पूर्वम्: ३।१।५२
अनन्तरम्: ३।१।५४
 
सूत्रम्
लिपिसिचिह्वश्च॥ ३।१।५३
काशिका-वृत्तिः
लिपिसिचिह्वश् च ३।१।५३

लिप उपदेहे षिच क्षरने, ह्वेञ् स्पर्धायाम्, एतेभ्यश्च परस्य च्लेः अङादेशो भवति। अलिपत्। असिचत्। आह्वत्। पृथग्योग उत्तरार्थः।
लघु-सिद्धान्त-कौमुदी
लिपिसिचिह्वश्च ६५८, ३।१।५३

एभ्यश्च्लेरङ् स्यात्। असिचत्॥
न्यासः
लिपिसिचिह्वश्च। , ३।१।५३

"अह्वत्" इति। पूर्ववदाकारलोपः। अथ किमर्थो योगविभागः, न "अस्यतिवक्तिख्यातिलिपिसिचिह्वश्च" इत्येक एव योगः कियतामित्याह-- "पृथक्" इत्यादि। उत्तरसूत्रे लिपिप्रभृतिभ्य एवात्मनेपदेष्वङ्विकल्पो यथा स्यादित्येवमर्थो योगविभागः। एक योगे ह्रस्यत्यादीनामप्युत्तरत्रानुवृत्तिः स्यात् तथा च तेभ्योऽपि विकल्पेनाङ् प्रसज्येत॥
बाल-मनोरमा
लिपिसिचिह्वश्च २४९, ३।१।५३

लिपिसिचि। लिपि सिचि ह्वा एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम्। "च्लेः सि"जित्यतश्च्लेरिति, "अस्यतवक्तिख्यातिभ्यः" इत्यतोऽङिति चानुवर्तते। तदाह--एभ्य इति। इदं परस्मैपदविषयम्, आत्मनेपदे विकल्पविधानात्। तदाह--

तत्त्व-बोधिनी
लिपिसिचि ह्वश्च २२०, ३।१।५३

लिपिसिचि। लिप उपदेहे। षिच क्षरणे।अलिपत्। असिचत्।