पूर्वम्: ३।१।५८
अनन्तरम्: ३।१।६०
 
सूत्रम्
कृमृदृरुहिभ्यश्छन्दसि॥ ३।१।५९
काशिका-वृत्तिः
कृमृदृरुहिभ्यश् छन्दसि ३।१।५९

कृ मृ दृ इत्येतेभ्यः परस्य च्लेः छन्दसि विषये अङादेशो भवति। शकलाङ्गुष्ठको ऽकरत्। अथो ऽमर। अदरदर्थान्। सानुमारुहत्। अन्तरिक्षाद् दिवमारुहम्। छन्दसि इति किम्? अकार्षीत्। अमृत। अदारीत्। अरुक्षत्।
न्यासः
कृमृदृरुहिभ्यश्छन्दसि। , ३।१।५९

"डुकृञ् करणे" (धा।पा।१४७२), "मृङ प्राणत्यागे" (धा।पा।१४०३), "दृ विदारणे" (धा।पा।१४९३), "हुह {बीजजन्मणि प्रादुर्भावे च धा।पा।} जन्मनि" (धा।पा।८५९)। तत्राद्यानां त्रयाणां सिचि प्राप्ते, रुहेश्च "शल इगुपधादनिटः" ३।१।४५ इति क्से प्राप्ते। "अकरत्" इति। पूर्ववद्()गुणः। "अमरत्" इति। व्यत्ययेन परस्मैपदम्। भाषायां तु अकार्षीत्, अमृत, अदारीत्, अरुक्षदिति भवति॥