पूर्वम्: ३।१।२०
अनन्तरम्: ३।१।२२
 
सूत्रम्
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्॥ ३।१।२१
काशिका-वृत्तिः
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् ३।१।२१

मुण्ड मिश्र श्लक्ष्ण लवण व्रत वस्त्र हल कल कृत तूस्त इत्येतेभ्यः करणे णिच् प्रत्ययो भवति। मुण्डं करोति मुण्डयति। मिश्रयति। श्लक्ष्णयति। लवणयति। व्रतात् भोजने तन्निवृत्तौ च पयो व्रतयति। वृषलान्नं व्रतयति। वस्त्रात् समाच्छादने संवस्त्रयति। हलिं गृह्णाति हलयति। कलिं गृह्णाति कलयति। हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्यम्। अजहलत्। अचकलत्। कृतं गृह्णाति कृतयति। तूस्तानि विहन्ति वितूस्तयति केशान्। विशदीकरोति इत्यर्थः।
न्यासः
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्। , ३।१।२१

"प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च" (धा।पा।ग।सू।१८६) इत्यनेन मुण्डादिभ्यः सिद्धो णिच्। अयञ्च तस्यैव प्रपञ्चः। यद्यपि तस्य तत्करोतीत्यादिः प्रपञ्च उक्तः, तथापीह मन्दबुद्धीनामनुग्रहाय पुनरुच्यते। "तन्निवृत्तौ वा" इति। भोजननिवृत्तौ। "पयो व्रतयति" इत। पयो भुङ्क्त इत्यर्थः। "वृषलान्नं व्रतयति" इति वृवलान्नं न भुङ्क्त इत्यर्थः। "हलिं गृह्णाति हलयति, कलिं गृह्णाति कलयति" इति। ननु चेह हलकलशब्दयोः एतेनैतद्दर्शयति-- सूत्रेऽपि हलिकल्योरेव ग्रहणम्, तयोस्त्वत्त्वनिपातनं कृतम्, "सन्वल्लघुनि" ७।४।९३ इत्यादिना सन्वद्भावो मा भूदिति। अतो युक्तं हलिकल्योग्र्रहणम्। तथा हि-- नात्र णिज् दुर्लभः, गणसुत्रेणैव सिद्धत्वात्। केवलं प्रपञ्चार्थमिदमुच्यते। स च प्रपञ्चो हलिकल्योरपि ग्रहण उपपद्यत एव। अयन्तु विशेषः-- अकारान्तयोग्र्रहणे सतीकारान्ताभ्यामपि गणसूत्रेणैव णिच् प्राप्नोति, तत्र कृते सतीष्ठवद्भावेन टिलोपः प्राप्नोति, "अचो ञ्णिति" ७।२।११५ इति वृद्धिश्च,उभयोरपि तयोरनित्यत्वम्। तथा हि, टिलोपस्य सत्यपि कृताकृतप्रसङ्गित्वे शब्दान्तरप्राप्त्याऽनित्यत्वम्। तथा हि, कृतायां वृद्धावैकारस्य प्राप्नोति, अकृताय#आन्त्विकारस्य; वृद्धेस्तु टिलोपे सत्यप्राप्त्याऽनित्यम्। अप्राप्तिस्त्वनजन्तत्वात्। उभयोरनित्ययोः परत्वाद्()वृद्धिः, तस्यां कृतायां टिलोपः, तत्राप्यग्लोप्यङ्गं न भवति। तथा च सति "सन्वल्लघुनि" ७।४।९३ इति सन्वद्भावेऽभ्यासस्येत्वे "दीर्घो लघोः" ७।१।९४ इति दीर्घत्वे च अचीकलत्, अजीहलदित्यनिष्टं रूपं प्रसज्येत। हलिकलिशब्दयोस्तु कृतात्त्वयोग्र्रहणे सति यद्यपि परत्वाद्()वृद्धिर्भवति, तथापि सत्यामपि तस्यामगेव लुप्यत इत्यग्लोप्यङ्गं भवति। ततश्च सन्वद्भावात् अचकलत्, अजहलदितीष्टं रूपं सिध्यति। तत्र ययोग्र्रहणे सतीष्टं सिध्यति तयोरेव ग्रहणम्, न तु ययोग्र्रहणेऽनिष्टं प्राप्नोति। नह्रनिष्टार्था शास्त्रे प्रक्लृप्तिर्युक्ता॥
बाल-मनोरमा
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् ४०२, ३।१।२१

मुण्डमिश्र। कृञर्थे इति। शेषपूरणमिदम्, "शब्दवैरे"त्तः करणे इत्यनुवृत्तेरिति भावः। व्रताद्भोजनेति वार्तिकम्। पयः शूद्रान्नं वा व्रतयतीति। पयो भुङ्क्ते, शूद्रान्नं वर्जयतीत्यर्थः। वरुआआत्समाच्छादने -- इत्यपि वार्तिकम्। भाष्ये तु न दृश्यते। संवरुआयतीति। वरुओण सम्यगाच्छादयतीत्यर्थः॥ वरुआं परिधत्ते इति वा। हल्यादिभ्यो घणे-- इति वार्तिकम्। भाष्ये तु न दृश्यते। हलिकल्योरिति। हलिकली इदन्तौ। हलकलशब्दावदन्तौ, अकारे इष्ठवत्त्वेन टेर्लोपे हलि कलि इति ण्यन्ताब्यां लडादीति भावः। महद्धलं हलिरिति। अत्र वृद्धप्रयोगोऽन्वेषणीयः। अचकलदित्यत्र सन्वत्त्वाऽप्रवृत्तये अग्लोपित्वाय तयोरदन्तत्वमिति वाच्यम्, इकारलोपेऽप्यग्लोपित्वसिद्धेरित्यत आह-- परत्वादिति। इकारस्य णौ इष्ठवत्त्वे टिलोपात्प्रागेव परत्वात् "अचो ञ्णिती"ति वृद्धौ कृतायामैकारस्य इष्ठवत्त्वाट्टिलोपेऽग्लोपित्वं न स्यात्। इकारयोरत्त्वे तु अकारस्य टिलोपात् प्राक् परत्वाद्वृद्धौ सत्यामप्याकार एव इष्ठवत्त्वाल्लुप्यते इत्यर्थः। अत इति। अग्लोपित्वात्सन्वत्त्वम्, "दीर्घो लघो"रिति दीर्घश्च नेत्यर्थः। कृतं गृह्णातीति। उपकारं स्वीकरोतीत्यर्थः। पठितुं य#उक्ता इति। लाघवादेकसूत्रत्वं युक्तमित्यर्थः। केषांचिदिति। मुण्डादीनामित्यर्थः। सापेक्षेभ्योऽपीति। अन्यथा णिजन्तस्याऽस्य सनाद्यन्तवृत्तित्वाद्विशेषणसापेक्षत्वे मुण्डादिभ्यो णिज्न भवेत्, सविशेषमानां वृत्तिनिषेधात्। इह मुण्डादीनां पुनग्र्रहणे तु तत्सामथ्र्यात् सापेक्षेभ्योऽपि मुण्डादिभ्यो णिच् सिध्यतीत्यर्थः। स्पष्टं