यस्वभाविन्युपधा भवति। तेन णौ रञ्जेर्यथानुनासिकलोपो भवति, तथा ष्वुनि च। परिगणनात् ह्वाता, ह्वायक इत्यत्र न भवति। ष्वुनो नित्करणमाद्युदात्तार्थम्, षकारो ङीषर्थः॥
बाल-मनोरमा
शिल्पिनि ष्वुन् ७२४, ३।१।१४५

शिल्पिनि ष्वुन्। नृतिखनिरञ्जिभ्य एवेति। वार्तिकमिदम्। नर्तकीति। षित्त्वान्ङीषिति भावः। "दंशसञ्जस्वञ्जां शपी"ति सूत्रे "रजकरजनरजः सूपसङ्ख्यान"मिति वार्तिकम्। तदर्थतः सङ्गृह्णाति-- असि अके अने चेति। रजक इति। रञ्जेः शिल्पिनि ष्वुनि अकादेशे नलोपः। रजकीति। षित्त्वान्ङीष्। "नृतिखनिरञ्जिभ्य एवे"ति परिगणनात् "वेञ् तन्तुसन्ताने " इत्यस्मात् कृतात्त्वात् "श्याद्व्यधे"ति णप्रत्यये आतो युकि "वाय"इति सिध्यति। भाष्यमते तु नृतिखनिभ्यामेवेति। इदं च "दंशसञ्जस्वञ्जां शपीटति सूत्रे भाष्ये स्पष्टम्। ननु भाष्यमते क्वुनि "रजकी"ति कथमित्यत आह-- पुंयोगे तु रजकीति।

तत्त्व-बोधिनी
शिल्पिनि ष्वुन् ६०४, ३।१।१४५

शिल्पिनि ष्वुन्। पूर्वेण साहचर्याच्छिल्पिनीत्यपि प्रत्ययार्थस्य विशेषणं न तूपपदमित्याह-- तद्वति कर्तरीति। भाष्यमते त्विति। तथा च षष्ठे "रजकरजनरजः सूपसङ्ख्यान"मिति वार्तिकं प्रत्याख्यातुं भाष्यकृतोक्तकम्--"रजकरजनरजःसु कित्त्वात्सिद्धं। कित एवैते औणादिका" इति। तत्र कैयट आह-- "रजक इति। "क्वुन् शिल्पी"ति क्वुन्। रजनमिति। "रञ्जेः क्यु"न्निति क्युन्। रज इति। "भूरञ्जिभ्यां कि" दित्यसन् प्रत्यय" इत्ादि।