पूर्वम्: ३।१।२३
अनन्तरम्: ३।१।२५
 
सूत्रम्
लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्॥ ३।१।२४
काशिका-वृत्तिः
लुपसदचरजपजभदहदशगृ̄भ्यो भावगर्हायाम् ३।१।२४

लुप सद चर जप जभ दह दश गृ̄ इत्येतेभ्यो भावगर्हायां धात्वर्थगर्हायां यङ् प्रत्ययो भवति। गर्हितं लुम्पति लोलुप्यते। एवं सासद्यते। पञ्चौउर्यते। जञ्जप्यते। जञ्जभ्यते। दन्दह्यते। दन्दश्यते। निजेगिल्यते। भावगर्हायाम् इति किम्? साधु जपति। भावग्रहणम् किम्? साधनगर्हायां मा भूत्, मन्त्रं जपति वृषलः। नित्यग्रहणं विषयनियमार्थम् अनुवर्तते। एतेभ्यो नित्यं भावगर्हायाम् एव भवति, न तु क्रियासमभिहारे। भृशं लुम्पति।
न्यासः
लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्। , ३।१।२४

"लुप्लृ छेदने" (धा।पा।१४३१), "षद्()लृ विशरणगत्यवसादनेषु" (धा।पा।१४२७), "अभ्र वभ्र चर गत्यर्थाः" (धा।पा।५५६, ५५७, ५५९), "जप जल्प व्यक्तायां वाचि" (धा।पा।३९७, ३९८), "{जभी धा।पा।}जभ {जृभि-धा।पाक} गात्रविनामे" (धा।पा।३८८,३८९), "दह भस्मीकरणे" (धा।पा।९९१), "दन्श दंशने" (धा।पा।९८९), "गृ? निगरणे" (धा।पा।१४१०)। "धात्वर्थगर्हायाम्" इत्यनेन भावगर्हायामित्यस्यार्थमाह। "गर्हितं लुम्पति" इति। गर्हितमिति क्रियाविशेषणमेतत्। तेन भावगर्हात्र गम्यते। गर्हितत्वं छेदनसय् निरर्थकत्वात्, दोषदुष्टत्वाच्च। एवमुत्तरत्रापि गर्हितत्वं वेदितव्यम्। "चञ्चूर्यते" इति। "चरफलोश्च" ७।४।८७ इति नुक्। "उत्परस्यातः" ७।४।८८ इत्युत्त्वम्, "हलि च" ८।२।७७ इति दीर्घः। "जञ्जप्यते" इति। "जपजभ" ७।४।८६ इत्यादिना नुक्। "ऋत इद्धातोः" ७।१।१०० इतीत्त्वम्, रपरत्वम्, द्विर्वचनम्। गिर्याशब्दस्य रेफयकारयोस्तु हलादिशेषेण निवृत्तिः, पुर्ववद्()गुणः, "ग्रो यङि" ८।२।२० इति लत्वम्। "साधु जपति" इति। नात्र धात्वर्थस्य गर्हा, किं तर्हि? प्रशंसा। "मन्त्रं जपति वृषलः" इति। अत्र साधनस्य वृषलस्य गर्हा गम्यते; वृषलस्य = शूद्रस्य वैदिकमन्त्रजाप्यं प्रत्यनधिकारात्॥