चेदं "सुप आत्मनः" इत्यत्र भाष्यकैयटयोः। मुण्डयति माणवकमिति। अत्र माणवकं मुण्डं करोतीत्यर्थ मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिच् सिध्यति। अन्यथा यदा प्रकरणादिना माणवकादिविशेषो ज्ञायते तदैव मुण्डयतीति णिच् स्यादिति भावः। "सुप आत्मनः" इत्यत्र भाष्यकैयटयोः। मुण्()डयति माणवकमिति। अत्र माणवकं मुण्डं करोतीत्यर्थे मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिच् सिध्यति। अन्यथा यदा प्रकरणादिना माणवकादिविशेषो ज्ञायते तदैव मुण्डयतीति णिच् स्यादिति भावः। "सुप आत्मनः इति सूत्रभाष्ये तु "मुण्डयति माणवक"मित्यत्र गमकत्वाण्णिच्, "महान्तं पुत्रमिच्छती"त्यादौ त्वगमकत्वान्न क्यजित्युक्तम्। तदा प्रपञ्चार्थमेव मुण्डादिग्रहणमिति शब्देन्दुशेखरे स्थितम्। श्लक्ष्णयति वरुआमिति। निर्मलं करोतीत्यर्थः। लवणयति व्यञ्जनमिति। लवणयुक्तं करोतीत्यर्थः। हलिकल्योरिति। एवं च ताभ्यां सापेक्षभ्यां न णिच्, तद्ग्रहणस्य अदन्तत्वनिपातनेन चरितार्थत्वादिति भावः। ननु सत्यशब्दा"त्तत्करोती" त्यादिनैव णिच् सिद्धेः "सत्यापे"ति सूत्रे सत्यग्रहणं व्यर्थमित्यत आह- सत्यस्यापुगर्थमिति। केषांचिदिति। पाशादीनामित्यर्थः। सत्यापयतीति। आपुग्विधिसामथ्र्यान्न टिलोपः। पाशं विमुञ्चतीत्यादौ "प्रातिपदिकाद्धात्वर्थे" इति णिच्। अभिषिषेमयिषतीति। अभिषेणि इति ण्यन्तात्सनि रूपम्। ननु त्वचं गृह्णाति त्वचयतीति कथम्?। त्वच्छब्दाच्चकाराण्णिचि टिलोपे त्वयतीत्यापत्तेरित्यत आह-- त्वचेति। "त्वच संवरणे" इत्यस्मात् "पुंसि संज्ञायां घः प्रायेणे"ति घप्रत्ययय इत्यर्थः। पुंवद्भावादय इति।आदिना रभावटिलोपादिग्रहणम्। एतयतीति। "भस्याऽढे" इति पुंवत्त्वस्य इष्ठनि प्रवृत्तेर्णावपि तस्याऽतिदेशात् "वर्णादनुदात्तादिति स्त्रीप्रत्ययस्य, तत्संनियोगशिष्टनत्वस्याऽपि निवृत्तौ एतयतीति सिध्यतीत्यस्वरसात्पुंवद्भावे उदाहरणान्तरमाह--- दरदमिति। दरदिति कश्चिद्राजा, तस्यापत्यं दारदः। "द्व्यञ्()मगधे"त्यण्। स्त्र्यपत्ये तु दरदोऽपत्यं स्त्री दरत्। "अतश्चे"त्यणो लुक्। तामाचष्टे इत्यर्थे दरच्छब्दाण्णौ इष्टवत्त्वात्?पुंवत्त्वेन स्त्रियामित्यनुवृत्तौ "अतश्चे"ति स्त्रियां विहितस्य अण्प्रत्ययलुको निवृत्तौ दारदशब्दे टेर्लोपे दादयतीति रूपं सिध्यति। पुंवद्भावाऽभावे तु दरच्छब्दस्य टिलोपे सति दरयतीति स्यादिति भावः। टिलोपस्य अजादेशत्वेन स्थानिवत्त्वान्नोपधावृद्धि। "पृथुं मृदुं भृशं चैव, कृशं च दृढमेव च। परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत्"। इति। क्रमेणोदाहरति--पृथुमिति। "आचष्टे" इति शेषः। प्रथयति। तत्र प्रक्रियां दर्शयति-- वृद्धौ सत्यामिति। पृथु इ इति स्थिते परत्वाद्वृद्धौ कृतायां टिलोपः। अथवा कृतायामकृतायां च वृद्धौ प्रवृत्त्या नित्यत्वाद्वृद्धेः प्राक्()टिलोपः। उभयथापि "र ऋतः इति रभावे प्रथयतीति रूपमिति भावः। वस्तुतस्त्वकृतायां वृद्धौ उकारस्य लोपः, कृतायां तु औकारस्य लोपः। तथा च "शब्दान्तरस्य प्राप्नुवन् विधिरनित्यः" इति टिलोपोऽनित्यः। ततश्च परत्वाट्टिलोपात् प्राग्वृद्धिरेवेति "मुण्डमिश्रे"ति सूत्रे भाष्ये स्थितम्। "वृद्धौ सत्यां पूर्वं वा टिलोप" इति मूलं तु कृताऽकृतप्रसङ्गित्वाट्टिलोपस्य नित्यत्वमभिप्रेत्येति बोध्यम्। अपिप्रथदिति। वृद्धौ सत्यां टिलोप#ए अग्लोपित्वाऽभावात् सन्वत्त्वे "सन्यतः" इति इत्त्वमिति भावः। अपप्रथदिति। वृद्धेः पूर्वं टिलोपेन उकारस्य निवृत्तावग्लोपित्वात्सन्वत्त्वान्वत्त्वाऽभावे रूपम्। अबभ्रशदित्यादौ वृद्धेः पूर्वं पश्चाद्वा टिलोपेऽपि अग्लोपित्वान्न सन्वत्त्वमिति भावः। औजिढदिति। वहधातोः क्तिनि ढत्वधत्वष्टुत्वढलोपेषु ऊढिः। तस्माण्णौ टिलोपे ऊढि इतिण्यन्ताल्लुहि चङि आटि वृद्धौ औढि अ त् इति स्थिते प्रक्रियां दर्शयति- ढत्वादीनामिति। ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वात् "अजादेर्द्वितीयस्ये"ति ह्()तशब्दस्य द्वित्वमित्यर्थः। इत्युक्तमिति। "लुग्विकरणप्रक्रियायां ऊर्णुञ्धाता"विति शेषः। एवं च ह्? तिशब्दस्य द्वित्वे हलादिशेषे "कुहोश्चु"रिति हस्य चुत्वमिति भावः। ढिशब्दस्येति। "पूर्वत्रासिद्धीयमद्वित्वे" इत्स्य क्वचिदनित्यत्वेऽप्यत्र तदप्रवृत्तौ मानाऽभावादिति भावः। ऊढमाख्यदिति। वहधातोः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपेषु ऊढशब्दाण्ण्यन्ताल्लुङि चङि ढत्वादीनामसिद्धत्वात् "ह्? ते"त्यस्य द्वित्वे हलादिशेषे अभ्यासस्य चुत्वे रूपम्। औडढदिति। "पूर्वत्रासिद्धीयमद्वित्वे" इति ढत्वादीनामसिद्धत्वाऽभावपक्षे ढशब्दस्य द्वित्वे रूपम्। नन्विह परत्वाट्टिलोपे सति णिच्सहितस्य ह्? तीति ढीत्यस्य वा द्वित्वे कृते अभ्यासे इकार एव श्रूयेत नत्वकार इत्यत आह-- ओः पुयणित्यादि। स्वशब्दाण्णिचि टिलोपमाशङ्क्याह-- प्रकृत्यैकाजिति। प्रकृतिभावाट्टिलोपाऽभावे अकारस्य वृद्धौ आकारे पुगागमः। तदाह-- वृद्धिपुकाविति। त्वापयति मापयतीत्यत्र प्रक्रियां दर्शयति-- मपर्यन्तस्येति। युष्मदस्मद्भ्यां णौ "प्रत्ययोत्तरपदयोश्चे"ति मपर्यन्तसय् त्वमौ। त्व अद् इ, म अद् इ, इति स्थिते आह-- पररूपादिति। कृते अकृते च पररूपे टिलोपस्य प्रवृत्तेर्नित्यत्वं बोध्यम्। त्व इ म इ इति स्तिते आह-- वृद्धिरिति। अकारस्य आकारः। टिलोपस्य स्थानिवत्तवं तु न शङ्क्यम्, अजादेशत्वाऽभावात्। पुगिति। "अर्ती"त्यनेनेति भावः। तदेवं प्राचीनमतमुपन्यस्यस्वमतमाह-- त्वादयतीत्यादिना। तदेवोपपादयति --अन्तरङ्गत्वादिति। त्व अद् इ, म अद् इ, इति स्थिते नित्यमपि टिलोपं बाधित्वा अन्तरङ्गत्वात्पररूपे कृते "प्रकृत्यैका"जिति प्रकृतिभावे टिलोपस्याऽप्रवृत्तौ उपधावृद्धिरिति भावः। ननु इष्ठेमेयस्सु किमुदाहरणमिति प्रश्ने प्रेयान् प्रेमा प्रेष्ट इत्युदाहरणानि प्रदश्र्य, "नैतदस्ति प्रयोजनं "प्रस्थस्फे"ति विहित प्रादीनामाभीयत्वेनाऽसिद्धतया तत्र टिलोपाऽप्रसक्ते" रित्युक्त्वा, श्रेयान् श्रेष्ठ इत्यत्र "प्रशस्यस्य श्रः" इति श्रादेशस्य पाञ्चमिकतया आभीयत्वाभावेनाऽसिद्धत्वाऽभावाट्टिलोपे प्राप्ते प्रकृतिभावविधि "रित्युदाहरणान्तरं प्रदश्र्य" "श्रादेशे अकारोच्चारणसामथ्र्याट्टिलोपो न भविष्यती"त्युक्त्वा, रुआग्वितमः रुआजिष्ठ इत्यत्र "विन्मतोर्लु"गिति लुकि टिलोपनिवृत्त्यर्थं प्रकृतिभावविधानमित्युक्त्वा, प्राप्त एव टिलोपे आरभ्यमाणस्य लुकस्तदपवादतया लुका टिलोपस्य बाधो भविष्यती"ति "प्रकृत्यैका" जित्यसय् भाष्ये प्रत्याख्यातत्वात्त्वादयति मादयतीत्यत्र प्रकृतिभावोपन्यासो न युज्यते इत्याशङ्क्य निराकरोति -- न चेत्यादि। कुत इत्यत आह-- भाष्यस्येति। उदाह्मतभाष्यस्य हि प्रेयान् प्रेष्ठ इत्यादीनां प्रकृतिभावं विनाऽपि साधने तात्पर्यं, न तु प्रकृततिभावप्रत्याख्यानमभिमतम्, स्वमाचष्टे स्वपायतीत्यादौ तदावश्यकत्वात्। अत एव "प्रकृत्यैकाजिष्ठेमेयस्सु चेन्नैकाच उच्चारणसामथ्र्यादवचनात्पर्कृतिभावः" इति वार्तिकव्याख्यावसरे "अन्तरेणापि वचनं प्रकृतिभावो भविष्यती"ति भाष्ये उक्तम्। अन्यथा "अन्तरेणैव वचन" मित्युच्येतेत्यास्तां तावत्। "प्रत्ययोत्तरपदयोश्चे"त्यत्र "एकवचने" इत्यनुवृत्तम्। तच्च यौगिकमाश्रीयते। तेन एकत्वविशिष्टवाचिनोर्युष्मदस्मदोरिति लभ्यते इति मत्वाऽ‌ऽह युवामावां वेति। न च द्वयोरुक्तौ युवावादेशौ शङ्क्यौ, विभक्तेर्लुका लुप्तत्वात्। न च लुकः प्रागेव युवावौ किं न स्यातामिति वाच्यम्। "अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते" इत्युक्तेरिति भावः। शावयतीति। ()आआनमाचष्टे इत्यर्थः। ()आन्शब्दाण्णौ ()आन् इ इति स्थिते आह-- नस्तद्धिते इति। "प्रकृत्यैका"जिति प्रकृतिभावमाशङ्क्याह-- प्रकृतिभावस्तु नेति। कुत इत्यत आह-- येनेति। "टे"रिति टिलोपे प्राप्ते सत्येव "प्रकृत्यैका"जित्यारभ्यते, "नस्तद्धिते" इत्यस्य रुआजिष्ठ इत्यादावप्राप्तावपि प्रकृतिभाव आरभ्यते इति भावः। भत्वादिति। इष्ठवत्त्वेन भत्वात् "()आयुवे"त संप्रसारणमित्यर्थः। तथा च ()आन् इ इति स्थिते टिलोपे सति तस्याभीयत्वेनाऽसिद्धत्वादन्नन्तत्वाद्वस्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धावावादेशः। अन्येत्विति। इष्ठनि दृष्टस्यैव इष्ठवदित्यतिदेशः। टेरित्येव टिलोप इष्ठनि दृष्टो, न तु" "नस्तद्धिते" इति। अतो नाऽस्यातिदेश इत्यर्थः। नन्वतिशयेन ब्राहृआ ब्राहिऋष्ठ इत्यत्र नस्तद्धिते इति टिलोपो दृष्ट इत्यत आह-- ब्राहिऋष्ठ इत्यादाविति। तेनेति। "नस्तद्धिते" इत्यस्याऽप्रवर्तनेनेत्यर्थः। ततश्च प्रकृतिभावात् "टेः" इति लोपस्याऽभावे संप्रसारणे शुनयतीति रूपमित्यर्थः। आहुरित्यस्वरसोद्भावनम्। तद्बीजं तु ब्राहृवच्छब्दादिष्ठानि टेरिति टिलोपापवादे "विन्मतोर्लु"गिति मतुपो लुकि "नस्तद्धिते" इति टिलोपो दृष्ट एव। ततश्च "इष्ठनि तस्याऽदृष्टत्वा" दित्यत्युक्तम्। किं च "ब्राहिऋष्ठ इत्यादौ परत्वाट्टेरित्यस्य प्रवृत्ति"रित्ययुक्तम्, केवलस्य ब्राहृन्शब्दस् वेदादिवचनस्य गुणवचनत्वाऽभावेन इष्ठनो दुर्लभत्वात्, "अजादी गुणवचनादेवे"त्युक्तेः। मत्वन्तादिष्ठनि तु मतोर्लुकि तेन "टे"रित्यस्य प्रवृत्तिबाधेन लुगुत्तरं तदप्रवृत्त्या परत्वादित्यप्यसङ्गतिरिति शब्देन्दुशेखरे स्थितम्। विद्वयतीति। विद्वस् शब्दाण्णौ टिलोपः। ननु इष्ठवत्त्वाद्भत्वे "वसोः संप्रसारण्मित्याशङ्क्याह-- अङ्गवृत्तेति। "अङ्गवृत्ते पुनर्वृत्तावविधि"रिति परिभाषयेत्यर्थः। अङ्गकार्ये कृते पुनर्नाङ्गकार्यमिति तदर्थः। वस्तुतस्तु विद्वयतीत्यत्र "टे"रित्यसो लोपे वस्वन्तत्वाऽभावात्संप्रसारणाऽप्रसक्तेरङ्गवृत्तपरिभाषोपन्यासो वृथेत्यस्वरसं सूचयति-- इत्येके इति। संप्रासरणे इति। विद्वच्छब्दाम्णौ इष्ठवत्त्वेन टिलोपे कृते वकारस्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धौ आवादेशे विदावयतीत्यन्ये मन्य्नते इत्यर्थः। अत्रापि पूर्ववदेवाऽस्वरसः, टिलोपे सति वस्वन्तत्वाऽभावात्। नित्यत्वादिति। टिलोपे कृते अकृते च प्रवृत्तेः संप्रसारणं नित्यम्। टिलोपस्तु कृते संप्रसारणे पूर्वरूपे च कृते उसो भवति, अकृते तु अस इत्यनित्यः, "शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः" इति न्यायादिति भावः। ननु कृतेऽपि संप्रासरणे पररूपात्प्राक् अस एव टिलोप इति तस्यनित्यत्वमित्यत आह-- अन्तरङ्गत्वात्पूर्वरूपं टिलोप इति। संप्रसारणे पूर्वरूपे च कृते उसो लोपेऽपि वस्वन्तत्वस्य विनङ्क्ष्यत्त्वान्न संप्रसाणमित्यस्वरसं सूचयति-- इत्यपरे इति। एवं च विद्वयतीति प्रथमपक्ष एव स्थितः। तत्राङ्गवृत्तपिरभाषोपन्यास एव वृथेति स्थितम्। उदीचयतीति। उत्पूर्वकादञ्चेः ऋत्विगित्यादिना क्विनि "अनिदिता"मिति नलोपे उदच्शब्दः। तस्माण्णौ इष्ठवत्त्वेन भत्वादच इत्यकारलोपं बाधित्वा "उद ई"दिति ईत्त्वे "उदीची"ति ण्यन्ताल्लडादय इति भावः। उदैचिदिति। लुङि "द्विर्वचनेऽची"ति णिलोपनिषेधाच्चिशब्दस्य द्वित्वम्। "उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते" इत्युक्तेरुद उपर्याडिति भावः। एवं च उदः पृथक्करणेन "प्रकृत्यैकाजिति प्रकृतिभावान्न टिलोपः। प्रतीचयतीति। "अच" इत्यल्लोपे "चौ" इति पूर्वस्य दीर्घः। प्रत्यचिचदिति। इह अच इत्यल्लोपे चिशब्दात्प्रागटि तकारादिकारस्य यण् अच इत्यकारलोपस्याभीयत्वेऽपि असमानाश्रयत्वान्नाऽसिद्धत्वम्, लोपस्य णिनिमित्तत्वात्, आटस्तु लुङ्()निमित्तत्वात्। इकोऽसवर्णे इतीति। "न समासे" इति तु न, पृथक्करणेन समासनिवृत्तेः। समीचयतीति। "समःसमि" इति सम्यादेशः। "अच" इति लोपे "चा" विति दीर्घः। सम्यचिचदिति। सम्यादेशस्य स्थानिवत्त्वेनोपसर्गत्वात् पृथक्करणम्, पृथक्करणेन उत्तरपदपरत्वाऽभावेऽप्य्नतरङ्गत्वाज्जातः सम्यादेशो न निवर्तते। तिराययतीति। "तिर"सित्यव्ययम्। तत्पूर्वादञ्चेः क्विनि नलोपे तिरस् अच् इत्यस्माण्णौ टिलोपेन धातोर्निवृत्तौ "तिरसस्तिर्यलोपे" इति तिरिभावे इकारस्य वृद्धावायादेशे "तिरायी" त्यस्माण्ण्य्नताल्लडादीति भावः। न च तिरसः पृथक्करणे सति धातोः "प्रकृत्यैका"जिति प्रकृतिभावात्कथं टिलोप इति वाच्यं, तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाऽभावेन पृथक्करणाऽभावात्। नन्वेवं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह-- अञ्चेष्टिलोपेनेति। बहिरङ्गत्वेनेति। बहिर्भूतणिनिमित्तकत्वादिति भावः। न च तिरसः पृथक्करणे सति धातोः "प्रकृत्यैका"जिति प्रकृतिभावात्कथं टिलोप इति वाच्यं, तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाऽभावेन पृथक्करणाऽभावात्। नन्वेवं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतिपरकत्वविरहात्कथमिह सति अञ्चतिपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह-- अञ्चेष्टलोपेनेति। बहिरङ्गत्वेनेति। बहिर्भूतणिनिमित्तकत्वादिति भावः। नन्वस्तु तिरसस्तिरिः, तत्र रेफादकारस्य टेरिति लोपः स्यादित्यत आह-- असिद्धवदवेति। प्रथमटिलोपोऽसिद्ध इत्यन्वयः। तिरस् अच् इ इति स्थिते प्रथमप्रवृत्तः अच् इत्येवंरूपटेर्लोपःतिरे टिलोपे कर्तव्ये आभीयत्वादसिद्ध इत्यर्थः। ननु प्रथमटिलोपस्य कथं तिरेष्टिलोपे कर्तव्ये असिद्धत्वं, टिलोपशास्त्रस्य एकत्वादित्यत आह-- चिणो लुङ्()न्यायेनेति। पचधातोर्भावकर्मणोर्लुङस्तङि प्रथमपुरुषैकवचने तशब्दे परे "चिण् भावकर्मणो"रिति च्लेश्चिणि उपधावृद्धौ अटि अपाचि त इत्यस्मात् "तिङश्चे"ति तरपि तदन्तात् "किमेत्तिङव्ययघादा"मित्याम्प्रत्यये अपाचिततरामिति स्थिते "चिणो लु"गिति प्रथमस्य तशब्दस्य लुकि कृते पुनस्तरप्प्रत्ययतशब्दस्य लुङ् न भवति, स्थानिभेदेन लुको भेदमाश्रित्य प्रथमलुकोऽसिद्धत्वेन व्यवधानादिति स्थितिः। एवमिहापीत्यर्थः। अत