पूर्वम्: ३।१।६१
अनन्तरम्: ३।१।६३
 
सूत्रम्
अचः कर्मकर्तरि॥ ३।१।६२
काशिका-वृत्तिः
अचः कर्मकर्तरि ३।१।६२

अजन्ताद् धातोः परस्य च्लेः कर्मक्र्तरि तशब्दे परतः चिणादेषो भवति। प्राप्तविभाषेयम्। अकारि कटः स्वयम् एव, अकृत कटः स्वयम् एव। अलावि केदारः स्वयम् एव, अलविष्ट केदारः स्वयम् एव। अचः इति किम्? अभेदि काष्ठं स्वयम् एव। कर्मकर्तरि इति किम्? अकारि कटो देवदत्तेन।
तत्त्व-बोधिनी
अचः कर्मकर्तरि ४८८, ३।१।६२

अचः कर्म। "चिण् ते पदः" इत्यतश्चिण्तेशब्दावनुवर्तेते,"दीपजने"त्यतोऽन्यतरस्यामिति च। तदाह--अजन्तादित्यादि। अचः किम्?। अभेदिकाष्ठम्। अत्र नित्यं चिण्। कर्मकर्तरि किम्?। अकारि घटः कुलालेन। अत्रापि नित्यमेव। दुहश्च। कर्मकर्तरीत्येव। अदोहि गौर्गोपेनेत्यत्र तु नित्यम्। उदुम्बरः फलमिति। "कालः उदुम्बरं फलं पचती"ति स्थिते गौणकर्मण उदुम्बरस्य कर्तृत्वविवक्षायामिह कर्मवद्भावः। ननु द्विकर्मकेषु पचेरप्रामाणिकः पाठ इति ये वदन्तितेषामयं ग्रन्थः कथं सङ्गच्छत इति चेत्। अत्राहुः-- "उदुम्बरः फलं पचती"त्यत्र "कर्मवत्कर्मणे"त्यस्याऽप्राप्तौ "दुहिपच्यो"रित्यनेन कर्मवद्भावो बहुलं विधीयते सृजियुज्योरिवेति न काप्यनुपपत्तरिति।

*सृजियुज्योः श्यंस्तु। श्यनो नित्त्वमाद्युदात्तार्थम्। यकि तु "तास्यनुदात्ते"दित्यादिना लसार्वधातुकानुदात्तत्वे कृते यक उदात्तत्वं श्रूयेत। श्रद्धोपपन्न इति। अश्रद्धायुक्ते कर्तरि तु यगेव।

* भूषामकर्मेति। कर्मशब्दः क्रियावाचीत्याह-- भूषावाचिनामिति। अन्यत्रेति। आत्मनेपदादन्यस्य निषेध आत्मनेपदमेव भवतीत्यर्थस्तदेतदाह-- यक्चिणाविति। अवाकीर्ष्टेति। "लिङ्सिचौ" इति वेट्। आद्रियत इति। तुदादित्वाच्छे "रिङ् शयग्लिङ्क्षु" इति रिङि इयङ्। आदृतेति। "उश्चे"ति कित्त्वम्। "ह्यस्वादङ्गा"दिति सिचो लोपः।