पूर्वम्: ३।१।६६
अनन्तरम्: ३।१।६८
 
सूत्रम्
सार्वधातुके यक्॥ ३।१।६७
काशिका-वृत्तिः
सार्वधातुके यक् ३।१।६७

भावकर्मवाचिनि सार्वधातुके परतो धतोः यक् प्रत्ययो भवति। आस्यते भवता। शय्यते भवता। कर्मणि क्रियते कटः। गम्यते ग्रामः। ककारो गुणवृद्धिप्रतिषेधार्थः। यग्विधाने कर्मक्र्तर्युपसङ्ख्यानम्। विप्रतिषेधाद् धि यकः शपो वलीयस्त्वम्। क्रियते कटः स्वयम् एव। पच्यते ओदनः स्वयम् एव।
लघु-सिद्धान्त-कौमुदी
सार्वधातुके यक् ७५५, ३।१।६७

धातोर्यक् भावकर्मवाचिनि सार्वधातुके। भावः क्रिया। सा च भावार्थकलकारेणानूद्यते। युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमः पुरुषः। तिङ्वाच्यक्रियाया अद्रव्य रूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि किंत्वेकवचनमेवोत्सर्गतः।त्वया मया अन्यैश्च भूयते। बभूवे॥
न्यासः
सार्वधातुके यक्। , ३।१।६७

भावकर्मणोरित्यनुवत्र्तते,तच्चेह सार्वधातुकस्य विशेषणमिति दर्शयन्नाह-- "भावकर्मवाचिनि" इत्यादि। भावकर्मणोरर्थयोर्वत्र्तते यत् सार्वधातुकं तद्भावकर्मवाचि। ताच्छील्य आवश्नके णिनिः। अथैवं कस्मान्न भवति-- भावकर्मणोरभिधेययोः सार्वधातुके परतो यग्भवतीति? अशक्यमेवं वक्तुम्; सार्वधातुकवाच्यत्वेन भावकर्मणोः शास्त्रे प्रतिज्ञानात्। कुत एतदिति चेत्? "लः कर्मणि च भावे चाकर्मकेभ्यः" ३।४।६९ इति वचनात्। ननु चाकारि कटो भवता, अशायि भवता, अबिभर्भवानित्यादौ सार्वधातुकाभावेऽपि कर्मादीनां प्रतीयमानत्वात् सार्वधातुकार्थता नोपपद्यते; न हि यो यदभावे प्रतीयते स तस्यार्थो युज्यते, अन्वयव्यतिरेकसमधिगम्यत्वादर्थस्य? नैष दोषः; न ह्रयं नियमः-- अन्वयव्यतिरेकसमधिगम्यत्वादर्थवत्तया। भवितव्यमिति, किं तर्हि? प्रतिज्ञा। प्रापिता च सा भवति यथा क्विबादीनाम्। अस्ति च सार्वधातुकस्येति यत्किञ्चिदेतत्। "शय्यते" इति।"अयङयि क्ङिति" ७।४।२२ इत्ययङादेशः। "ययग्विधाने" इत्यादि। ननु च कर्मवदित्यतिदेशादेव यग्भविष्यतीति किमुपसंख्यानेनेत्यत आह-- "विप्रतिषेधाद्धि" इत्यादि। "कत्र्तरि शप्" ३।१।६८ इत्यस्यावकाशः-- शुद्धः कत्र्ता भवतीति; "सार्वधातुके यक्" ३।१।