इति। प्रतमटिलोपस्याऽसिद्ध्त्वादित्यर्थः। अङ्गवृत्तपरिभाषया वेति। "पुनष्टिलोपे ने"त्यनुषज्यते। न च तिरेरिकारस्याङ्गवृत्तपरिभाषया "टे"रिति लोपाऽभावे तिराययतीति वृद्धिरपि तस्य न स्यादिति वाच्यम्, अङ्गवृत्तपरिभाषाया अनित्यत्वेन वृद्धिविषये तदप्रवृत्तेः। अग्लोपित्वादिति। तिरस् अच् इ इति स्थिते "टे"रित्यचो धातोर्लोपे सति तिरि इत्यस्य अग्लोपित्वम्चो धातोर्लोपे अकारस्यापि लोपसत्त्वादित्यभिमानः। सध्राययतीति। सहस्य सध्रिः। तिराययतीतिवद्रूपम्। सहेत्यस्य उपसर्गत्वाऽभावान्न पृथक्करणम्। तदाह-- अससध्रायदिति। विष्वद्र()ञ्चमिति। विष्वक् अच् इ इति स्थिते "विष्वग्देवयोश्चे"ति विष्वक्शब्दटेरद्र()आदेशे टेरित्यचो धातोर्लोपे विष्वद्रि इ इति स्थिते वृद्धौ आयादेशे विष्वद्रायि इति ण्यन्ताल्लटि विष्वद्राययतीति रूपम्। देवद्र()ञ्चमिति। देवशब्दस्य टेरद्र()आदेशे देवद्राययतीति सिद्धवत्कृत्य लुङ्याह-- अदिदेवद्रायदिति। अतितिरायदितिवद्रूपम्। आददद्रायदिति। सर्वनामत्वाददस्शब्दस्य टेरद्र()आदेशः। "त्यदाद्यत्वे सत्येव उत्त्वमत्वे" इति पक्षे इदम्, अदस्शब्दाद्विभक्तेर्लुका लुप्तत्वेन विभक्तिपरकत्वाऽभावेन त्यदाद्यत्वाऽप्रवृत्तेः। "त्यदाद्यत्वाऽविषयत्वेऽपि उत्त्वमत्त्वे स्त" इति मतमाश्रित्य आह-- अमुमुयञ्चमिति। अदस् अच् इ इति स्थिते टेरद्र()आदेशे अच् इत्यस्य टेर्लोपे अदद्रि इ इति स्थिते "अदसोऽद्रेः पृथङ्मुत्व"मिति मते दकाराऽकारयोर्दकाररेफयोश्च मत्वेत्त्वयोःकृतयोः अमुमु इ इति स्तिते प्रथमस्य इकारस्य णिचि वृद्धौ आयादेशे अमुमु आयीति ण्यन्ताल्लडादीति भावः। मुत्वस्याऽसिद्धत्वान्न यण्। अदमुआययतीति। "केचिदन्त्यसदेशस्ये"ति मते इदम्। भुवमिति। भुमाचष्टे इत्यर्थ भूशब्दाण्णिच्। वृद्ध्यावादेशौ, भावीत्यस्माल्लडादीति भावः। अबीभवदिति। " ओः पुयण्जी"ति इत्त्वम्। अबुभ्रवदिति। अवर्णपरकपवर्गादिपरत्वाऽभावात् "ओः पुयण्जी"ति न। स्व()आमिति। सुशोभनः अ()आ इति विग्रहः। स्वाशश्()वदिति। उपसर्गसमानाकारस्य पृथक्करणाद()आशब्दस्य "अजादेर्द्वितीयस्ये"ति द्वित्वमाडागमश्च। स्वरिति। स्वरित्यस्माण्णिचि "अव्ययानां भमात्रे" इति टिलोपः, इष्ठवत्त्वेन भत्वात्। "प्रकृत्यैकाजिति प्रकृतिभावस्तु येन नाप्राप्तिन्यायेन "टे"रित्यस्यैव बाधकः। असस्वदिति। द्वित्वे कार्ये णावजादेशस्य निषेधात् टिलोपं बाधित्वा स्वर्()शब्दस्य द्वित्वम्, "अ" रित्यस्य लोपे अकारस्यापि लोपसत्त्वेन अजादेशत्वादिति भावः। असिस्वदिति। अर्लोपस्य अजादेशत्वं नेति मते द्वित्वे कार्ये णौ टिलोपस्य निषेधाऽभावाट्टिलोपे कृते णिचा सह स्विशब्दस्य द्वित्वमिति भावः। बहूनिति। बहुशब्दाण्णिचि "णाविष्ठव"दित्यतिदेशात् "बहोर्लोपो भू च बहो"रिति बहोर्भूभावः। "इष्ठस्य यिट् चे"ति यिडागमस्तु न, "णाविष्ठव" दिति सप्तम्या इष्ठनि परे दृष्टस्यैव कार्यस्यातिदेशादिति भावः। बहयतीति। यिडभावे तत्संनियोगशिष्टस्य भूभावस्याप्यभावादिति भावः। रुआजयतीति। इष्ठवत्वात् "विन्मतो"रिति लुक्। नचाऽजादी गुणवचनादेवेति इष्ठन्प्रत्ययः रुआग्विन्()शब्दाद्दुर्लभ इति इष्ठवत्त्वमत्र कथमिति शङ्क्यं, "विन्मतो"रिति लुग्विधानेन रुआग्विन्()शब्दादिष्ठवत्त्वसिद्धरिति भावः। उपधावृद्धिमाशङ्क्याह-- संज्ञापूर्वकत्वान्न वृद्धिरिति। "णाविष्ठव"दित्येनातिदेशेन विनो लुकः सत्त्वादङ्गवृत्तपरिभाषया न वृद्धिरिति कैयटः। श्रीमतीमिति। श्रीमतीशब्दाण्णिचि "णाविष्ठव"दित्यतिदेशेन "भस्याऽढे" इति पुंवत्त्वे "विन्मतोः" इति मतो लुकि रेफादिकारस्य वृद्ध्यादेशयोः "श्रायी" त्यरमाल्लडादीति भावः। अशिश्रयदिति। णावच आदेशो नेति वृद्ध्यायादेशयोः प्रागेव श्रीशब्दस्य द्वित्वे उत्तरखण्डे वृद्ध्यायादेशयोः कृतयोरुपधाह्यस्वः इति माधवः। मतुपो लुकि अकारस्यापि लोपसत्त्वेन अग्लोपित्वान्नोपधाह्यस्व इत्यन्ये। पयस्विनीमिति। णिचि इष्ठवत्त्वाद्विन्मतोरिति मतुपो लुगिति भावः। पयसयतीत्यत्र इष्ठवत्त्वाट्टिलोपमाशङ्क्य आह-- इह टटिलोपो नेति।कुत इत्यत आह-- तदपवादस्येति। न च टिलोपं बाधित्वा मतुपो लुकि कृते पयसष्टेर्लोः कुतो न स्यादिति वाच्यं, "सत्यपि संभवे बाधन"मिति न्यायेन पयसष्टिलोपस्यापि मतुपो लुका बाधात्। स्थवयतीति। स्थूलशब्दाण्णिचि इष्ठवत्त्वात्स्थूलदूरेति स्थूलशब्दस्य यणादेर्लोपे #ऊकारस्य गुणे अवादेशे स्थवि इत्यस्माल्लडादीति भावः। गुणे ओकारस्याऽचो ञ्णितीति वृद्धिस्तु न शङ्क्या, अङ्गकार्ये कृते पुनरङ्गकार्यस्याऽप्रवृत्तेः। दवयतीति।पूर्ववद्यणादिलोपो गुणश्च।