पूर्वम्: ३।१।१८
अनन्तरम्: ३।१।२०
 
सूत्रम्
नमोवरिवश्चित्रङः क्यच्॥ ३।१।१९
काशिका-वृत्तिः
नमोवरिवश्चित्रङः क्यच् ३।१।१९

करणे इति वर्तते। नमस् वरिवस् चित्रङित्येतेभ्यो वा क्यच् प्रत्ययो भवति, करणविशेषे पूजादौ। नमसः पूजायाम् नमस्यति देवान्। वरिवसः परिचर्यायाम् वरिवस्यति गुरून्। चित्रङ आश्चर्ये चित्रीयते। ङकार आत्मनेपदार्थः।
न्यासः
नमोवरिवश्चित्रङः क्यच्। , ३।१।१९

"करणविशेषे पूजाद्वौ" इति। आदिशब्देन परिचर्याश्चर्ययोग्र्रहणम्। "नमसः" इत्यादिनाऽनन्तरस्योक्तार्थस्य विषयविभागं दर्शयति। एष चार्थो यद्यपि करण इति करणसामान्यमनुवत्र्तते, तथाप्यभिधानशक्तिस्वाभाव्यल्लभ्यते विनापि वचनेन, यथा--- पचादीनां विक्लेदादिषु वृत्तिः, बहुव्रीहेश्च मत्वर्थे। "नमस्यति देवान्" इति। ननु च नमस्यतिशब्दे नमःशब्दोऽस्ति, अतस्तद्योगे "नमः स्वस्ति" (२।३।१६) इत्यादिना चतुथ्र्या भवितव्यम्? नैतदस्ति; "अर्थवद्ग्रहणे नानर्थकस्य" (व्या।प।१) इत्यर्थवतो नमःशब्दस्य कर्त्तुमशक्यत्वात्। अथ वा-- "उपपदविभक्तेः कारकविभक्तिर्बलीयसी" (चां।प।६९) इति द्वितीयैव भवति। उपपदसम्बन्धनिरपेक्षत्वात् कारकविभक्तेर्बलीयस्त्वम्। उपपदविभक्तेस्तु पदान्तरसापेक्षत्वाद्दुर्बलत्वम्। "नमस्यति" इति। नमस्कारं करोतीत्यर्थः। "वरिवस्यति"। परिचरीत्यर्थः। "चित्रीयते" इति। विस्मापयत इत्यर्थः॥
बाल-मनोरमा
नमोवरिवश्चित्रङः क्यच् ५००, ३।१।१९

नमोवरिवस्। नमस्, वरिवस्, चित्रङ् एषां समाहारद्वन्द्वात्पञ्चमी। आत्मनेपदार्थं चित्रशब्दो ङिन्निर्दिष्टः। "शब्दवैरे"त्यतः करणे इत्यनुवर्तते। करणं - क्रिया। सा च पूजापरिचर्याऽ‌ऽश्चर्यात्मिका विवक्षिता, "नमसः पूजायां"वरिवसः कारकविभक्तेर्बलीयस्त्वाद्द्वितीया। परिचर्या शुश्रूषेति मत्वाह-- शुश्रूषते इत्यर्थ इति। आश्चर्यशब्दो विस्मयवाचीति मत्वाह- विस्मयते इत्यर्थ इति। विस्मापयते इत्यन्ये इति। आश्चर्यशब्दो विस्मापनपर इति भावः। "ततश्चित्रीयमाणोऽसा"विति भट्टिः। असौ-- मायामृगो विस्मयमुत्पादयन्नित्यर्थः।

तत्त्व-बोधिनी
नमोवरिवश्चिवङः क्यच् ४२८, ३।१।१९

नमोवरिवः। चित्रङः क्य्जविधानामीत्वार्थं, ङित्करणं तु तङर्थम्। विस्मापयत इत्यन्य इति। तथा च भट्टिः-- "ततश्चित्रीयमाणोऽसौ" इति। असौ = मायामृगश्चित्रीयमाणो = विस्मयमुत्पादयन्नित्यर्थः।