पूर्वम्: ३।१।५१
अनन्तरम्: ३।१।५३
 
सूत्रम्
अस्यतिवक्तिख्यातिभ्यः अङ्॥ ३।१।५२
काशिका-वृत्तिः
अस्यतिवक्तिख्यातिभ्यो ऽङ् ३।१।५२

असु क्षेपने, वच परिभाषणे ब्रूञादेशो वा, ख्या प्रकथने चक्षिङादेशो वा, एभ्यः परस्य च्लेरङादेशो भवति कर्तृवाचिनि लुगि परतः। अस्यतेः पुषादिपाठादेवाङि सिद्धे पुनर् ग्रहणम् आत्मनेपदार्थम्। पर्यास्थत, पर्यास्थेताम्, पर्यास्थन्त। वक्ति अवोचत्, अवोचताम्, अवोचन्। ख्याति आख्यत्, आख्यताम्, आख्यन्। कर्तरि इति किम्? पर्यासिषातां गावौ वत्सेन।
लघु-सिद्धान्त-कौमुदी
अस्यतिवक्तिख्यातिभ्योऽङ् ६००, ३।१।५२

एभ्यश्चलेरङ् स्यात्॥
न्यासः
अस्यतिवक्तिख्यातिभ्यऽङ्। , ३।१।५२

"ब्राऊञादेशो वा" इति। ब्राऊवो वचिः" २।४।५३ इति। "चक्षिङादेशो वा" इति। " चक्षिङः ख्याञ्" २।४।५४ इति। "पर्यास्थत" इति। "उपसर्गादस्यत्यूह्रोर्वचनम्" (वा।४९) इत्युपसंख्यानात्मनेपदम्। "अस्यतेस्थुक्" ७।१।१७। "अवोचत्" इति। "वच उम्" ७।४।२० "आख्यत्" इति। पूर्ववदाकारलोपः॥
बाल-मनोरमा
अस्यतिवक्तिख्यातिभ्योऽङ् २६९, ३।१।५२

अस्यतिवक्ति। "च्लेः सिजित्यतश्च्लेरित्यनुवर्तते। तदाह--एभ्यश्च्लेरिति। अस्यत् अस्यतेति। यत्वपक्षे रूपम्। आल्लोपः। ञित्त्वादुभयपदित्वादात्मनेपदेऽपि रूपम्। क्शादेशपक्षे परस्मैपदपक्षे तु आह-- अक्शासीदिति। अङ्()विधौ ख्यातीति आत्मनेपदे लुङि रूपम्। अक्शासातामित्यादि। अख्यास्यत् अख्यास्यत। अक्सास्यत्। अक्शास्यत। वर्जने क्शाञ् नेष्ट इति। इत्येतत्पर्यन्ता इत्यर्थः। ईर् गसाविति। सेट्। ईर्ते इति। ईराते ईरते। ईर्षे ईराधेईर्ध्वे। ईरे ईर्वहे ईर्महे। ईराथामित्यपि ज्ञेयम्। ईध्र्वमिति। ई रै ईरावहै ईरामहै। ऐर्त ऐराताम् ऐरत। ऐर्याः ऐराथाम् ऐध्र्वम्। ऐरि ऐर्वहि ऐर्महि। ईरीत। ईरिषीष्ठ। ऐरिष्ठ। ऐरिष्यत। ईड स्तुतौ। ईद्वे इति। तकारस्य ष्टुत्वेन टः, जस्य चर्त्वेन ट इति भावः। ईडाते ईडते। ईड्-से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते--

तत्त्व-बोधिनी
अस्यतिवक्तिख्यातिभ्योऽङ् २३५, ३।१।५२

वक्तीति। "ब्राउवो वचिः" "वच परिभाषणे" इति उभयोग्र्रहणम्। ईर। ईरिता। ईरिष्यते। लङि। एर्त। ऐराताम्। ऐरत। ऐरि। ऐर्वहि। ऐर्महि।