कथं तर्हीति। "स्थूलदूरे"ति यणादिलोपस्य टिलोपाऽपवादत्वादिति भावः। दूरमततीति। "अत सातत्यगमने" इति धातोः "अन्येभ्योऽपि दृश्यते" इति क्विपि दूरादिति रूपम्। अय गतावित्यस्मात् क्विपि "लोपो व्यो"रिति यलोपे "ह्यस्वस्य पिती"ति तुकि दूरादित्येव रूपम्। तस्माण्णौ टिलोपे "दूरी"ति ण्यन्तात् शतृप्रत्यये शपि इकारस्य गुणे अयादेशे दूरयच्छब्दस्य दूरयतीति सप्तम्यन्तमिति भावः। तदाह--दूरातं कुर्वतीत्यर्थ इति। "कुर्वती"ति सप्तम्यन्तम्। यवयतीति। युवन्शब्दाण्णौ स्थूलदूरेति वनो यणादेर्लोपः। पूर्वस्य उकारस्य गुणे अवादेशः। यवि इत्यस्माल्लडादि। कनयतीति। युवन्शब्दस्य कनादेशपक्षे रूपम्। तदाह-- युवाल्पयोरिति। नेदयतीति। अन्तिकशब्दस्य णौ नेदादेशः, "अन्तिकबाढयोर्नेदसाधा"वित्युक्तेः। साधयतीति। बाढशब्दस्य णौ साधादेशः। इहेति। प्रशस्ययतीत्यत्र "प्रशस्यस्य श्रः" "ज्य चे"ति श्रज्यौ नत्यर्थः। कुत इत्यत आह-- उपसर्गस्येति। तत्पृथक्करणे सति विशिष्टस्य स्थानिनोऽभावान्नादेशाविति भावः। वृद्धं-- ज्यापयतीति। "वृद्धस्य चे"ति वृद्धशब्दस्य ज्यादेशे वृद्धौ पुगिति भावः। "प्रियस्थिरे"ति सूत्रक्रमेणोदाहरति-- प्रियं-- प्रापयतीति। प्रियशब्दस्य प्रादेशे वृद्धिः पुक्। स्थापयतीति। स्थिरशब्दस्य स्थादेशे वृद्धिपुकौ।वरयति वारयतीति। उरुशब्दस्य वर्। संज्ञापूर्वकविधेरनित्यत्वादुपधावृद्धिविकल्प इति माधवः। बंहयतीति। बहुलस्य बंहादेशः। गरयतीति। गुरोर्गुर्। वृद्धं वर्षयतीति। वृद्धस्य वर्षादेशः "वृद्धस्य चे"ति ज्यादेशेन विकल्प्यते। त्रपयतीति। तृप्रस्य त्रप् आदेशः। अदुपधः। संज्ञापूर्वकत्वान्न वृद्धिः। गरयतीत्यादिवत्। "त्रापयती"ति क्वचित्पाठः। द्राघयतीति। दीर्घस्य द्राघादेशः। वृन्दयतीति। बृन्दारकस्य बृन्दादेशः। इति नामधातुक्रिया।

अथ ण्यन्तप्रक्रिया।

तत्त्व-बोधिनी
मुण्डमिश्रश्लक्ष्णलवणव्रतवरुआहलकलकृततूस्तेभ्यो णिच् ३५१, ३।१।२१

कृञर्थ इति। क्वचित्क्रियासामान्ये ,प्राचुर्येण तु क्रियाविशेषे। व्रतादीति। पयो व्रतयति। अश्नातीत्यर्थः। शूद्रान्नं व्रतयति। वर्जयतीत्यर्थः। वरुआआदिति। समाच्छादने यो वरुआशब्दस्तस्मात्करोत्यर्थे णिजित्यर्थः। संवरुआयतीति। वरुआआच्छादनं करोतीत्यर्थः। अदन्तत्वमिति। अयमेव निपातो "वृद्धौ सत्यां टिलोप" इत्यत्र ज्ञापकः। यदि पूर्वं लोपो भवेत्तदाऽग्लोपकार्यसिद्धौ किमनेन निपातनेन?। तथा च अपपटदिति सिद्ध्यतीत्यादि चुरादिष्वेवोपपादितम्। कृतयतीति। उपकारं स्वीकरोतीत्यर्थः। पठितुं युक्ता इति। एकसूत्रकरणे लाघवमिति भावः। सापेक्षेभ्योऽपीति। विदानसामथ्र्यादिति भावः। अन्यत्र तु "रमणीयं पटुमाचष्टे" इत्येव न तु "पटयती"ति वृत्तिः। सापेक्षत्वमेव दर्शयति-- माणवकमित्यादिना। अयं भावः-- द्वितीयान्ताद्विधीयमानस्य णिचः पदविधित्वत्सापेक्षेभ्यो न भवेत्, किं तु यदा प्रकरणादिना माणवकस्येति ज्ञायते तदैव मुण्डयतीति वृत्तिः स्यान्न तु माणवकादिप्रयोगे। णिजन्तसय् सनाद्यन्तवृत्तित्वात्सविशेषणानां वृत्त्यभावाच्चेति। घ इति। "पुंसि संज्ञाया"मित्यनेन। पुंवद्भावादय इति। आदिशब्देन-- रभावटिलोपादयः। टिलोपेनैवैतयतीत्यादिरूपसिद्धौ प#उ#ंवद्भावग्रहणं दारदयतीति सिद्ध्यर्थमिति चुरादिष्वेवास्माभिरुक्तम्। दरदोऽपत्यं दारदः। "द्व्यञ्मगधे"त्यण्। तस्य रिउआयाम् "अतश्चे" इति लुकि दरद् तामाचष्टे दारदयति। इह पुंवद्भावाऽभावे टिलोपे सति दरयतीति स्यात्। प्रथयतीति। "र ऋतो हलादे"रिति रभावः। अपिप्रथदिति। वृद्धौ सत्यां टिलोपेनाग्लोपित्वात्सन्वद्भावे सति "सन्यतः" इतीत्वम्। वृद्धेः पूर्वं टिलोपे तु-- अप्रप्रथत्। औजढदिति। इह टिलोपे सति णिच्सहितस्य द्वित्वे पश्चादभ्यासेऽकारो दुर्लभ इत्यत आह-- ओः पुयण्जीत्यादि। त्वमाविति। "प्रत्ययोत्तरपदयोश्चे"त्यनेन। अन्तरङ्गत्वादिति। न च "वार्णादाङ्ग"मिति टिलोपस्यैव प्रवृत्तिरुचितेति वाच्यं, व्याश्रयत्वात्। भाष्यस्येति। वृत्तिकारैर्हि "प्रकृत्यैका"जिति सूत्रे प्रेयान् प्रेष्ठ इत्यादय उदाह्मतः। ते च प्रस्थाद्यादेशविधायकस्य "प्रियस्थिरे" त्यादि शास्त्रस्य "असिद्धवदत्राभा"दित्यसिद्धवद्भावेन प्रस्थादावसकारोच्चारणसामथ्र्याद्वा भाष्ये प्रकृतिभावं विनैव साधिताः। रुआग्वान् रुआजिष्ठ इत्यादावपि टिलोपो न भविष्यति, लोपापवादस्य विन्मतोर्लुकस्तत्र प्रवर्तनात्। एषैवाऽनेकाक्षु पयस्वान् पयसिष्ठः चम्पकरुआजिष्ठ इत्यादिष#उ गतिः, न चैतावता "प्रकृत्यैका"जिति सूत्रं प्रत्याख्यातमिति मन्तव्यम्। स्वापयतीत्यादौ तस्यावश्यकत्वादिति भावः। युवामावामिति। युष्मानस्मानिति