पूर्वम्: ३।१।४५
अनन्तरम्: ३।१।४७
 
सूत्रम्
श्लिष आलिङ्गने॥ ३।१।४६
काशिका-वृत्तिः
श्लिष आलिङ्गने ३।१।४६

श्लिषेः धातोः आलिङ्गनक्रियावचनात् परस्य च्लेः क्षः आदेशो भवति। आलिङ्गनम् उपगूहनं, परिष्वङ्गः। अत्र नियमार्थम् एतत्। आश्लिक्षत् कन्यां देवदत्तः। आलिङ्गने इति किम्? समाश्लिषज्जतु काष्ठम्।
न्यासः
श्लिष आलिङ्गने। , ३।१।४६

"अत्र" इति। आलिङ्गने। "नियमार्थमेतत्" इति। पूर्वेण सिद्धे सत्यारम्भात्। "अश्लिक्षत्" इति। पूर्ववत् कत्वम्। "समाश्लिषज्जतु काष्ठम्" इति। पुषादित्वादङ्। प्रत्यासत्तिरत्र नैरन्तर्यलक्षणा श्लिषेरर्थः, न त्वालिङ्गनम्। यद्ययं पुषादौ पठ()ते, कथमिदं नियमार्थम्; सिद्धे सत्यारम्भो नियमाय भवति, न च पूर्वेण क्सः सिद्धः, अङा वाधितत्वात्? मन्यते-- "श्लिषः" इति योगविभागः कत्र्तव्यः। किमर्थम्? अङबाधनार्थम्-- क्स एव भवति, नाङ्। ततः। "आलिङ्गने" इति किमर्थम्? नियमार्थम्-- आलिङ्गन एव क्सो भवति, अन्यत्राङेवेति। यद्येवम्, "श्लिषः" इत्येवं योगविभागो यथाङं बाधते तथा "चिण्भावकर्मणोः" (३।१।६६) इति चिणमपि बाधेत-- उपाश्लेषि कन्या देवदत्तेनेति? नैतदस्ति; "पुरस्तादप वादा अनन्तरान् विदीन् बाधन्ते नोत्तरान् (व्या।प।९) इत्ययमङं बाधते, न चिणम्। अथ वा-- "चिण्भावकर्मणोः" ३।१।६६ इत्यत्र "चिण् ते पदः" ३।१।६० #इत्यतश्चिणित्यनुवर्तमाने पुनश्चिण्()ग्रहाहणस्यैतत्प्रयोजनम्-- चिणेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति। अथ "श्रिषु श्लिषु प्रुषु प्लुषु दाहे" (धा।पा।७०१,७०४) इत्येतस्य श्लिषो ग्रहणं कस्मान्न भवति? आलिङ्गने तस्य वृत्त्यसम्भवात्, "अनिटः" ३।१।४५ इत्यधिकाराच्च, अस्य सेट्त्वात्॥
बाल-मनोरमा
श्लिषः ३४३, ३।१।४६

श्लिषः। "च्ले"रिति "शल इगुपधा"दित्यतोऽनिटः क्स इति चानुवर्तते। तदाह-- अस्मात्परस्येत्यादिना। ननु "शल इगुपधा"दित्येव क्से सिद्धे किमर्थमिदमित्यत आह-- पुषाद्यङोऽपवाद इति। "शल इगुपधा"दिति क्सं बाधित्वा परत्वात्पुषाद्यङ् स्यात्, तन्निवृत्तये पुनः क्सविधिरित्यर्थः। ननु "श्लिष" इति क्सोयथा परमपि पुषाद्यङं बाधते तथा "चिण्भावकर्मणो"रिति चिणमपि परं बाधते, एवं सति "उपाश्लेषि कन्या देवदत्तेने"त्यत्र कर्मणि लुङि "चिण्भावकर्मणो"रिति च्लेश्चिण्न स्यादित्यत आह-- नतु चिण इति। "श्लिषः" इति क्सविधिः "चिण् भावकर्मणो"रिति चिण्विधेर्न बाधक इत्यर्थः। कुत इत्त आह-- पुरस्तादिति। "शल इगुपधादनिटः क्सः" "श्लिषः" "पुषादिद्युताद्यलृदितः परस्मैपदेषु" "चिण् भावकर्मणो"रिति सूत्रक्रम इति भावः।

