पूर्वम्: ३।१।३८
अनन्तरम्: ३।१।४०
 
सूत्रम्
भीह्रीभृहुवां श्लुवच्च॥ ३।१।३९
काशिका-वृत्तिः
भीह्रीभृहुवां श्लुवच् च ३।१।३९

ञिभी भये, ह्री लज्जायाम्, डुभृञ् धारणपोषणयोः, हु दानादानयोः, एतेभ्यो लिटि परतः आम् प्रत्ययो भवति अन्यतरस्याम्, श्लाविव च अस्मिन् कार्यं भवति। किं पुनस् तत्? द्वित्वम् इत्त्वं च। बिभायाञ् चकार, विभाय। जिह्रयाञ् चकार, जिह्राय। बिभराञ् चकार, बभार। जुहवाञ् चकार, जुहाव।
लघु-सिद्धान्त-कौमुदी
भीह्रीभृहुवां श्लुवच्च ६१०, ३।१।३९

एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्यं च। जुहवाञ्चकार, जुहाव। होता। होष्यति। जुहोतु, जुहुतात्। जुहुताम्। जुह्वतु। जुहुधि। जुहवानि। अजुहोत्। अजुहुताम्॥
न्यासः
भीह्यीभृहुवां श्लुवच्च। , ३।१।३९

"भीह्यीभृहुवाम्" इति। पञ्चम्यर्थे षष्ठी। सुपां सुपो भवन्तीति। "श्लुवत्" इति। श्लविव श्लुवत्। "तत्र तस्येव" ५।१।११५ इति सप्तमीसमर्थाद्वतिः। कार्यातिदेशश्चायम्। अत एवाह--- "श्लुवच्चास्मिन् कार्यं भवति" इति। "द्वित्वमित्त्वञ्च" इति। "श्लौ" ६।१।१० इति द्विर्वचनम्, "भृञामित्" ७।४।७६ इतीत्त्वम्। असति ह्रतिदेशे लिडाश्रयं द्विर्वचनमामा व्यवधाने न स्यात्। इत्त्वमपि नैव स्यात्, तद्विधौ हि "णजां त्रयाणां गुणः श्लौ" ७।४।७५ इत्यतः श्लावित्यनुवत्र्तते। तस्मात् तस्योभयस्य सिद्धये "श्लुवच्च" इत्यतिदेशः॥
बाल-मनोरमा
भीह्यीभृहुवां श्लुवच्च ३२१, ३।१।३९

भीहि। भी ह्यी भृ हु एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी। "कास्प्रत्यया"दित्यत आम् लिटीत्यनुवर्तते। तदाह--एतेभ्य इति। "श्लुव"दिति सप्तम्यन्ताद्वतिरित्यभिप्रेत्य आह--आमि श्लाविव कार्यं चेति। जुहवामनिति। आमि श्लाविव द्वित्वे गुण इति भावः। जुहावेति। जुहुवतुः। जुहविथ जुहोथ। जुहुधि। हेर्धिरिति। "हुझल्भ्यो हेर्धि"रित्यनेनेति भावः। "जुहवानी"त्यत्र आटः पित्त्वेन अङित्()तवाद्गुणे प्राप्ते तं बाधित्वा "हुश्नुवो"रिति यणि प्राप्ते आह--आटि परत्वादिति। "हुश्नुवो"रित्यपेक्षया गुणः परत्वाद्भवतीत्यर्थः। लङि--अजुहोत् अजुहुतामिति सिद्धवत्कृत्य "सिजभ्यस्ते"ति जुसि "हुश्नुवो"रिति यणमाशङ्क्याह-- परत्वाज्जुसि चेति गुण इति अजुहवुरिति। अजुहोः अजुहुतम् अजुहुत अजुहवम् अजुहुव अजुहुम। अहौषीदिति। सिचि वृद्धिः। अहौष्टामित्यादि। अहोष्यत्। ञि भी भये इति। अनिट्। ईदन्तः। शपः स्लौ द्वित्वादि मत्वाह-- बिभेतीति।

तत्त्व-बोधिनी
भीह्यीभृहुवां श्लुवच्च २७७, ३।१।३९

आटीति। "आडुत्तमस्ये"त्यनेन। परत्वादिति। "हुश्नुवो"रिति यणपेक्षया परत्वादित्यर्थः।