विग्रहेऽपि युष्मयति अस्मयतीत्येव रूपम्। न च द्वयोरुक्तौ युवावौ भवत इति रूपे विशेषः शङ्क्यः, विभक्तिपरत्वाऽभावात्। न च प्रत्ययलक्षणं, लुका लुप्तत्वात्। न च प्रागेवादेशोऽस्त्विति वाच्यम्, "अन्तरङ्गानपि विधीन्बहिरङ्गो लुक् बाधते" इति न्यायात्। अकृतव्यूहपरिभाषाया जागरूकत्वाच्च। येन नाप्राप्तीति। यत्र यत्र "पर्कृत्यैका"मित्यस्य प्रवृत्तिस्तत्र टेरित्यस्य प्रवृत्तिर्न तु "नस्तद्धिते" इत्यस्य, "रुआजिष्ठ" इत्यादौ तस्याऽप्रवृत्तैरिति भावः। "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वे"ति न्यायेनेत्यन्ये। संप्रसारणमिति। न च टिलोपे सत्यन्नन्तत्वाऽभावात् "()आयुवमघोना"मिति कथमिहि संप्रसारमप्रवृत्तिरित शङ्क्यं, स्थानिवत्त्वादसिद्धवदत्रेत्यसिद्धत्वाद्वा टिलोपे।()प्यन्नन्तत्वलाभात्। अतद्धित इति हि तत्र पर्युदासो न तु प्रतिषेधः। तेन तद्धिते न विधिर्न निषेधः, किं तु तद्धितभिन्ने परे विधिः। तद्धितभिन्नत्वं तु णिचोऽस्त्येवेति न संप्रसारणप्रतिबन्धः, नापि दविष्ठ इत्यादाव#इष्ठनि ओर्गुणो दृष्ट इतीहापि वृ()धिं बाधित्वा गुणः स्यादिति वाच्यं, जातेऽपि गुणे पुनर्वृद्धौ रूपसिद्धेः। अथवा टिलोपंप्रसारणयोर्गुणं प्रति "असिद्धवदत्रे"त्यसिद्धत्वादिष्ठवद्भावन नास्ति गुणप्रसङ्गः। शुनयतीति। इष्ठवद्भावेन भत्वात्संप्रसारणम्। "प्रकृत्यैका"जिति प्रकृतिभावः। नित्यत्वादिति। शब्दान्तरप्राप्त्या तु टिलोपस्याऽनित्यत्वमिति भावः। उदीचयतीति। #उपसर्गं पृथक्कृत्याऽच्शब्दादेव णिजिति। प्रकृत्यैका"जितिप्रवृत्तेष्टिलोपो न। "उद ईत्" इतीत्वम्। "अनदिता"मिति क्विन्नमितो नलोपः। उदैचिचदिति। लुङि "द्विर्वचनेऽची"ति णिलोपस्य निषेधाच्चिशब्दस्य द्वित्वम्। प्रतीचयतीति। "अच" इत्यल्लोपे "चौ" इति पूर्वस्य दीर्घः। प्रत्यचिचदिति। इह धात्वकारस्याऽच इति लोपे चिशब्दात्प्रागटि पूर्वस्य यण्। न चास्तामासन्नित्यादिवदलोपस्याऽसिद्धात्वादाट् स्यादिति वाच्यं, व्याश्रयत्वात्। णिनिमित्तो हि लोपो, लुङ्निमित्तश्चाट्। आसन्नित्यादौ तु न तथेति वैषम्यम्। तिराययतीति। उपसर्गसमानाकारत्वाऽभावादिह तिरसः पृथक्करणं नास्ति, तेन "प्रकृत्यैका"जित्यप्रवृत्तेष्टिलोपः। तदाह-- अञ्चेरिति। चिणोलुङ्()नयायेनेति। यथाऽपाचितरामित्यत्र च#इणःपरसय् तशब्दस्य लुकि पुनस्तरप्रत्ययस्य लुङ् न भवति, प्रथमलुकोऽसिद्धत्वन व्यवधानात्, ततेत्यर्थः। पुनष्टिलोप नेति। तिर्यादेशस्येकारस्य लोपो नेत्यर्थः। अगल्पित्वादिति। अनग्लोपिनोऽप्यग्लोपित्वस्वीकारादिति भावः। देवनद्यञ्चमिति॥ ननु "आख्यानात्कृतस्तदाटचष्टे" इति कारकस्य पृथक्करणाद्देवानञ्चयतीति प्रसज्येत, बलिबन्धनमाचष्टे-- बलिं बन्धयतीतिवत्, इष्यते तु देवद्राययतीत्येव रूपम्। किंच कारकसय् पृथक्करणेऽदिदेवद्रायदित्याद्यपि न सिध्येत्। न च पुराणप्रसिद्धाख्यान एव कारकस्य पृथक्करणादिकमिति वाच्यं, राजानमागमयतीत्यत्राऽव्याप्तेरिति चेत्। अत्राहुः-- यत्राख्याने कृच्छ()यते तत्रैवेदं प्रवर्तते, कृल्लुगितिसं नियोगशिष्टविधानात्। किंच आख्यानग्रहणसामथ्र्यान्महाजनप्रवादविषयीभूतार्थविषयकमेव तत्, भाष्यादौ तादृशानामेवोदाह्मतत्वात्। यदि तु देवाञ्चनमाचष्टे इत्यादौ महाजनप्रसिद्धिरस्ति तदा देवानञ्चयतीति भवत्येवेति। अमुमुआयदिति। "पूर्वत्राऽसिद्धीयमद्विर्वचने" इत्यसिद्ध्तवनिषेधान्मुशब्दस्य द्वित्वम्। अबीभवदिति। "ओः पुयण्जी"त्यभ्यासोवर्णस्येत्वम्। "दीर्घो लघो"रिति दीर्घः। ननु परत्वात्प्रथमं दीर्घे कृते पश्चादित्वं स्यात्। न चैवं "दीर्घो लघो"रित्यस्य वैयथ्र्यमिति वाच्यम्, अजूहवदित्यादौ तस्य सावकाशत्वादिति चेत्। अत्राहुः-- - "विप्रतिषेधे पर"मित्यत्र परशब्दस्येष्टवाचित्वाल्लक्ष्यानुरोधेन दीर्घात्प्रागित्वमेव भवति, लक्ष्यभेदात्पुनरिकारस्य दीर्घो वा भवतीति। अबुभ्रवदिति। "इहाऽभ्यासात्परो यः पवर्गः स त्ववर्णपरो न, यस्त्ववर्णपरो यण्, नासावभ्यासात्पर, इत्यभ्यासोकारस्येत्वं न। गा-गावयति। स्व()आमिति। शोभनोऽ()आः स्व()आः। शोभनोऽ()आओ यस्येति बहुव्रीहिर्वा। स्वाश()आदिति। उपसर्गसमानाकारस्य पृथक्करणादजादेरिति द्वितीयस्य द्वितवाडागमस्च। स्वयतीति। "प्रकृत्यैका"जिति प्रकृतिभावस्तु येन नाप्राप्तिन्यायाट्टेरित्यस्यैव बाधको न तु "अव्ययानां भमात्रे टिलोपः" इत्यस्येति भावः। असस्वदिति। "ओः पुयण्जी" ति ज्ञापकेन द्वित्वे कारेयऽजादेशस्य स्थानिवत्त्वान्निषेधाद्वा स्वरशब्दस्य द्वित्वमिति मतेनेदम्। अन [ग्लोपित्वाभ्युपगमेऽप्यज्झलादेशेऽरजादेशत्वव्यवहारो नास्तीति