६७ इत्यस्यावकाशः- शुद्धं कर्म, पच्यत ओदन इति। पच्यत ओदनः स्वयमेवेत्यत्र कर्मवद्भावाद्यक्? प्राप्नोति, वत्करणात् स्वाश्रयकमपि यथा स्यादिति कर्त्तृत्वस्य सम्भवाच्छबपि, तत्र परत्वाच्छबेव स्यात्। शशास्त्रं यक्शास्त्रात् परं भवति, तस्मात् कर्मकत्र्तरि यक उपसंख्यानम् = प्रतिपादनं कत्र्तव्यम्। प्रतिपादनं त्विदम् -- ज्ञापकात् कर्मकत्र्तर्यपि यग्भविष्यतीति। किं तज्ज्ञापकम्? "न दुहस्नुनमां यक्चिणौ" ३।१।८९ इति प्रतिषेधः। यदि हि कर्मकत्र्तरि यग्न स्यात् प्रतिषेधोऽनर्थकः स्यात्। विप्रतिषेधाद्धि शपो बलीयस्त्वं शास्त्रातिदेशत्वमभ्यपेत्योक्तम्, न त्वसौ शास्त्रातिदेशः, किं तर्हि? कार्यातिदेशः। कार्यातिदेशसूत्रमेव स्वतन्त्रं यगादेः कार्यस्य विधायकम्, तच्च परम्; अतो विप्रतिषेधाद्यक एव बलीयस्त्वम्॥
बाल-मनोरमा
सार्वधातुके यक् ५८१, ३।१।६७

सार्वधातुके यक्। धातोरिति। "धातोरेकाचः" इत्यतस्तदनुवृत्तेरिति भावः। भावकर्मवाचिनीति। "चिण्भावकर्मणो"रित्यतस्तदनुवृत्तेरिति भावः। घटस्य भावो घटत्वमित्यादौ प्रकृतिज्नयबोधे प्रकारो भावः। कवेरयं भाव इत्यादौ अभिप्रायः। "भावः पदार्थसत्तायां क्रियाचेष्टात्मयोनिषु। विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु" इति नानार्थरत्नमाला। "भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्तुषु" इत्यमरः। इह तु "लः कर्मणि" इत्यत्र भावशब्दो भावनायां यौगिक इत्याह-- भावो भावनेति। लः कर्मणी"त्यत्र भावशब्देन भावना विवक्षितेति भावः। भावनाशब्दस्य चिन्तायामपि प्रसिद्धत्वादाह-- उत्पादनेति। उत्पत्त्यनुकूलो व्यापार इत्यर्थः। एवं च भूधातोरुत्पत्त्यर्थकाद्धेतुमण्णौ वृद्ध्यावादेशयोर्भाविशब्दात् "एर"जिति भावे अचि णिलोपे भावशब्दः, भावयतेरुत्पत्त्यर्थकाद्धेतुमण्ण्यन्तात् स्त्रियामित्यधिकारे "ण्यासश्रन्थो यु"जिति युचि अनादेशे टापि भावनाशब्द इति बोध्यम्। उत्पादना चेयं धात्वर्थान्नातिरिच्यते इति दर्शयतुमाह-- क्रियेति। धात्वर्थात्मकक्रियैव उत्पादनेत्यर्थः। तथाहि "फलव्यापारयोर्धातु"रिति सिद्धान्तः। पचधातोः पाकोऽर्थः। पाको--विक्लित्त्यनुकूलव्यापारः। तत्र विक्लित्त्यंशः फलम्। अधिश्रयणादिस्तदनुकूलो व्यापारः। तथाविधव्यापाराश्रयो देवदत्तादिः कर्ता, "धातूपात्तव्यापाराश्रय कर्ते"ति सिद्धान्तात्। अधिश्रयणादिव्यापारजन्या विक्लत्तिः फलं, तदाश्रयत्वादोदनं कर्म, "व्यापारजन्यफलशालि कर्मे"ति सिद्धान्तात्। एवं सकर्मकेषु सर्वत्र ज्ञेयम्। "एध वृद्धौ"इत्यस्मिन्नकर्मकेऽपि वृद्ध्यनुकूलव्यापारो धात्वर्थः। नचैवं सति "एधते देवदत्त" इत्यत्र धातूपात्तव्यापाराश्रयत्वाद्व्यापारव्यधिकरणफलाश्रयत्वं कर्मत्व"मिति सिद्धान्तात्। एवं च फलोत्पत्त्यनुकूलव्यापारात्मिका क्रिया धात्वर्थ इति सिद्धम्। एतेन क्रियावाची धातुः, धातुवाच्या क्रियेत्यन्योन्याश्रयोऽपि निरस्तः। उत्पत्त्यनुकूलव्यापारस्यैव क्रियात्वात्। तदुक्तं-- "व्यापारो भावना सैवोत्पादना सैव च क्रिये"ति। ननूत्पत्त्यनुकूलव्यापारस्यैव सर्वत्र धातुवाच्यत्वे सर्वेषां धातूनामेकार्थत्वापत्तिः। विक्लित्त्यादितत्तत्फलोत्पत्त्यनुकूलव्यापार्थकत्वं तु न संभवति, एकैकस्य धातोर्विक्लित्त्यादितत्तत्फलांशे, तदनुकूलव्यापारात्मकव्यापारसामान्ये च वाचकत्वानुपपत्तेरित्यत आह-- सा चेत्यादि। पच्यादयो धातुत्वेन रूपेण उत्पत्त्यनुकूलव्यापारात्मिकं क्रियामाहुः। पचित्वादितविशेषरूपेण तु विक्लित्त्यादितत्तत्फलांशमाहुः। तथा च वाचकतावच्छेदकबेदाद्विक्लित्त्यादिफलविशेषस्य, क्रियासामान्यस्य च वाच्यता सङ्गच्छते इति भावः। तथा च भट्टिराह-- "विभज्य सेनां परमार्थ सेनापतींश्चापि पुरन्दरोऽथ। नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून्॥" इति। अस्तिभवतिविद्यतीनामपि सत्तानुकूलव्यापार एवार्थः। तत्र सत्ता आत्मभरणम्। तदनुकूलव्यापारस्तु जायते, अस्ति, विपरिणमते, वद्र्धते, अपक्षीयते, विनश्यतीति वाष्र्यायणिप्रणीतषड्भावविकारेष्वन्यतमो यथायथं ज्ञेयः। भूवादिसूत्रे भाष्ये स्पष्टमेतत्। प्रपञ्चतं च मञ्जूषायामित्यलम्। ननूत्पादनात्मकक्रियारूपस्य भावस्य धातुवाच्यत्वे "लः कर्मणि च भावे चे"ति भावे कथं लकारविधिः। अनन्यलभ्यस्यैव शब्दार्थत्वादित्यत आह-- भावार्थकलकारेणानूद्यते इति। "द्वौ" "त्रयः" इत्यादौ द्विवचनबहुवचनवदति भावः। युष्मदस्मद्भ्यामिति। युष्मदि अस्मिद च तिङ्समानाधिकरणे उपपदे मध्यमोत्तमपुरुषौ विहितौ। युष्मदस्मदोस्तिङ्सामानाधिकरण्यं च तिङ्वाच्यकारकवाचित्वमेव। भावे लकारे तु "आस्यते त्वया" "आस्यते मये"त्यादौ भाव एव तिङ्वाच्यो नतु युष्मदस्मदर्थौ, अतो न मध्यमोत्तमावित्यर्थः। कर्मलकारे तु "त्वं वन्द्यसे","अहं वन्द्ये" इत्यादौ लकारस्य, युष्मदस्मदोश्च सामनाधिकरण्यसंभवात्पुरुषत्रयमपि यथायथमुदाहरिष्यते। तिङ्वाच्येति। सत्त्वं = द्रव्यं-- लिङ्गसङ्क्यान्वययोग्यम्। तिङ्वाच्या या भावना क्रिया सा असत्त्वरूपा = लिङ्गसङ्ख्यान्वयाऽयोग्या, शब्दशक्तिस्वभावात्। ततश्च