बाल-मनोरमा
आलिङ्गने ३४४, ३।१।४६

आलिङ्गने। "श्लिष" इति पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहानुवर्तते, श्लिष इति च। तथाच आलिङ्गने विद्यमानात् श्लिषेः परस्य च्लेः क्सः स्यादिति लभ्यते। "श्लिषः" इति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम्। तदाह-- श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्रेति। नन्वयं नियमः "अनन्तरस्येटति न्यायात् "श्लिष" इति सूत्रप्राप्तस्यैव स्यान्नतु "शल इगुपधा"दित्यस्यापीत्यत आह-- शल इगुपधादित्यस्याप्ययं नियम इति। कुत इत्यत आह-- योगविभागसमाथ्र्यादिति। यदि "श्लिष" इति प्राप्तएव क्स आलिङ्गन एव इति नियम्येत तर्हि योगविभागो व्यर्थः स्यात्, "श्लिष् आलिङ्गने" इत्येकसूत्रत्वे सत्यपि अनालिङ्गने क्सो नेत्यस्यार्थस्य सिद्धत्वात्। अतः "शल इगुपधा"दिति क्सोऽपि श्लिषेरालिङ्गने एव न त्वनालिङ्गनेऽपि इति नियमो विज्ञायत इत्यर्थः। अश्लिक्षत्कन्यां देवदत्त इति। आलिङ्गदित्यर्थः। अत्र पुषाद्यङं बाधित्वा अनेन क्सः। समाश्लिषज्जतु काष्ठमिति। जतु = लाक्षा। सा च काष्ठलग्नैवोत्पद्यते इति स्थितिः। जतु च काष्टं चेति समाहारद्वन्द्वः। "उपाश्लिषज्जतु काष्ठं चे"त्येव भाष्यम्। अत्र श्लिषेरालिङ्गनार्थकत्वाऽभावान्न क्सः, किन्तु पुषाद्यङेवेति बावः। नन्वजादित्वाऽभावेन आडागमस्याऽसंभवात्समाश्लिषदित्ययुक्तमित्यत आह-- आङिति। समाश्लिषदित्यत्र श्लिषेः प्रागाङुपसर्ग एव, न त्वाडागम इति भ्रमितव्यमित्यर्थः। नन्वालिङ्गनं समाश्लेषणं, तथा च समाश्लिषज्जतु काष्ठमित्यत्रापि श्लिषेरालिङ्गनार्थकत्वात्क्सो दुर्वार इत्यत आह-- प्रत्यासत्ताविहेति। इह = समाश्लिषज्जतु काष्ठमित्यत्र, श्लिषिः प्रत्यासत्तौ = संयोगे वर्तते, नतु बाह्वादिना संवलनात्मकसंबन्धविशेषरूपे आलिङ्गने इत्यर्थः। नन्वालिङ्गने एव श्लिषश्च्लेः क्सो, न त्वनालिङ्गने इति नियमादनालिङ्गने "शल इगुपधा" दित्यपि क्सो न भवतीत्युक्तमयुक्तं, समाश्लिषज्जतु काष्ठमित्यत्राऽनालिङ्गने "शल इगुपधा"दितक्सं बाधित्वा परत्वात्पुषाद्यङ एव प्राप्त्या क्सस्याऽप्रसक्तेरित्यत आह--- कर्मणीति। अनालिङ्गनवृत्तेः श्लिषधातोः कर्मणि लुङि च्लेः सिजेव भवति, न तु पुषाद्यङ्, तस्य परस्मैपदविषयत्वात्, कर्मणि लुङश्च "भावकर्मणो"रित्यात्मनेपदनियमात्। तस्य च "शल इगुपधा" दिति प्राप्तः क्स उक्तेन नियमेन अनालिङ्गनेऽपि वार्यते इति युक्तमित्यर्थः। यदुक्तम्--- "आलिङ्गने श्लिषश्च्लेः क्सः पुषाद्यङ एवापवादो नतु चिण"इति, तस्य प्रयोजनमाह--एकवचने चिणिति। तदेवोदाह्मत्य दर्शयति-- अश्लेषीति। आलिङ्गिता कन्या देवदत्तेनेत्यर्थः। श्लिषेरालिङ्गनार्थकात्कर्मणि लुङिप्रथमैकवचने तशब्दे परे "चिण भावकर्मणो"रिति च्लेश्चिणि कृते "चिणो लु"गिति तशब्दस्य लुक्। अत्र "श्लिष" इति क्सस्य पुषाद्यङ्मात्रापवादत्वाच्चिणपवादत्वाऽभावाच्चिण् निर्बाध इति भावः। "समाश्लेषि जतुना काष्ठ"मित्यत्र त्वनालिङ्गनाच्च्लेश्चिणो निर्बाधत्वादश्लेषीति निर्बाधमेव। एवं च आलिङ्गने अनालिङ्गनेऽपि श्लिषः कर्मणि लुङि एकवचने तशब्दे परे च्लेश्चिणेवेति स्थितम्। अथाऽनालिङ्गने श्लिषः कर्मणि लुङ आतामि च्लेः क्साऽभावात्सिचि "षढो"रिति षस्य कत्वे सस्य षत्वे रूपमिति भावः। नन्वश्लिक्षामित्यत्र सत्यपि क्से "कस्स्याची"त्यकारलोपे इष्टं सिद्धमित्यस्वरसात्कर्मणि लुङि झादावुदाहरति-- अश्लिक्षतेत्यादि। अश्लिष् स् झेति स्थिते जोऽन्तादेशं बाधित्वा "आत्मनेपदेष्वनतः" इत्यदादेशे षस्य कत्वे सिचः सस्य षत्वे अश्लिक्षतेतीष्यते। च्लेः क्से तु सति अश्लिष् स् झ इति स्थिते "क्सस्याची"त्यकारलोपाऽप्रसक्तेरतः परत्वात् "आत्मनेपदेष्वनतः" इत्यदादेशो न स्यादिति भावः। अश्लिष्ठा इति। श्लिषेः कर्मणि लुङस्थासि च्लेः सिचि "झलो झली"ति सिचो लोपे ष्टुत्वे "अश्लिष्ठा" इति रूपमिष्यते। क्से तु "झलो झली" त्यसंभवादश्लिक्षथा स्यादिति भावः। अश्लिड्ढ्वमिति। श्लिषः कर्मणि लुङो ध्वमि सिचि "झलो झली"ति सस्य लोपे स्य झश्त्वेनन डकारे ष्टुत्वेन धस्य ढः। क्से तु सति अश्लिक्षध्वमिति स्यादिति भावः। शक विभाषित इति। मर्षणेऽर्थे शकधातुरविकल्पित इत्यर्थः। विकल्पश्च प्रकृतपरस्मैपदविषयक एव, न तु दिवादिपाठविषयकः, व्याख्यानात्। तदाह-- उभयपदीति। मर्षणमिह--सामथ्र्यम्। शक्यति शक्यते वेति। समर्थो भवतीत्यर्थः। सेट्कोऽयमित्येके इति। स्वमते त्वनिट्क एवेति भावः। नन्वनिट्कारिकासु लृदितः शकेः पाठात्कथमनिट्कत्वमित्यत आह-- तन्मतेनेति। ये सेट्त्वं शकेर्वदन्ति तन्मतमवलम्ब्याऽनिट्कारिकासु शकि र्लृदित्पठित इत्यर्थः। संपदादिक्विबन्तादिति। रक्षुध्यत इति क्षुध्, भावे क्विप्। क्षुध् अस्य संजाता क्षुधित इति विग्रहः। वसतिक्षुधोरिति। वसेः क्षुधेश्च क्त्वानिष्ठयोरिडागमः स्यादिति तदर्थः। वक्ष्यते इति। "कृत्स्वि"ति शेषः। षिधु संराद्धाविति। निष्पत्तावित्यर्थः। प्रामादिक इति। माधवादिसंमत्वादिति भावः। रध हिंसेति। सेट्। चतुर्थाऽन्तोयम्। ररन्धतुरिति। एत्त्वाभ्यासलोपौ बाधित्वा परत्वान्नुमि संयोगात्परत्वेन अकित्त्वान्नलोपो नेति भावः।

