पूर्वम्: ३।१।१४९
अनन्तरम्: ३।२।१
 
सूत्रम्
आशिषि च॥ ३।१।१५०
काशिका-वृत्तिः
आशिषि च ३।१।१५०

आशिषि गम्यमानायां धातुम् आत्रात् वुन् प्रत्ययो भवति। जीवतात् जीवकः। नन्दतात् नन्दकः। आशीः प्रार्थनाविशेषः। स च इह क्रियाविषयः। अमुष्याः क्रियायः कर्ता भवेतित्येवम् आशास्यते। इति श्रीज्यादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य प्रथमः पादः। तृतीयाध्यायस्य द्वितीयः पादः।
न्यासः
आशिषि च। , ३।१।१५०

"आशिषि गम्यमानायाम्" इति। न वाच्यायाम्। "कत्र्तरि कृत्" ३।४।६७ इति कर्त्तुरेव प्रत्ययान्तवाच्यत्वात्। "धातुमात्रात्" इति। धातुसामान्यविवक्षितत्वात्, प्रुसृल्वाञ्च निवर्तितत्वात्। अन्यस्य चेह धातुविशेषस्यानाश्रयणात्। धातुमात्राश्रयो भवति, न तु कुतश्चिदेव विशेषात्। "जीवतात्, नन्दतात्" इति। आशिषि लोट्()प्रयोगेण जीवकनन्दयोस्तत्समानार्थतां दर्शयति। का पुनरियमाशीर्नामेत्याह-- "आशीः प्रार्थनाविशेषः" इति। अप्राप्तस्याभीष्टस्य वस्तुनः प्रार्थना = आशीः। "सा चेह क्रियाविषया"इति। क्रिया विषयोऽस्या इति बहुव्रीहिः। एष चार्थो धातुग्रहणात्, धातोश्च क्रियावाचित्वाद्विज्ञायते। "अमुष्याः क्रियायाः" इति। जीवनक्रियाया नन्दनक्रियायाश्च कत्र्ता भवेदित्येवमाशास्यते-- जीवनं नन्दनञ्च ते भूयादिति॥ इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां तृतीयस्याध्यायस्य प्रथमः पादः -------------------- अथ तृतीयाध्यायस्य द्वितीयः पादः
बाल-मनोरमा
आशिषि च ७२९, ३।१।१५०

आशिषि च। जीवक इत। आशास्यमानजीवनक्रियाश्रय इत्यर्थः। एवं नन्दकः। आशीरिति। आशासनम् = अयमित्थं भूयादिति प्रार्थनं, शब्दप्रयोक्तृकर्तृकमिति यावत्। तत आशासितुः पित्रादेरियमुक्तिः। इयं = नन्दकशब्दप्रयोगः। औचित्यादिति भावः। [इति तृतीयाध्यायस्य प्रथमः पादः]। अथ तृतीयाध्यायस्य द्वितीयः पादः।

तत्त्व-बोधिनी
आशिषि च ६०९, ३।१।१५०

आशिषि च। अप्राप्तप्रार्थनमाशीः। सा च प्रयोक्तृधर्मो न प्रत्ययार्थः, "कर्तरि कृ"दिति कत्र्रर्थे विधानादित्याशयेनाह-- आशीर्विषयार्थेत्यादिना। जीवतादिति। जीवनं तव भूयादित्यर्थः। जीवक इति। स्त्रियां तु टापि "आशिषि वुनश्च ने"ति निषेधात् "प्रत्ययस्था"दिति इत्त्वाऽभावः। जीवका। कर्मण्यण्। उपपदसमास इति। "तत्रोपपदम"मिति कर्मादिवाच्यकुम्भादिवाचकपदस्योपपदसंज्ञायाम् "उपपद[मति" ङिति] समास इत्यर्थः। कुम्भकार इति। अणि कृते "कर्तृकर्मणोः कृतिर" इति षष्ठ()न्तस्य कुम्भशब्दस्य कारशब्देन समासः।

*ईक्षिक्षमिभ्यां च। शेषत्वविवक्षायामिति। पदसंस्कारपक्षे तु धरतीति धरः, गङ्गाया धर इति कर्मणि या षष्ठी तदन्तेन समास इति सुवचम्। स्यादेतत्-- धातोर्विधीयमानस्याऽणादेः पदविधित्वाऽभावेन समर्थपरिभाषाया अनुपस्थानात्पश्यति कुम्भं, करोति कटमित्यादावसमर्थादपि धातोरणादयः स्युरिति चेत्। अत्राहुः-- कुम्भाद्युपपदे विधीयमानस्याऽणादेरपि पदाश्रितारविधित्वात्समर्थपरिभाषोपस्थानान्नोक्तदोषः। उपोच्चारितं पपदं ह्रुपपदं, पदं च सुप्तिङन्तमिति प्रागेवोक्तत्वादिति।