तस्यां तिङ्वाच्यभावनायां द्वित्वबहुत्वयोरप्रतीतेर्युवाभ्यां युष्माभिर्वा आस्यते इत्यादौ न द्विवचनं, बहुवचनं चेत्यर्थः। तिङ्वाच्येत्यनेन कृद्वाच्यायाः क्रियाया लिङ्गसङ्ख्यान्वयित्वात्मकं सत्त्वरूपत्वमस्तीत्युक्तं भवति। तद्यथा - पाकौ पाका इत्यादि। तदुक्तं --"सार्वधातुके य"गिति सूत्रे भाष्ये - "कृदभिहितो भावो द्रव्यवत्प्रकाशते" इति। द्रव्यवल्लिङ्गसङ्ख्यान्वयं लभते इत्यर्थः, शब्दशक्तिस्वभावादिति भावः। ननु तिङ्वाच्यभावनाया असत्त्वरूपतया द्विवहुवचनाऽभावे आस्यते इत्यादौ एकवचनं च न स्यादित्यत आह-- किं त्वेकवचनमेवेति। "तिङ्वाच्यभावलकारस्ये"ति शेषः। तस्येति। "द्वेयकयोर्द्विवचनैकवचने" "बहुषु बहुवचन"मिति सूत्रन्यासं भङ्क्त्वा "एकवचनं" द्विबहुषु द्विबहुवचने" इति सूत्रन्यासः कर्तव्यः। तत्र द्वित्वबहुत्वयोर्द्विबहुवचननियमे सति तयोरविषये एकवचनमिति लभ्यते इति भाष्ये स्पष्टम्। एवं च एकवचनस्य एकत्वमुत्सृज्य द्विबहुवचनान्यविषये विहितत्वेन औत्सर्गिकतया एकत्वसङ्ख्यानपेक्षत्वाद्भावलकारस्य असत्त्वरूपभाववाचित्वेऽप्येकवचनमेवेति भावः। अनभिहिते इति। भावलकारे कर्तुस्तिङ्वाच्यत्वाऽभावेन अनभिहितत्वात्तृतीयेत्यर्थः। त्वया मयेति। त्वत्कर्तृकं मत्कर्तृकम् अन्यकर्तृकं भवनमित्यर्थः।

तत्त्व-बोधिनी
सार्वधातुके यक् ४७७, ३।१।६७

सार्वधातुके यक्। "धातोरेकाचः" इत्यतो धातोरिति, "चिण् भावकर्मणो"रित्यतो बावकर्मणोरिति चानुवर्तते। भावो भावनेति। उत्पत्त्यर्थद्भवतेर्णिजन्तादेरजिति भावः। "एरजण्यन्ताना"मिति त्वनार्षमिति तस्मिन्नेव सूत्रे कैयटः। भवतेरुत्पत्त्यर्थत्वं, ण्यन्तस्य भवतेः शुद्धेन करोतिना तुल्यार्थत्वं च दर्शयति-- उत्पादना क्रियेति। यथा करोति घटमित्यादावुत्पत्त्यनुकूलो व्यापारः कुलालनिष्ठः, तथा भावयति घटमित्यादावपि। भवति घट इत्यत्रापि घटनिष्ठ उत्पत्त्यनुकूलो व्यापारोऽस्त्येव, परंतु फलसमानाधिकरणः सः, कुलालनिष्ठस्तु फलव्यधिकरण इतीयान्भेदः। अत एव फलव्यापरयोः सामानाधिकरण्याद्भवत्यादिरकर्मकः, तयोस्तु वैयधिकरण्यात्करोत्यादिः सकर्मक इत्याहुः। एतेन "भावो भावने" त्यादिग्रन्थेन "भूवादयो धातवः" इत्यत्र क्रियावाचिनः किम्?। विकल्पार्थकवाशब्दाद्भावे लिण् माभूत्। अन्यथा भ्वादिगणे वाशब्दमात्रपठनादक्रियावाचिनोऽपि वाशब्दस्य धातुत्वे "धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते" इति विकल्पस्यापि बावत्वापत्त्या तद्वाचकवाशब्दाल्लिट् स्यादेवेति केषांचिद्व्याख्यानं परास्तम्, भावनावाचकादेव भावे लिटः स्वीकारात्। विकल्पस्य तु भावनाभिन्नत्वात्। अन्यथा "क्रियावाचिन" इति विशेषणे दत्तेऽपि तद्दोषतादवस्थ्यात्। विकल्पवाचकाल्लिडभावेऽपि लडादयः स्युरिति तु न शङ्कनीयमेव, वर्तमानक्रियादिवृत्तेरेव लडादीनां विधानात्। किम्रथं तर्हि क्रियावाचिनो भ्वादय इति सर्वैरेव तत्र व्याख्यातम्()। "याः पश्यसी"त्यत्रापि लक्षणप्रतिपदोक्तपरिभाषया याशब्दस्य धातुत्वाऽसंभवात् "आतो धातोः" इति तत्राऽ‌ऽल्लोपाप्रसक्तिरिति चेत्। अत्राहुः-- "कार्यकालं संज्ञापरिभाष"मिति पक्षे "आतो धातुत्वाऽसंभवात् "आतो धातोः" इति तत्राऽल्लोपाप्रसक्तिरिति चेत्। अत्राहुः-- "कार्यकालं संज्ञापरिभाष"मिति पक्षे "आतो धातो"रिति कार्यप्रदेशे भ्वादयो धातव इत्युपतिष्ठते भ्वादिषु याशब्दमातर्पठनाद्द्रव्यवाचकोऽपि याशब्दस्तत्रोपतिष्ठते। वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषाया अप्रवृत्तेः, "आतो धातो"रित्यत्र त्वात् इति वर्णग्रहणात्। तस्माद्द्व्यवचाकस्य याशब्दस्य धातुसंज्ञा माभूदिति क्रियावाचिन इति विशेषणमवश्यं वक्तव्यमेवेति। "उत्पादना क्रिये" त्यनेन तु क्रियावाची धातुर्धात्वर्थः क्रियेत्यन्योन्याश्रयोऽत्र दुष्परिहर इति केषांचिदाक्षेपो निरस्तः। उत्पत्त्यनुकूलव्यापारस्य क्रियात्वात्। तद#उक्तम्-- "व्यापारो भावना सैवोत्पादना सैव च क्रिये"ति। धातुत्वेनेति। सकलधातुषु धातुत्वं जातिरखण्डोपाधिर्वेत्यन्यदेतत्। तच्च वाचकतावच्छेदकम्। क्रियात्वं तु वाच्यतावच्छेदकमिति भावः। धातुवाच्येति। नन्वेवं पचतीत्यादावेककर्तृका वर्तमाना पचिक्रियेति क्रियाविशेष्यको बोधो न स्यात्, प्रत्ययार्थं प्रति प्रकृत्यर्थस्यविशेषणताया औपगवादौ क्लृप्तत्वात्। तथा च "भावना तिङ् प्रत्ययवाच्ये"ति मीमांसकमतमेव रमणीयमिति चेत्। अत्राहुः-- "प्रत्ययार्थः प्रधान"मिति उत्सर्गः, स चेह त्यज्यते,"क्रियाप्रधानमाख्यात"स्मरात्। टाबाद्यर्थत्वेन मीमांसकैरभ्युपगतस्य स्त्रीत्वस्य पाचिकादौ विशेषणत्वाब्युपगमात्प्रत्ययार्थः प्रधानमिति नियमस्य त्यक्तत्वाच्च। किं च भोक्तव्यमित्यादौ तिङं विनापि भावना प्रतीयते, कारकापेक्षा च दृश्यते। अस्ति च करोतिसामानाधिकरण्यम्। किं