तत्त्व-बोधिनी
श्लिषः ३००, ३।१।४६

अनिटश्च्लेः क्स इति। एतच्च "च्लेः सिच्", "शल इगुपधा"दित्यतोऽनुवर्तत इति भावः। अनिटः किम्?। "श्लिषु दाहे" इति भौवादिकस्य सेटो माभूत्। अश्लेषीत्। "शल इगुपधे"ति सिद्धे पुनः क्सविधे फलमाह-- पुषाद्यङ इति।

तत्त्व-बोधिनी
आलिङ्गने ३०१, ३।१।४६

सामथ्र्यादिति। यदि हि "श्लिष" इति प्राप्त एव क्सो नियम्येत तर्हि योगविभागो व्यर्थः स्यादिति भावः।

शल इगुपधादित्यस्यापीति। तेन कर्मण्यातांप्रभृतिष्वनालिङ्गने सिजेव भवति न तु क्सः। "समाश्लिक्षत जतूनि काष्ठै"रिति क्सप्रत्यये सति तु समाश्लिक्षन्तेति स्यादिति भावः। प्रत्यासत्ताविति। आलिङ्गनं हि प्राणिकर्तृकं न तु काष्ठादिकर्तृकमिति भावः। "श्लिषश्च्लेरालिङ्गन एव क्स" इति व्याख्यानसय् फलं दर्शयति-- कर्मणीत्यादिना। अश्लिक्षातामित्यादौ यद्यपि क्ससिचोर्विशेषो नास्ति "क्सस्याची"त्यकारलोपात्, तथापि थासादावस्त्येव विशेष इति ध्वनयन्नुदाहरति-- अश्लिष्ठः। अश्लिड्ढ्वमिति। न्यासकारादय इति। तथा च तन्मते "ञीतः क्तः" इति वर्तमाने क्तो भवति। आदित्त्वान्निष्ठायां नेट्। स्विन्नः। "विभाषा भावादिकर्मणोः"। स्विन्नम्। स्वेदितमित्यादि सिद्धम्। षिधु। संराद्धिर्निष्पत्तिः। "उदितो वे"ति क्त्वायामिड्विकल्पः। इट्पक्षे "रलो व्युपधा"दिति वा कित्त्वम्। सिधित्वा। सेधित्वा। सिद्ध्वा। प्रामादिक इति। ऊदित्त्वेत्वनुदात्तेषु सिध्यतेः पाठो व्यर्थः स्यादिति भावः।