मते तु णिच्सहितस्यैव द्वित्वं। तदाह-- असिस्वदिति। भावयतीति। "बहोर्लोपो भू च बहोः" "इष्ठस्य यिट् चे" ति भूभावः। न चैवं यिडागमोऽपि णेरस्त्विति वाच्यं, णावित्युपमेये सप्तमीनिर्देशादिष्ठवदित्यत्र सप्तम्यन्ताद्वतिरित्यभ्युपगमात्। एवं चेष्ठनि परे पूर्वस्य यत्कार्यं तदेवातिदिश्यते न त्विष्ठनोऽपि कार्यमिति स्थितम्। बहयतीत्यन्य इति। यिडभावे तत्सन्नियोगशिष्टस्य भूभावस्याप्यभाव इति भावः। नन्वेवमन्यमतत्वेन किमर्थमिदमुपन्यस्तमिति चेत्। अत्राहुः-- प्राधान्यदिष्ठवदिति कार्यातिदेशो, न त्वयं शास्त्रातिदेशः। तथा चेष्ठनि दृष्टं भूभावं स एवातिदेशो विधत्त इति नात्र सन्नयोगशिष्टपिरभाषायाः प्रवृत्तिः। इत्थं च भावयीत्येव रूपं सम्यगिति। रुआजयतीति। इष्ठवद्भावेन "विन्मतो" रिति लुक्। ननु "अजादी गुणवचनादेवे" त्युक्तत्वादिष्ठन्प्रत्ययः रुआग्विन्शब्दाद्दुर्लभ इति इष्ठवद्भावोऽत्राऽयुक्त इति वाच्यम्, अस्म्ादेव लुग्वचनाज्ज्ञापकाद्विन्नन्तान्मतुबन्ताच्च अजादी भवत इत्यभ्युपगमात्। श्रीमतीमिति। मतुपो लुक्। श्राययति। अशिश्रयदिति। द्वित्वे णिनिमित्तगुणे सत्यायादेशः। एतेन "स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रयदाश्रयः श्रिया"मिति माघश्लेके" "अशिश्रय"दिति प्रचुरः पाठो व्याख्यातः, श्रीमतीमकरोदित्यर्थादिति मनोरमायां स्थितम्। अत्र केचित्-- सापेक्षाणां वृत्त्यभावान्मनोरमोक्तं यत्तदयुक्तम्। नहि कश्चिद्यं घटं करोति तमानयेत्यर्थे "यं घटयति तमानये"ति प्रयुङ्क्ते। अत एव "तत्करोती"त्यनेनैवसिद्धे मुण्डादिग्रहणं सापेक्षेभ्योऽपि णिजर्थ"मिति पूर्वोक्तं सङ्गच्छते। यद्यन्यत्रापि सापेक्षेभ्यो णिच् स्यात्तर्हि तन्न सङ्गच्छेत। न चाऽत्र सापेक्षत्वं नेतिविवदितव्यम्, यां दिशं श्रीमतीमकरोदिति स्वयमेव व्याख्यातत्वात्। नापि सविशेषणानं वृत्त्यभावेऽपि विशेष्ययोगे स्यादेव वृत्तिरिति नात्रानुपपत्तिः, श्रीमतीमित्यर्थं प्रति दिशो विशेष्यत्वादिति वाच्यम्, विशेष्ये (हि) बहिर्भूते विशेषणानां वृत्तिर्नाङ्गीक्रियते। न हि कश्चित् श्रीमतो राज्ञ इदमित्यर्थे राज्ञः श्रैमतमिति वृत्तिमभ्युपैति। किं च माघश्लोके अशिश्रियदित्येव पाठो बहुषु पुस्तकेषु दृश्यते, न त्वशिश्रयदित्यलं शुद्धे ग्रन्थसमर्थनाऽभिनिवेशेनेत्याहुः। पयसयतीति। इह विन्मतोर्लुकि अग्लोपात्सन्वदित्त्वादिकं च न। अनग्लोपेऽपि सन्वद्भावाऽभावात्। "णौ चङी" ति सूत्रे अत्रराजदिति भाष्यमिह प्रमाणम्। लुङि-- अपपयसत्। एवं रुआग्विणमाख्यत् असरुआजदित्यत्रापि सन्वदित्वं न। गोमन्तं-- गवयति। लुङि अजुगवत्। इहाऽग्लोपात् "दीर्घो लघो"रिति दीर्घ#ओ न। गां रुआजं पय इति विग्रहे तु-- अजूगवत्। असिरुआजत्। [पययति] अपपयत्। टेर्लोपस्य बहिरङ्गत्वेन असिद्धत्वादिह वृद्धिर्न। अग्लोपित्त्वात्तु सन्वद्भावदीर्घौ न। तदपवादस्येति। येन नाप्राप्तिन्यायेन टिलोपापवादो लुक्। स्थवयतीति। "स्थूलदूरे"ति यणादिलोपो , गुणश्च। न च गुणस्य "अचोऽञ्णिती"ति वृद्धिः स्यादिति वाच्यम्, अङ्कार्ये कृते पुनरङ्गकार्यस्याऽप्रवृत्तेः। "प्रातिपदिकाद्धात्वर्थे" इति बहुलग्रहणाद्वा। लुङि--अतुस्थवत्। दवयति। यवयतीत्यादि। इहापि पूर्ववद्वृद्ध्यभावः। लुङि-- अदूदवत्। अयूयवत्। अचीकनत्। नेदयतीति। "अन्तिकबाढ()ओर्नेदसाधौ"। टिलोपः। लुङिः अनिनेदत्। अससाधत्। प्रशसय् --प्राशशस्यत्। पृथक्कृतेरिति। तेन विशिष्टस्य स्थानिनोऽभावान्नादेशविमौ भवत इत्यर्थः। ज्यापयतीति। "वृद्धस्य चे"ति ज्यादेशः। स च "प्रयस्थिरे" ति वर्षादेशेन सह विकल्प्यत इत्याह-- वर्षयतीति। लुङि अजिज्यपत्। अववर्षत्। प्रियम्-- अपिप्रपत्। स्थिरम्-- अतिस्थपत्। सस्यादेशावयवत्वात्षत्वं न। स्फिर--अपिस्फपत्। उरुमिति। वरादेशे कृते संज्ञापूर्वकाविधेरनित्यत्वाद्बाहुलकाद्वा माधवेन विकल्पेन उपधावृद्धिरुदाह्मतेति स्वयमपि तथैवाह-- वरयति।वारयतीति। अवीवरत्। बंहयतीति। अग्लोपित्वात्--अबबहत्। गरयतीति। अजीगरत्। त्रायतीति। अतित्रपत्। द्राघयीति। अदद्राघत्। वृन्दयतीति। अववृन्दत्।

इति तत्त्वबोधिन्याम् नामधातुप्रक्रिया।

अथ ण्यन्तप्रक्रिया।

तत्त्व-बोधिनी
द्विगोः ४२६, ३।१।२१

त्रिलोकीतिष त्रयाणां लोकानां समाहारे "तद्धितार्थ"इति द्विगुः। "अकारान्तोत्तरपदो द्विगु"रिति स्त्रित्वम्। त्रिफलेति। अत्र "द्विगो"रिति ङीप्प्राप्नोति नतु "पाककर्णे"ति ङीष्, तत्र "जाते"रित्यनुबृत्तेः। त्र्यनीकेति। अनीकम्--अग्रता। त्रयाणामनीकानां समाहारः। "अजादेराकृतिगणत्वाट्टा"बिति त्र्यनीकाधिकरणे मीमांसकाः।