च भोक्तव्यमित्यादौ तिङं विनापि भावना प्रतीयते, कारकापेक्षा च दृश्यते। अस्ति च करोतिसामानाधिकरण्यम्। किं कर्तव्यं?, भोक्तव्यम्, किं कृतवान्?, भुक्तवानिति। नच कृतामपि तव्यदादीनां भावनावाचकत्वमस्त्विति शङ्क्यम्, नामार्थयोरभेदान्वयानुरोधेन "कर्तरि कृ"दिति तव्यदादयः कर्म#आदाविति परैरप्यभ्युपगमात्। अन्यथा पाचको देवदत्तः, पक्तव्य ओदन इत्यत्राऽभेदबोधो न स्यात्। तथा च धातुवाच्यत्वं भावनाया इत्येव मतं रमणीयतरमिति। लकारस्य सामानाधिकरण्यं कर्तृकर्माभिधायिन एव संभवति न भावाभिधायिन इत्याशयेन व्याचष्टे-- सामानाधिकरणयाभावादिति। न चैवं युष्मदस्मद्भिन्नोपपदे समानाधिकरणे देवदत्तः पतीत्यादाविव प्रथमपुरुषेण भाव्यमिति प्रथमपुरुषोऽप्यत्र न स्यादिति वाच्यं, "शेषे प्रथमः" इत्यत्र "मध्यमोत्तमयोरविषये प्रथमः स्या"दिति व्याख्यानात्। तिङ्वाच्येति। घञादितवाच्यायास्तु सत्त्वरूपत्वमिष्टमेवेति पाकं पाकेनेत्यादौ यथायथं द्वितीयादयः प्रवर्तन्ते। अत एव भाष्यकृतोक्तं "कृदभिहितो भावो द्रव्यवत्प्रकाशते" इति। द्रव्यधर्मांल्लिङ्गसङ्ख्याकारकादीन् गृह्णातीत्यर्थः। एकवचनमेवेति। प्रायोवादोऽयम्। अन्यथा "उष्ट्रासिका आस्यन्ते" "हतशायिकाः शय्यन्ते" इति भाष्ये धात्वर्थनिर्देशे ण्वुलि कृदभिहितो भावो द्रव्यवत्प्रकाशत इत्यासिकाः शायिका इत्यत्र बहुवचनसिद्धावपि आस्यन्ते शय्यन्ते इत्यत्र तन्न सिध्येत्। न च कर्मण्येवाऽत्र लकारोऽस्त्विति शङ्क्यम्, धातुद्वयस्याप्यकर्मकत्वेन तदसंभवात्, अर्थाऽसङ्गतेश्च। तत्र ह्रुष्ट्राणां यादृशान्यासनानि हतानां यादृशानि शयनानि तादृशानि देवदत्तादि कर्तृकान्यासनादीनीत्यर्थः। सादृश्यावगमादिह आख्यातवाच्यस्यापि भावस्य भेदाऽवभासाद्बहुवचनम्। न चैवं सङ्क्यान्वयित्वे असत्त्वरूपता न स्यादिति वाच्यम्, लिङ्गक्रियाऽनाधारकारकयोगाऽभावमात्रेणाऽसत्त्वरूपत्वमुपपद्यत इति कारकेषूक्तत्वात्। केचिदिह उष्ट्रासिका-- हतशायिकाशब्दयोस्तत्सदृशे लक्षणां स्वीकृत्य आस्यन्त इत्यादिना अभेदान्वयमाहुः। मनोरमायां तु आसिकाः शायिका इति च द्वितीयाबहुवचनं, क्रियाविशेषणत्वेन कर्मत्वात्। न चैवं क्लीबत्वमेकवचनान्तत्वं च स्यादिति वाच्यम्, "स्त्रियां क्त"न्नित्यधिकारात्स्त्रीत्वाऽवधारणेन "सामान्ये नपुंसक"मित्यस्याऽप्रवृत्तेः। बहुवचनत्वावधारणेनैकवचनाप्रवृत्तेश्चेत्युक्तम्।