पूर्वम्: ३।१।४२
अनन्तरम्: ३।१।४४
 
प्रथमावृत्तिः

सूत्रम्॥ च्लि लुङि॥ ३।१।४३

पदच्छेदः॥ च्लि १।१ लुङि ७।१ ६६ धातोः ? प्रत्ययः ? परश्च ?

अर्थः॥

लुङि परतः धातोः च्लि-प्रत्ययः भवति

उदाहरणम्॥

च्लेः स्थाने अग्रे सिजादीन् आदेशान् वक्ष्यति, तत्रैव उदाहरिष्यामः।
काशिका-वृत्तिः
च्लि लुडि ३।१।४३

धातोः च्लिः प्रत्ययो भवति लुडि परतः। इकार उच्चारणार्थः, चकारः स्वरार्थः। अस्य सिजादीनादेशान् वक्ष्यति। तत्र एव उदाहरिस्यामः।
लघु-सिद्धान्त-कौमुदी
च्लि लुङि ४३९, ३।१।४३

शबाद्यपवादः॥
न्यासः
च्लि लुङि॥ , ३।१।४३

"इकार उच्चारणार्थः" इति। उच्चारणमेवास्यार्थो नान्यत् किञ्चित् प्रयोजनमित्यर्थः। एतेनेत्संज्ञाकार्यं न भवतीति दर्शयति। "चकारः स्वरार्थः" इति। "चितः" ६।१।१५७ इत्यन्तोदात्तत्वं यथा स्यात्। अथ "मन्त्रे घसह्वरणशववृदहाद्()वृच्कृगमिजनिभ्यो लेः" २।४।८० इत्येकारः सामान्यग्रहणार्थः, चकारस्तदविघातार्थः कस्मान्न विज्ञायते? एवं मन्यते-- मन्त्रेघसादिभ्यो नैवाभ्यो लिरस्ति यस्य सामान्यग्रहणार्थोऽयमिकारः स्यात्, त()स्मश्चासति सामान्यग्रहणार्थे तदविघातार्थतापि चकारस्य नोपपद्यते। "आमः" २।४।८१ इत्यत्र तर्हीकारचकारौ कस्मान्न सामान्यग्रहणाविघातार्थौ भवतः, तत्र हि मन्त्रेघसादि २।४।८० सूत्राल्लेरित्यनुवत्र्तते, तत्रेकारचकारयोरभावे "निरनुबन्धकग्रहणे न सानुबन्धकस्य" (व्या।प।५३) इति तस्यैव ग्रहणं स्यात्, न लिङलिटोः? नैतदस्ति; अत्र मा भूल्लिग्रहणानुवृत्तिः,अविशेषेणापि प्रत्ययमात्रस्य लुग् भवष्यति; नैवं सति किञ्चिदनिष्टमापद्यते। न हि सोऽस्ति प्रत्ययो यस्य लुकि सति किञ्चिदनिष्टं भवेत्। सत्यामपि लिग्रहणानुवृत्तौ न दोषः, अनेकस्मिन् ग्राह्रे सति सामान्यग्रहणं भवति, न चामः परस्यानेकं ग्राह्रमस्ति। न हि क्वचिदामः परो लिटोन्यः प्रयोगोऽस्ति, तस्मादन्याभावाल्लिट एव ग्रहणम्। तत्र नार्थः सामान्यग्रहणार्थेनेकारेण,नापि तदविघातार्थेन चकारेण। ननु च पावयाङ्क्रियादित्यत्रान्योऽपि लिरस्ति? नैतदस्ति; निपातनादेव तत्सिद्धम्।तच्चावश्यं निपातनमाश्रयितव्यम्; अन्यथा क्रियमाणेऽपीकारे तदविघाता()रएथे च चकारे अब्युत्सादयामिति न सिद्ध्येत्। तस्मात् पूर्वोक्तमेव प्रयोजनं न्याय्यम्। यथोत्तरार्थश्चकारस्तथोत्तरत्र प्रतिपादयिष्यामः। अथ किमर्थं च्लिप्रत्ययमासज्य तस्य सिजादय आदिश्यन्ते, न सिचमेवोत्सर्गं विधाय तस्य क्सादय आदेशा विधीयेरन्निति?नैवं शक्यम्; एवं हि "शल इगुपधादनिटः क्सः" ३।१।४५ इत्यत्र च्लेरभावादनिड्ग्रहणं धातोर्विशेषणं विज्ञायेत- धातोरनिट इति। तथा च गुहेर्न सिद्ध्येत-- अघुक्षदिति।तस्य हि ऊदित्त्वात् स्वरत्यादिना ७।२।४४ विकल्पेड्विधानान्नास्त्यनिट्त्वम्। च्लौ सत्यनिड्ग्रहणेन स एव विशिष्यते-- च्लेरनिट इति। गुहेश्च परस्य च्लेर्विभाषितेट्त्वात् यदेण् नास्ति तदा च्लेरनिट्त्वात् क्सः सिद्धो भवति॥
बाल-मनोरमा
च्लि लुङि ६९, ३।१।४३

च्लि लुङि। च्लीति लुप्तप्रथमाकम्। लुङि परे धातोश्च्लिप्रत्ययः स्यादित्यर्थः। शबाद्यपवाद इति। आदिना श्यनादिविकरणसङ्ग्रहः।

तत्त्व-बोधिनी
च्लि लुङि ५२, ३।१।४३

"इकार उच्चारणार्थ" इति मनोरमा। न च "मन्त्रे घसे"ति सूत्रे लेरिति स्थाने ल इत्युच्यमाने च्लिभिन्नस्यापि लकारस्य लुक् स्यादिति शङ्क्यं,, "गातिस्थे"ति सूत्रात्सिच् इत्यनुवत्र्य सिच्स्थानिनः = स्थान्यर्हसय् लस्य लुगिति व्याख्यायामतिप्रसङ्गाऽभावद्विभाषानुवृत्तेर्लुको वैकल्पिकतया छन्दसि रूपान्तरस्याऽनापाद्यतया च सिजनुवृतिं()त विनापि नातिप्रसङ्ग इत्याहुः। शबाद्यपवाद इति। आदिशब्दात्तत्त्दगणप्रयुक्तानां श्यन्नादीनां ग्रहणम्॥